[अर्ज] ततॊ निवातकवचाः सर्वे वेगेन भारत अभ्यद्रवन मां सहिताः परगृहीतायुधा रणे ॥ 1 ॥
आच्छिद्य रथपन्थानम उत्क्रॊशन्तॊ महारथाः आवृत्य सर्वतस ते मां शरवर्षैर अवाकिरन ॥ 2 ॥
ततॊ ऽपरे महावीर्याः शूलपट्टिशपाणयः शूलानि च भुशुण्डीश च मुमुचुर दानवा मयि ॥ 3 ॥
तच छूलवर्षं सुमहद गदा शक्तिसमाकुलम अनिशं सृज्यमानं तैर अपतन मद रथॊपरि ॥ 4 ॥
अन्ये माम अभ्यधावन्त निवातकवचा युधि शितशस्त्रायुधा रौद्राः कालरूपाः परहारिणः ॥ 5 ॥
तान अहं विविधैर बाणैर वेगबद्भिर अजिह्मगैः गाण्डीवमुक्तैर अभ्यघ्नम एकैकं दशभिर मृधे ते कृता विमिखाः सर्वे मत परयुक्तैः शिलाशितैः ॥ 6 ॥
ततॊ मातलिना तूर्णं हयास ते संप्रचॊदिताः रथमार्गाद बहूंस तत्र विचेरुर वातरंहसः सुसंयता मातलिना परामथ्नन्त दितेः सुतान ॥ 7 ॥
शतं शतास ते हरयस तस्मिन युक्ता महारथे तदा मातलिना यत्ता वयचरन्न अल्पका इव ॥ 8 ॥
तेषां चरणपातेन रथनेमि सवनेन च मम बाणनिपातैश च हतास ते शतशॊ ऽसुराः ॥ 9 ॥
गतासवस तथा चान्ये परगृहीतशरासनाः हतसारथयस तत्र वयकृष्यन्त तुरंगमैः ॥ 10 ॥
ते दिषॊ विदिशः सर्वाः परतिरुध्य परहारिणः निघ्नन्ति विविधैः शस्त्रैस ततॊ मे वयथितं मनः ॥ 11 ॥
ततॊ ऽहं मातलेर वीर्यम अपश्यं परमाद्भुतम अश्वांस तथा वेगवतॊ यद अयत्नाद अधारयत ॥ 12 ॥
ततॊ ऽहं लघुभिश चित्रैर अस्त्रैस तान असुरान रणे सायुधान अछिनं राजञ शतशॊ ऽथ सहस्रशः ॥ 13 ॥
एवं मे चरतस तत्र सर्वयत्नेन शत्रुहन परीतिमान अभवद वीरॊ मातलिः शक्रसारथिः ॥ 14 ॥
वध्यमानास ततस ते तु हयैस तेन रथेन च अगमन परक्षयं के चिन नयवर्तन्त तथापरे ॥ 15 ॥
सपर्धमाना इवास्माभिर निवातकवचा रणे शरवर्षैर महद्भिर मां समन्तात परत्यवारयन ॥ 16 ॥
ततॊ ऽहं लघुभिश चैत्रैर बरह्मास्त्र परिमन्त्रितैः वयधमं सायकैर आशु शतशॊ ऽथ सहस्रशः ॥ 17 ॥
ततः संपीड्यमानास ते करॊधाविष्टा महासुराः अपीडयन मां सहिताः शरशूलासि वृष्टिभिः ॥ 18 ॥
ततॊ ऽहम अस्त्रम आतिष्ठं परमं तिग्मतेजसम दयितं देवराजस्य माधवं नाम भारत ॥ 19 ॥
ततः खड्गांस तरिशूलांश च तॊमरांश च सहस्रशः अस्त्रवीर्येण शतधा तैर मुक्तान अहम अच्छिनम ॥ 20 ॥
छित्त्वा परहरणान्य एषां ततस तान अपि सर्वशः परत्यविध्यम अहं रॊषाद दशभिर दशभिः शरैः ॥ 21 ॥
गाण्डीवाद धि तदा संख्ये यथा भरमरपङ्क्तयः निष्पतन्ति तथा बाणास तन मातलिर अपूजयत ॥ 22 ॥
तेषाम अपि तु बाणास ते बहुत्वाच छलभा इव अवाकिरन मां बलवत तान अहं वयधमं शरैः ॥ 23 ॥
वध्यमानास ततस ते तु निवातकवचाः पुनः शरवर्षैर महद्भिर मां समन्तात पर्यवारयन ॥ 24 ॥
शरवेगान निहत्याहम अस्त्रैः शरविघातिभिः जवलद्भिः परमैः शीघ्रैस तान अविध्यं सहस्रशः ॥ 25 ॥
तेषां छिन्नानि गात्राणि विसृजन्ति सम शॊणितम परावृषीवातिवृष्टानि शृङ्गाणीव धरा भृताम ॥ 26 ॥
इन्द्राशनिसमस्पर्शैर वेगवद्भिर अजिह्मगैः मद्बाणैर वध्यमानास ते समुद्विग्नाः सम दानवाः ॥ 27 ॥
शतधा भिन्नदेहान्त्राः कषीणप्रहरणौजसः ततॊ निवातकवचा माम अयुध्यन्त मायया ॥ 28 ॥
वनपर्व · Vana Parva
अध्याय 167
Reach this point to mark the section finished.
Continue to अध्याय 168