धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 169

  1. [अर्ज] अदृश्यमानास ते दैत्या यॊधयन्ति सम मायया अदृश्यान अस्त्रवीर्येण तान अप्य अहम अयॊधयम ॥ 1 ॥

  2. गाण्डीवमुक्ता विशिखाः सम्यग अस्त्रप्रचॊदिताः अच्छिन्दन्न उत्तमाङ्गानि यत्र यत्र सम ते ऽभवन ॥ 2 ॥

  3. ततॊ निवातवकचा वध्यमाना मया युधि संहृत्य मायां सहसा पराविशन पुरम आत्मनः ॥ 3 ॥

  4. वयपयातेषु दैत्येषु परादुर्भूते च दर्शने अपश्यं दानवांस तत्र हताञ शतसहस्रशः ॥ 4 ॥

  5. विनिष्पिष्टानि तत्रैषां शस्त्राण्य आभरणानि च कूटशः सम परदृश्यन्ते गात्राणि कवचानि च ॥ 5 ॥

  6. हयानां नान्तरं हय आसीत पदाद विचलितुं पदम उत्पत्य सहसा तस्थुर अन्तरिक्षगमास ततः ॥ 6 ॥

  7. ततॊ निवातकवचा वयॊम संछाद्य केवलम अदृश्या हय अभ्यवर्तन्त विसृजन्तः शिलॊच्चयान ॥ 7 ॥

  8. अन्तर्भूमि गताश चान्ये हयानां चरणान्य अथ नयगृह्णन दानवा घॊरा रथचक्रे च भारत ॥ 8 ॥

  9. विनिगृह्य हरीन अश्वान रथं च मम युध्यतः सर्वतॊ माम अचिन्वन्त सरथं धरणीधरैः ॥ 9 ॥

  10. पर्वतैर उपचीयद्भिः पतमानैस तथापरैः स देशॊ यत्र वर्ताम गुहेव समपद्यत ॥ 10 ॥

  11. पर्वतैश छाद्यमानॊ ऽहं निगृहीतैश च वाजिभिः अगच्छं परमाम आर्तिं मातलिस तद अलक्षयत ॥ 11 ॥

  12. लक्षयित्वा तु मां भीतम इदं वचनम अब्रवीत अर्जुनार्जुन मा भैस तवं वज्रम अस्त्रम उदीरय ॥ 12 ॥

  13. ततॊ ऽहं तस्य तद वाक्यं शरुत्वा वज्रम उदीरयम देवराजस्य दयितं वज्रम अस्त्रं नराधिप ॥ 13 ॥

  14. अचलं सथानम आसाद्य गाण्डीवम अनुमन्त्र्य च अमुञ्चं वज्रसंस्पर्शान आयसान निशिताञ शरान ॥ 14 ॥

  15. ततॊ मायाश च ताः सर्वा निवातकवचांश च तान ते वज्रचॊदिता बाणा वज्रभूताः समाविशन ॥ 15 ॥

  16. ते वज्रवेगाभिहता दानवाः पर्वतॊपमाः इतरेतरम आश्लिष्य नयपतन पृथिवीतले ॥ 16 ॥

  17. अन्तर्भूमौ तु ये ऽगृह्णन दानवा रथवाजिनः अनुप्रविश्य तान बाणाः पराहिण्वन यमसादनम ॥ 17 ॥

  18. हतैर निवातकवचैर निरसैः पर्वतॊपमैः समाच्छाद्यत देशः स विकीर्णैर इव पर्वतैः ॥ 18 ॥

  19. न हयानां कषतिः का चिन न रथस्य न मातलेः मम चादृश्यत तदा तद अद्भुतम इवाभवत ॥ 19 ॥

  20. ततॊ मां परहसन राजन मातलिः परत्यभाषत नैतद अर्जुन देवेषु तवयि वीर्यं यदीक्ष्यते ॥ 20 ॥

  21. हतेष्व असुरसंघेषु दारास तेषां तु सर्वशः पराक्रॊशन नगरे तस्मिन यथा शरदि लक्ष्मणाः ॥ 21 ॥

  22. ततॊ मातलिना सार्धम अहं तत पुरम अभ्ययाम तरासयन रथघॊषेण निवातकवचस्त्रियः ॥ 22 ॥

  23. तान दृष्ट्वा दशसाहस्रान मयूरसदृशान हयान रथं च रविसंकाशं पराद्रवन गणशः सत्रियः ॥ 23 ॥

  24. ताभिर आभरणैः शब्दस तरासिताभिः समीरितः शिलानाम इव शैलेषु पतन्तीनाम अभूत तदा ॥ 24 ॥

  25. वित्रस्ता दैत्य नार्यस ताः सवानि वेश्मान्य अथाविशन बहुरत्नविचित्राणि शातकुम्भमयानि च ॥ 25 ॥

  26. तद अद्भुताकारम अहं दृष्ट्वा नगरम उत्तमम विशिष्टं देव नगराद अपृच्छं मातलिं ततः ॥ 26 ॥

  27. इदम एवंविधं कस्माद देवता नाविशन्त्य उत पुरंदर पुराद धीदं विशिष्टम इति लक्षये ॥ 27 ॥

  28. [मा] आसीद इदं पुरा पार्थ देवराजस्य नः पुरम ततॊ निवातकवचैर इतः परच्याविताः सुराः ॥ 28 ॥

  29. तपस तप्त्वा महत तीव्रं परसाद्य च पितामहम इदं वृतं निवासाय देवेभ्यश चाभयं युधि ॥ 29 ॥

  30. ततः शक्रेण भगवान सवयम्भूर अभिचॊदितः विधत्तां भगवान अत्रेत्य आत्मनॊ हितकाम्यया ॥ 30 ॥

  31. तत उक्तॊ भगवता दिष्टम अत्रेति वासवः भवितान्तस तवम एवैषां देहेनान्येन वृत्रहन ॥ 31 ॥

  32. तत एषां वधार्थाय शक्रॊ ऽसत्राणि ददौ तव न हि शक्याः सुरैर हन्तुं य एते निहतास तवया ॥ 32 ॥

  33. कालस्य परिणामेन ततस तवम इह भारत एषाम अन्तकरः पराप्तस तत तवया च कृतं तथा ॥ 33 ॥

  34. दानवानां विनाशार्थं महास्त्राणां महद बलम गराहितस तवं महेन्द्रेण पुरुषेन्द्र तद उत्तमम ॥ 34 ॥

  35. [अर्ज] ततः परविश्य नगरं दानवांश च निहत्य तान पुनर मातलिना सार्धम अगच्छं देव सद्म तत ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 170

Previous: अध्याय 168