[अर्ज] ततॊ ऽहं सतूयमानस तु तत्र तत्र महर्षिभिः अपश्यम उदधिं भीमम अपां पतिम अथाव्ययम ॥ 1 ॥
फेनवत्यः परकीर्णाश च संहताश च समुच्छ्रिताः उर्मयश चात्र दृश्यन्ते चलन्त इव पर्वताः नावः सहस्रशस तत्र रत्नपूर्णाः समन्ततः ॥ 2 ॥
तिमिंगिलाः कच्छपाश च तथा तिमितिमिंगिलाः मकराश चात्र दृश्यन्ते जले मग्ना इवाद्रयः ॥ 3 ॥
शङ्खानां च सहस्राणि मग्नान्य अप्सु समन्ततः दृश्यन्ते सम यथा रात्रौ तारास तन्व अभ्रसंवृताः ॥ 4 ॥
तथा सहस्रशस तत्र रत्नसंघा लवन्त्य उत वायुश च घूर्णते भीमस तद अद्भुतम इवाभवत ॥ 5 ॥
तम अतीत्य महावेगं सर्वाम्भॊ निधिम उत्तमम अपश्यं दानकाकीर्णं तद दैत्य पुरम अन्तिकात ॥ 6 ॥
तत्रैव मातलिस तूर्णं निपत्य पृथिवीतले नादयन रथघॊषेण तत पुरं समुपाद्रवत ॥ 7 ॥
रथघॊषं तु तं शरुत्वा सतनयित्नॊर इवाम्बरे मन्वाना देवराजं मां संविग्ना दानवाभवन ॥ 8 ॥
सर्वे संभ्रान्तमनसः शरचाप धराः सथिताः तथा शूलासिपरशु गदामुसलपाणयः ॥ 9 ॥
ततॊ दवाराणि पिदधुर दानवास तरस्तचेतसः संविधाय पुरे रक्षां न सम कश चन दृश्यते ॥ 10 ॥
ततः शङ्खम उपादाय देवदत्तं महास्वनम पुरम आसुरम आश्लिष्य पराधमं तं शनैर अहम ॥ 11 ॥
स तु शब्दॊ दिवं सतब्ध्वा परतिशब्दम अजीजनत वित्रेसुश च निलिल्युश च भूतानि सुमहान्त्य अपि ॥ 12 ॥
ततॊ निवातकवचाः सर्व एव समन्ततः दंशिता विविधैस तराणैर विविधायुधपाणयः ॥ 13 ॥
आयसैश च महाशूलैर गदाभिर मुसलैर अपि पट्टिशैः करवालैश च रथचक्रैश च भारत ॥ 14 ॥
शतघ्नीभिर भुशुण्डीभिः खड्गैश चित्रैः सवलंकृतैः परगृहीतैर दितेः पुत्राः परादुरासन सहस्रशः ॥ 15 ॥
ततॊ विचार्य बहुधा रथमार्गेषु तान हयान पराचॊदयत समे देशे मातलिर भरतर्षभ ॥ 16 ॥
तेन तेषां परणुन्नानाम आशुत्वाच छीघ्र गामिनाम नान्वपश्यं तदा किं चित तन मे ऽदभुतम इवाभवत ॥ 17 ॥
ततस ते दानवास तत्र यॊधव्रातान्य अनेकशः विकृतस्वररूपाणि भृशं सर्वाण्य अचॊदयन ॥ 18 ॥
तेन शब्देन महता समुद्रे पर्वतॊपमाः आप्लवन्त गतैः सत्त्वैर मत्स्याः शतसहस्रशः ॥ 19 ॥
ततॊ वेगेन महता दानवा माम उपाद्रवन विमुञ्चन्तः शितान बाणाञ शतशॊ ऽथ सहस्रशः ॥ 20 ॥
स संप्रहारस तुमुलस तेषां मम च भारत अवर्तत महाघॊरॊ निवातकवचान्तकः ॥ 21 ॥
ततॊ देवर्षयश चैव दानवर्षिगनाश च ये बरह्मर्षयश च सिद्धाश च समाजग्मुर महामृधे ॥ 22 ॥
ते वै माम अनुरूपाभिर मधुराभिर जयैषिणः अस्तुवन मुनयॊ वाग्भिर यथेन्द्रं तारकामये ॥ 23 ॥
वनपर्व · Vana Parva
अध्याय 166
Reach this point to mark the section finished.
Continue to अध्याय 167