[वा] तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस तदा परभूतनरनागेन बलेनॊपविवेश ह ॥ 1 ॥
समे निविष्टा सा सेना परभूतसलिलाशये चतुरङ्ग बलॊपेता शाल्वराजाभिपालिता ॥ 2 ॥
वर्जयित्वा शमशानानि देवतायतनानि च वल्मीकाश चैव चैत्यांश च तन निविष्टम अभूद बलम ॥ 3 ॥
अनीकानां विभागेन पन्थानः षट कृताभवन परवणा नव चैवासञ शाल्वस्य शिबिरे नृप ॥ 4 ॥
सर्वायुधसमॊपेतं सर्वशस्त्रविशारदम रथनागाश्वकलिलं पदातिध्वजसंकुलम ॥ 5 ॥
तुष्टपुष्टजनॊपेतं वीर लक्षणलक्षितम विचित्रध्वजसंनाहं विचित्ररथकार्मुकम ॥ 6 ॥
संनिवेश्य च कौरव्य दवारकायां नरर्षभ अभिसारयाम आस तदा वेगेन पतगेन्द्रवत ॥ 7 ॥
तदापतन्तं संदृश्य बलं शाल्वपतेस तदा निर्याय यॊधयाम आसुः कुमारा वृष्णिनन्दनाः ॥ 8 ॥
असहन्तॊ ऽभियातं तच छाल्व राजस्य कौरव चारुदेष्णश च साम्बश च परद्युम्नश च महारथः ॥ 9 ॥
ते रथैर दंशिताः सर्वे विचित्राभरण धवजाः संसक्ताः शाल्वराजस्य बहुभिर यॊधपुंगवैः ॥ 10 ॥
गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे यॊधयाम आस संहृष्टः कषेमवृद्धिं चमूपतिम ॥ 11 ॥
तस्य बाणमयं वर्षं जाम्बवत्याः सुतॊ मह त मुमॊच भरतश्रेष्ठ यथा वर्षं सहस्रधृक ॥ 12 ॥
तद बाणवर्षं तुमुलं विषेहे स चमूपतिः कषेमवृद्धिर महाराज हिमवान इव निश्चलः ॥ 13 ॥
ततः साम्बाय राजेन्द्र कषेमवृद्धिर अपि सम ह मुमॊच मायाविहितं शरजालं महत्तरम ॥ 14 ॥
ततॊ मायामयं जालं माययैव विदार्य सः साम्बः शरसहस्रेण रथम अस्याभ्यवर्षत ॥ 15 ॥
ततः स विद्धः साम्बेन कषेमवृद्धिश चमूपतिः अपायाज जवनैर अश्वैः साम्ब बाणप्रपीडितः ॥ 16 ॥
तस्मिन विप्रद्रुते करूरे शाल्वस्याथ चमूपतौ वेगवान नाम दैतेयः सुतं मे ऽभयद्रवद बली ॥ 17 ॥
अभिपन्नस तु राजेन्द्र साम्बॊ वृष्णिकुलॊद्वहः वेगं वेगवतॊ राजंस तस्थौ वीरॊ विधारयन ॥ 18 ॥
स वेगवति कौन्तेय साम्बॊ वेगवतीं गदाम चिक्षेप तरसा वीरॊ वयाविध्य सत्यविक्रमः ॥ 19 ॥
तया तव अभिहतॊ राजन वेगवान अपतद भुवि वातरुग्ण इव कषुण्णॊ जीर्ण मूलॊ वनस्पतिः ॥ 20 ॥
तस्मिन निपतिते वीरे गदा नुन्ने महासुरे परविश्य महतीं सेनां यॊधयाम आस मे सुतः ॥ 21 ॥
चारुदेष्णेन संसक्तॊ विविन्ध्यॊनाम दानवः महारथः समाज्ञातॊ महाराज महाधनुः ॥ 22 ॥
ततः सुतुमुलं युद्धं चारुदेष्ण विविन्ध्ययॊः वृत्रवासवयॊ राजन यथापूर्वं तथाभवत ॥ 23 ॥
अन्यॊन्यस्याभिसंक्रुद्धाव अन्यॊन्यं जघ्नतुः शरैः विनदन्तौ महाराज सिंहाव इव महाबलौ ॥ 24 ॥
रौक्मिणेयस ततॊ बाणम अग्न्यर्कॊपम वर्चसम अभिमान्त्र्य महास्त्रेण संदधे शत्रुनाशनम ॥ 25 ॥
स विविन्ध्याय सक्रॊधः समाहूय महारथः चिक्षेप मे सुतॊ राजन स गतासुर अथापतत ॥ 26 ॥
विविन्ध्यं निहतं दृष्ट्वा तां च विक्षॊभितां चमूम कामगेन स सौभेन शाल्वः पुनर उपागमत ॥ 27 ॥
ततॊ वयाकुलितं सर्वं दवारकावासितद बलम दृष्ट्वा शाल्वं महाबाहॊ सौभस्थं पृथिवी गतम ॥ 28 ॥
ततॊ निर्याय कौन्तेय वयवस्थाप्य च तद बलम आनर्तानां महाराज परद्युम्नॊ वाक्यम अब्रवीत ॥ 29 ॥
सर्वे भवन्तस तिष्ठन्तु सर्वे पश्यन्तु मां युधि निवारयन्तं संग्रामे बलात सौभं सराजकम ॥ 30 ॥
अहं सौभपतेः सेनाम आयसैर भुजगैर इव धनुर भुजविनिर्मुक्तैर नाशयाम्य अद्य यादवाः ॥ 31 ॥
आश्वसध्वं न भीः कार्या सौभराड अद्य नश्यति मयाभिपन्नॊ दुष्टात्मा ससौभॊ विनशिष्यति ॥ 32 ॥
एवं बरुवति संहृष्टे परद्युम्ने पाण्डुनन्दन विष्ठितं तद बलं वीर युयुधे च यथासुखम ॥ 33 ॥
वनपर्व · Vana Parva
अध्याय 17
Reach this point to mark the section finished.
Continue to अध्याय 18