धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 16

  1. [य] वासुदेव महाबाहॊ विस्तरेण महामते सौभस्य वधम आचक्ष्व न हि तृप्यामि कथ्यतः ॥ 1 ॥

  2. [वा] हतं शरुत्वा महाबाहॊ मया शरौतश्रवं नृपम उपायाद भरतश्रेष्ठ शाल्वॊ दवारवतीं पुरीम ॥ 2 ॥

  3. अरुन्धत तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन शाल्वॊ वैहायसं चापि तत पुरं वयूह्य विष्ठितः ॥ 3 ॥

  4. तत्रस्थॊ ऽथ महीपालॊ यॊधयाम आस तां पुरीम अभिसारेण सर्वेण तत्र युद्धम अवर्तत ॥ 4 ॥

  5. पुरी समन्ताद विहिता सपताका सतॊरणा सचक्रा सहुडा चैव सयान्त्र खनका तथा ॥ 5 ॥

  6. सॊपतल्प परतॊलीका साट्टाट्टाकल गॊपुरा सकच गरहणी चैव सॊल्कालातावपॊथिका ॥ 6 ॥

  7. सॊष्ट्रिका भरतश्रेष्ठ सभेरी पणवानका समित तृणकुशा राजन सशतघ्नीक लाङ्गला ॥ 7 ॥

  8. सभुशुण्ड्य अश्मल गुडा सायुधा सपरश्वधा लॊहचर्मवती चापि साग्निः सहुड शृङ्गिका ॥ 8 ॥

  9. शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ दरव्यैर अनेकैर विविधैर गद साम्बॊद्धवादिभिः ॥ 9 ॥

  10. पुरुषैः कुरुशार्दूल समर्थैः परतिबाधने अभिख्यात कुलैर वीरैर दृष्टवीर्यैश च संयुगे ॥ 10 ॥

  11. मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता उत्क्षिप्त गुल्मैश च तथा हयैश चैव पदातिभिः ॥ 11 ॥

  12. आघॊषितं च नगरे न पातव्या सुरेति ह परमादं परिरक्षद्भिर उग्रसेनॊद्धवादिभिः ॥ 12 ॥

  13. परमत्तेष्व अभिघातं हि कुर्याच छाल्वॊ नराधिपः इति कृत्वाप्रमत्तास ते सरे वृष्ण्यन्धकाः सथिताः ॥ 13 ॥

  14. आनर्ताश च तथा सर्वे नटनर्तक गायनाः बहिर विवासिताः सर्वे रक्षद्भिर वित्तसंचयान ॥ 14 ॥

  15. संक्रमा भेदिताः सर्वे नावश च परतिषेधिताः परिखाश चापि कौरव्य कीलैः सुनिचिताः कृताः ॥ 15 ॥

  16. उदपानाः कुरुश्रेष्ठ तथैवाप्य अम्बरीषकाः समन्तात कॊशमात्रं च कारिता विषमा च भूः ॥ 16 ॥

  17. परकृत्या विषमं दुर्गं परकृत्या च सुरक्षितम परकृत्या चायुधॊपेतं विशेषेण तदानघ ॥ 17 ॥

  18. सुरक्षितं सुगुप्तं च सरायुध समन्वितम तत पुरं भरतश्रेष्ठ यथेन्द्र भवनं तथा ॥ 18 ॥

  19. न चामुद्रॊ ऽभिनिर्याति न चामुद्रः परवेश्यते वृष्ण्यन्धकपुरे राजंस तदा सौभसमागमे ॥ 19 ॥

  20. अनु रथ्यासु सर्वासु चत्वरेषु च कौरव बलं बभूव राजेन्द्र परभूतगजवाजिमत ॥ 20 ॥

  21. दत्तवेतन भक्तं च दत्तायुध परिच्छदम कृतापदानं च तदा बलम आसीन महाभुज ॥ 21 ॥

  22. न कुप्य वेतनी कश चिन न चातिक्रान्त वेतनी नानुग्रहभृतः कश चिन न चादृष्ट पराक्रमः ॥ 22 ॥

  23. एवं सुविहिता राजन दवारका भूरिदक्षिणैः आहुकेन सुगुप्ता च राज्ञा राजीवलॊचन ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 17

Previous: अध्याय 15