[अर्ज] निवर्तमानेन मया महद दृष्टं ततॊ ऽपरम पुरं कामचरं दिव्यं पावकार्क समप्रभम ॥ 1 ॥
दरुमै रत्नमयैश चैत्रैर भास्वरैश च पतत्रिभिः पौलॊमैः कालकेयैश च नित्यहृष्टैर अधिष्ठितम ॥ 2 ॥
गॊपुराट्टालकॊपेतं चतुर्द्वारं दुरासदम सर्वरत्नमयं दिव्यम अद्भुतॊपमदर्शनम दरुमैः पुष्पफलॊपेतैर दिव्यरत्नमयैर वृतम ॥ 3 ॥
तथा पतत्रिभिर दिव्यैर उपेतं सुमनॊहरैः असुरैर नित्यमुदितैः शूलर्ष्टि मुसलायुधैः चापमुद्गर हस्तैश च सरग्विभिः सर्वतॊवृतम ॥ 4 ॥
तद अहं परेक्ष्य दैत्यानां पुरम अद्भुतदर्शनम अपृच्छं मातलिं राजन किम इदं दृश्यतेति वै ॥ 5 ॥
[मा] पुलॊमा नाम दैतेयी कालका च महासुरी दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः तपसॊ ऽनते ततस ताभ्यां सवयम्भूर अददाद वरम ॥ 6 ॥
अगृह्णीतां वरं ते तु सुतानाम अल्पदुःखताम अवध्यतां च राजेन्द्र सुरराक्षस पन्नगैः ॥ 7 ॥
रमणीयं पुरं चेदं खचरं सुकृतप्रभम सर्वरत्नैः समुदितं दुर्धर्षम अमरैर अपि सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः ॥ 8 ॥
सर्वकामगुणॊपेतं वीतशॊकम अनामयम बरह्मणा भरतश्रेष्ठ कालकेय कृते कृतम ॥ 9 ॥
तद एतत खचरं दिव्यं चरत्य अमर वर्जितम पौलॊमाध्युषितं वीर कालकेयैश च दानवैः ॥ 10 ॥
हिरण्यपुरम इत्य एतत खयायते नगरं महत रक्षितं कालकेयैश च पौलॊमैश च महासुरैः ॥ 11 ॥
त एते मुदिता नित्यम अवध्याः सर्वदैवतैः निवसन्त्य अत्र राजेन्द्र गतॊद्वेगा निरुत्सुकाः मानुषॊ मृत्युर एतेषां निर्दिष्टॊ बरह्मणा पुरा ॥ 12 ॥
[अर्ज] सुरासुरैर अवध्यांस तान अहं जञात्वा ततः परभॊ अब्रुवं मातलिं हृष्टॊ याह्य एतत पुरम अञ्जसा ॥ 13 ॥
तरिदशेश दविषॊ यावत कषयम अस्त्रैर नयाम्य अहम न कथंचिद धि मे पापा न वध्या ये सुरद्विषः ॥ 14 ॥
उवाह मां ततः शीघ्रं हिरण्यपुरम अन्तिकात रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ 15 ॥
ते माम आलक्ष्य दैतेया विचित्राभरणाम्बराः समुत्पेतुर महावेगा रथान आस्थाय दंशिताः ॥ 16 ॥
ततॊ नालीकनाराचैर भल्लशक्त्यृष्टि तॊमरैः अभ्यघ्नन दानवेन्द्रा मां करुद्धास तीव्रपराक्रमाः ॥ 17 ॥
तद अहं चास्त्रवर्षेण महता परत्यवारयम शस्त्रवर्षं महद राजन विद्या बलम उपाश्रितः ॥ 18 ॥
वयामॊहयं च तान सर्वान रथमार्गैश चरन रणे ते ऽनयॊन्यम अभिसंमूढाः पातयन्ति सम दानवाः ॥ 19 ॥
तेषाम अहं विमूढानाम अन्यॊन्यम अभिधावताम शिरांसि विशिखैर दीप्तैर वयहरं शतसंघशः ॥ 20 ॥
ते वध्यमाना दैतेयाः पुरम आस्थाय तत पुनः खम उत्पेतुः सनगरा मायाम आस्थाय दानवीम ॥ 21 ॥
ततॊ ऽहं शरवर्षेण महता परत्यवारयम मार्गम आवृत्य दैत्यानां गतिं चैषाम अवारयम ॥ 22 ॥
तत पुरं खचरं दिव्यं कामगं दिव्यवर्चसम दैतेयैर वरदानेन धार्यते सम यथासुखम ॥ 23 ॥
अन्तर्भूमौ निपतितं पुनर ऊर्ध्वं परतिष्ठते पुनस तिर्यक परयात्य आशु पुनर अप्सु निमज्जति ॥ 24 ॥
अमरावतिसंकाशं पुरं कामगमं तु तत अहम अस्त्रैर बहुविधैः परत्यगृह्णं नराधिप ॥ 25 ॥
ततॊ ऽहं शरजालेन दिव्यास्त्रमुदितेन च नयगृह्णं सह दैतेयैस तत पुरं भरतर्षभ ॥ 26 ॥
विक्षतं चायसैर बाणैर मत परयुक्तैर अजिह्मगैः महीम अभ्यपतद राजन परभग्नं पुरम आसुरम ॥ 27 ॥
ते वध्यमाना मद्बाणैर वज्रवेगैर अयस्मयैः पर्यभ्रमन्त वै राजन्न असुराः कालचॊदिताः ॥ 28 ॥
ततॊ मातलिर अप्य आशु पुरस्तात्ल निपतन्न इव महीम अवातरत कषिप्रं रथेनादित्यवर्चसा ॥ 29 ॥
ततॊ रथसहस्राणि षष्टिस तेषाम अमर्षिणाम युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत ॥ 30 ॥
तान अहं निशितैर बाणैर वयधमं गार्ध्रवाजितैः ते युद्धे संन्यवर्तन्त समुद्रस्य यथॊर्मयः ॥ 31 ॥
नेमे शक्या मानुषेण युद्धेनेति परचिन्त्य वै ततॊ ऽहम आनुपूर्व्येण सर्वाण्य अस्त्राण्य अयॊजयम ॥ 32 ॥
ततस तानि सहस्राणि रथानां चित्रयॊधिनाम अस्त्राणि मम दिव्यानि परत्यघ्नञ शनकैर इव ॥ 33 ॥
रथमार्गान विचित्रांस ते विचरन्तॊ महारथाः परत्यदृश्यन्त संग्रामे शतशॊ ऽथ सहस्रशः ॥ 34 ॥
विचित्रमुकुटापीडा विचित्रकवच धवजाः विचित्राभरणाश चैव नन्दयन्तीव मे मनः ॥ 35 ॥
अहं तु शरवर्षैस तान अस्त्रप्रमुदितै रणे नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन ॥ 36 ॥
तैः पीड्यमानॊ बहुभिः कृतास्त्रैः कुशलैर युधि वयथितॊ ऽसमि महायुद्धे भयं चागान महन मम ॥ 37 ॥
ततॊ ऽहं देवदेवाय रुद्राय परणतॊ रणे सवस्ति भूतेभ्य इत्य उक्त्वा महास्त्रं समयॊजयम यत तद रौद्रम इति खयातं सर्वामित्र विनाशनम ॥ 38 ॥
ततॊ ऽपश्यं तरिशिरसं पुरुषं नव लॊचनम तरिमुखं षड भुजं दीप्तम अर्कज्वलन मूर्धजम लॊलिहानैर महानागैः कृतशीर्षम अमित्रहन ॥ 39 ॥
विभीस ततस तद अस्त्रं तु घॊरं रौद्रं सनातनम दृष्ट्वा गाण्डीवसंयॊगम आनीय भरतर्षभ ॥ 40 ॥
नमस्कृत्वा तरिनेत्राय शर्वायामित तेजसे मुक्तवान दानवेन्द्राणां पराभावाय भारत ॥ 41 ॥
मुक्तमात्रे ततस तस्मिन रूपाण्य आसन सहस्रशः मृगाणाम अथ सिंहानां वयाघ्राणां च विशां पते ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम ॥ 42 ॥
गजानां सृमराणां च शरभाणां च सर्वशः ऋषभाणां वराहाणां मार्जाराणां तथैव च शालावृकाणां परेतानां भुरुण्डानां च सर्वशः ॥ 43 ॥
गृध्राणां गरुडानां च मकराणां तथैव च पिशाचानां सयक्षाणां तथैव च सुरद्विषाम ॥ 44 ॥
गुह्यकानां च संग्रामे नैरृतानां तथैव च झषाणां गजवक्त्राणाम उलूकानां तथैव च ॥ 45 ॥
मीनकूर्म समूहानां नानाशस्त्रासि पाणिनाम तथैव यातु दानानां गदा मुद्गरधारिणाम ॥ 46 ॥
एतैश चान्यैश च बहुभिर नानारूपधरैस तथा सर्वम आसीज जगद वयाप्तं तस्मिन्न अस्त्रे विसर्जिते ॥ 47 ॥
तरिषिरॊभिश चतुर्दंष्ट्रैश चतुरास्यैश चतुर्भुजैः अनेकरूपसंयुक्तैर मांसं मेदॊ वसाशिभिः अभीक्ष्णं वध्यमानास ते दानवा ये समागताः ॥ 48 ॥
अर्कज्वलन तेजॊभिर वज्राशनिसमप्रभैः अदिर सारमयैश चान्यैर बाणैर अरिविदारणैः नयहनं दानवान सर्वान मुहूर्तेनैव भारत ॥ 49 ॥
गाण्डीवास्त्र परणुन्नांस तान गतासून नभसश चयुतान दृष्ट्वाहं पराणमं भूयस तरिपुरघ्नाय वेधसे ॥ 50 ॥
तथा रौद्रास्त्र निष्पिष्टान दिव्याभरणभूषितान निशाम्य परमं हर्षम अगमद देव सारथिः ॥ 51 ॥
तद असह्यं कृतं कर्म देवैर अपि दुरासदम दृष्ट्वा मां पूजयाम आस मातलिः शक्रसारथिः ॥ 52 ॥
उवाच चेदं वचनं परीयमाणः कृताञ्जलिः सुरासुरैर असह्यं हि कर्म यत साधितं तवया न हय एतत संयुगे कर्तुम अपि शक्तः सुरेश्वरः ॥ 53 ॥
सुरासुरैर अवध्यं हि पुरम एतत खगं महत तवया विमथितं वीर सववीर्यास्त्र तपॊबलात ॥ 54 ॥
विध्वस्ते ऽथ पुरे तस्मिन दानवेषु हतेषु च विनदन्त्यः सत्रियः सर्वा निष्पेतुर नगराद बहिः ॥ 55 ॥
परकीर्णकेश्यॊ वयथिताः कुरर्य इव दुःखिताः पेतुः पुत्रान पितॄन भरातॄञ शॊचमाना महीतले ॥ 56 ॥
रुदन्त्यॊ दीनकण्ठ्यस ता विनदन्त्यॊ हतेश्वराः उरांसि पाणिभिर घनन्त्यः परस्रस्तस्रग्वि भूषणाः ॥ 57 ॥
तच छॊकयुक्तम अश्रीकं दुःखदैन्य समाहतम न बभौ दानव पुरं हतत्विट्कं हतेश्वरम ॥ 58 ॥
गन्धर्वनगराकारं हतनागम इव हरदम शुष्कवृक्षम इवारण्यम अदृश्यम अभवत पुरम ॥ 59 ॥
मां तु संहृष्टमनसं कषिप्रं मातलिर आनयत देवराजस्य भवनं कृतकर्माणम आहवात ॥ 60 ॥
हिरण्यपुरम आरुज्य निहत्य च महासुरान निवातकवचांश चैव ततॊ ऽहं शक्रम आगमम ॥ 61 ॥
मम कर्म च देवेन्द्रं मातलिर विस्तरेण तत सर्वं विश्रावयाम आस यथा भूतं महाद्युते ॥ 62 ॥
हिरण्यपुरघातं च मायानां चनिवारणम निवातकवचानां च वधं संख्ये महौजसाम ॥ 63 ॥
तच छरुत्वा भगवान परीतः सहस्राक्षः पुरंदरः मरुद्भिः सहितः शरीमान साधु साध्व इत्य अथाब्रवीत ॥ 64 ॥
ततॊ मां देवराजॊ वै समाश्वास्य पुनः पुनः अब्रवीद विबुधैः सार्धम इदं सुमधुरं वचः ॥ 65 ॥
अतिदेवासुरं कर्मकृतम एत तवया रणे गुर्वर्थश च महापार्थ कृतः शत्रून घनता मम ॥ 66 ॥
एवम एव सदा भाव्यं सथिरेणाजौ धनंजय असंमूढेन चास्त्राणां कर्तव्यं परतिपादनम ॥ 67 ॥
अविषह्यॊ रणे हि तवं देवदानवराक्षसैः सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ 68 ॥
वसुधां चापि कौन्तेय तवद बाहुबलनिर्जिताम पालयिष्यति धर्मात्मा कुन्तीपुत्रॊ युधिष्ठिरः ॥ 69 ॥
वनपर्व · Vana Parva
अध्याय 170
Reach this point to mark the section finished.
Continue to अध्याय 171