[अर्ज] ततॊ ऽशमवर्षं सुमहत परादुरासीत समन्ततः नगमात्रैर महाघॊरैस तन मां दृढम अपीडयत ॥ 1 ॥
तद अहं वज्रसंकाशैः शरैर इन्द्रास्त्र चॊदितैः अचूर्णयं वेगवद्भिः शतधैकैकम आहवे ॥ 2 ॥
चूर्ण्यमाने ऽशमवर्षे तु पावकः समजायत तत्राश्म चूर्णम अपतत पावकप्रकरा इव ॥ 3 ॥
ततॊ ऽशमवर्षे निहते जलवर्षं महत्तरम धाराभिर अक्षमात्राभिः परादुरासीन ममान्तके ॥ 4 ॥
नभसः परयुता धारास तिग्मवीर्याः सहस्रशः आवृण्वन सर्वतॊ वयॊम दिशश चॊपदिशस तथा ॥ 5 ॥
धाराणां च निपातेन वायॊर विस्फूर्जितेन च गर्जितेन च दैत्यानां न पराज्ञायत किं चन ॥ 6 ॥
धारा दिवि च संबद्धा वसुधायां च सर्वशः वयामॊहयन्त मां तत्र निपतन्त्यॊ ऽनिशं भुवि ॥ 7 ॥
तत्रॊपदिष्टम इन्द्रेण दिव्यम अस्त्रं विशॊषणम दीप्तं पराहिणवं घॊरम अशुष्यत तेन तज जलम ॥ 8 ॥
हते ऽशमवर्षे तु मया जलवर्षे च शॊषिते मुमुचुर दानवा मायाम अग्निं वायुं च मानद ॥ 9 ॥
ततॊ ऽहम अग्निं वयधमं सलिलास्त्रेण सर्वशः शैलेन च महास्त्रेण वायॊर वेगम अधारयम ॥ 10 ॥
तस्यां परतिहतायां तु दानवा युद्धदुर्मदाः पराकुर्वन विविधा माया यौगपद्येन भारत ॥ 11 ॥
ततॊ वर्षं परादुरभूत सुमहन मॊम हर्षणम अस्त्राणां घॊररूपाणाम अग्नेर वायॊस तथाश्मनाम ॥ 12 ॥
सा तु मायामयी वृष्टिः पीडयाम आस मां युधि अथ घॊरं तमस तीव्रं परादुरासीत समन्ततः ॥ 13 ॥
तमसा संवृते लॊके घॊरेण परुषेण च तुरगा विमुखाश चासन परास्खलच चापि मातलिः ॥ 14 ॥
हस्ताद धिरण्मयश चास्य परतॊदः परापतद भुवि असकृच चाह मां भीतः कवासीति भरतर्षभ ॥ 15 ॥
मां च भीर आविशत तीव्रा तस्मिन विगतचेतसि स च मां विगतज्ञानः संत्रस्त इदम अब्रवीत ॥ 16 ॥
सुराणाम असुराणां च संग्रामः सुमहान अभूत अमृतार्थे पुरा पार्थ स च दृष्टॊ मयानघ ॥ 17 ॥
शम्बरस्य वधे चापि संग्रामः सुमहान अभूत सारथ्यं देवराजस्य तत्रापि कृतवान अहम ॥ 18 ॥
तथैव वृत्रस्य वधे संगृहीता हया मया वैरॊचनेर मया युद्धं दृष्टं चापि सुदारुणम ॥ 19 ॥
एते मया महाघॊराः संग्रामाः पर्युपासिताः न चापि विगतज्ञानॊ भूतपूर्वॊ ऽसमि पाण्डव ॥ 20 ॥
पितामहेन संहारः परजानां विहितॊ धरुवम न हि युद्धम इदं युक्तम अन्यत्र जगतः कषयात ॥ 21 ॥
तस्य तद वचनं शरुत्वा संस्तभ्यात्मानम आत्मना मॊहयिष्यन दानवानाम अहं मायामयं बलम ॥ 22 ॥
अब्रुवं मातलिं भीतं पश्य मे भुजयॊर बलम अस्त्राणां च परभावं मे धनुषॊ गाण्डिवस्य च ॥ 23 ॥
अद्यास्त्र माययैतेषां मायाम एतां सुदारुणाम विनिहन्मि तमश चॊग्रं मा भैः सूत सथिरॊ भव ॥ 24 ॥
एवम उक्त्वाहम असृजम अस्त्रमायां नराधिप मॊहिनीं सर्वशत्रूणां हिताय तरिदिवौकसाम ॥ 25 ॥
पीड्यमानासु मायासु तासु तास्व असुरेश्वराः पुनर बहुविधा मायाः पराकुर्वन्न अमितौजसः ॥ 26 ॥
पुनः परकाशम अभवत तमसा गरस्यते पुनः वरजत्य अदर्शनं लॊकः पुनर अप्सु निमज्जति ॥ 27 ॥
सुसंगृहीतैर हरिभिः परकाशे सति मातलिः वयचरत सयन्दनाग्र्येण संग्रामे लॊमहर्षणे ॥ 28 ॥
ततः पर्यपतन्न उग्रा निवातकवचा मयि तान अहं विवरं दृष्ट्वा पराहिण्वं यमसादनम ॥ 29 ॥
वर्तमाने तथा युद्धे निवातकवचान्तके नापश्यं सहसा सर्वान दानवान माययावृतान ॥ 30 ॥
वनपर्व · Vana Parva
अध्याय 168
Reach this point to mark the section finished.
Continue to अध्याय 169