धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 163

  1. [वै] यथागतं गते शक्रे भरातृभिः सह संगतः कृष्णया चैव बीभत्सुर धर्मपुत्रम अपूजयत ॥ 1 ॥

  2. अभिवादयमानं तु मूर्ध्न्य उपाघ्राय पाण्डवम हर्षगद्गदया वाचा परहृष्टॊ ऽरजुनम अब्रवीत ॥ 2 ॥

  3. कथम अर्जुन कालॊ ऽयं सवर्गे वयतिगतस तव कथं चास्त्राण्य अवाप्तानि देवराजश च तॊषितः ॥ 3 ॥

  4. सम्यग वा ते गृहीतानि कच चिद अस्त्राणि भारत कच चित सुराधिपः परीतॊ रुद्रश चास्त्राण्य अदात तव ॥ 4 ॥

  5. यथादृष्टश च ते शक्रॊ भगवान वा पिनाक धृक यथा चास्त्राण्य अवाप्तानि यथा चाराधितश च ते ॥ 5 ॥

  6. यथॊक्तवांस्स तवां भगवाञ शतक्रतुर अरिंदम कृतप्रियस तवयास्मीति तच च ते किं परियं कृतम एतद इच्छाम्य अहं शरॊतुं विस्तरेण महाद्युते ॥ 6 ॥

  7. यथा तुष्टॊ महादेवॊ देवराजश च ते ऽनघ यच चापि वज्रपानेस ते परियं कृतम अरिंदम एतद आख्याहि मे सर्वम अखिलेन धनंजय ॥ 7 ॥

  8. [अर्ज] शृणु हन्त महाराज विधिना येन दृष्टवान शतक्रतुम अहं देवं भगवन्तं च शंकरम ॥ 8 ॥

  9. विद्याम अधीत्य तां राजंस तवयॊक्ताम अरिमर्दन भवता च समादिष्टस तपसे परस्थितॊ वनम ॥ 9 ॥

  10. भृगुतुङ्गम अथॊ गत्वा काम्यकाद आस्थितस तपः एकरात्रॊडितः कं चिद अपश्यं बराह्मणं पथि ॥ 10 ॥

  11. स माम अपृच्छत कौन्तेय कवासि गन्ता बरवीहि मे तस्मा अवितथं सर्वम अब्रुवं कुरुनन्दन ॥ 11 ॥

  12. स तथ्यं मम तच छरुत्वा बराह्मणॊ राजसत्तम अपूजयत मां राजन परीतिमांश चाभवन मयि ॥ 12 ॥

  13. ततॊ माम अब्रवीत परीतस तप आतिष्ठ भारत तपस्वी नचिरेण तवं दरक्ष्यसे विबुधाधिपम ॥ 13 ॥

  14. ततॊ ऽहं वचनात तस्य गिरिम आरुह्य शैशिरम तपॊ ऽतप्यं महाराज मासं मूलफलाशनः ॥ 14 ॥

  15. दवितीयश चापि मे मासॊ जलं भक्षयतॊ गतः निराहारस तृतीये ऽथ मासे पाण्डवनन्दन ॥ 15 ॥

  16. ऊर्ध्वबाहुश चतुर्थं तु मासम अस्मि सथितस तदा न च मे हीयते पराणस तद अद्भुतम इवाभवत ॥ 16 ॥

  17. चतुर्थे समतिक्रान्ते परथमे दिवसे गते वराहसंस्थितं भूतं मत्समीपम उपागमत ॥ 17 ॥

  18. निघ्नन परॊथेन पृथिवीं विलिखंश चरणैर अपि संमार्जञ जठरेणॊर्वीं विवर्तंश च मुहुर मुहुः ॥ 18 ॥

  19. अनु तस्यापरं भूतं महत कैरात संस्थितम धनुर बाणासिमत पराप्तं सत्रीगणानुगतं तदा ॥ 19 ॥

  20. ततॊ ऽहं धनुर आदाय तथाक्षय्यौ महेषुधी अताडयं शरेणाथ तद भूतं लॊमहर्षणम ॥ 20 ॥

  21. युगपत तत किरातश च विकृष्य बलवद धनुः अभ्याजघ्ने दृधतरं कम्पयन्न इव मे मनः ॥ 21 ॥

  22. स तु माम अब्रवीद राजन मम पूर्वपरिग्रहः मृगया धर्मम उत्सृज्य किमर्थं ताडितस तवया ॥ 22 ॥

  23. एष ते निशितैर बाणैर दर्पं हन्मि सथिरॊ भव सवर्ष्मवान महाकायस ततॊ माम अभ्यधावत ॥ 23 ॥

  24. ततॊ गिरिम इवात्यर्थम आवृणॊन मां महाशरैः तं चाहं शरवर्षेण महता समवाकिरम ॥ 24 ॥

  25. ततः शरैर दीप्तमुखैः पत्रितैर अनुमन्त्रितैः परत्यविध्यम अहं तं तु वज्रैर इव शिलॊच्चयम ॥ 25 ॥

  26. तस्य तच छतधा रूपम अभवच च सहस्रधा तानि चास्य शरीराणि शरैर अहम अताडयम ॥ 26 ॥

  27. पुनस तानि शरीराणि एकीभूतानि भारत अदृश्यन्त महाराज तान्य अहं वयधमं पुनः ॥ 27 ॥

  28. अणुर बृहच छिरा भूत्वा बृहच चाणु शिरः पुनः एकीभूतस तदा राजन सॊ ऽभयवर्तत मां युधि ॥ 28 ॥

  29. यदाभिभवितुं बाणैर नैव शक्नॊमि तं रणे ततॊ ऽहम अस्त्रम आतिष्ठं वायव्यं भरतर्षभ ॥ 29 ॥

  30. न चैनम अशकं हन्तुं तद अद्भुतम इवाभवत तस्मिन परतिहते चास्त्रे विस्मयॊ मे महान अभूत ॥ 30 ॥

  31. भूयश चैव महाराज सविशेषम अहं ततः अस्त्रपूगेन महता रणे भूतम अवाकिरम ॥ 31 ॥

  32. सथूणाकर्ण मयॊ जालं शरवर्षं शलॊल्बणम शैलास्त्रम अश्मवर्षं च समास्थायाहम अभ्ययाम जग्रास परहसंस तानि सर्वाण्य अस्त्राणि मे ऽनघ ॥ 32 ॥

  33. तेषु सर्वेषु शान्तेषु बरह्मास्त्रम अहम आदिशम ततः परज्वलितैर बाणैः सर्वतः सॊपचीयत उपचीयमानश च मया महास्त्रेण वयवर्धत ॥ 33 ॥

  34. ततः संतापितॊ लॊकॊ मत्प्रसूतेन तेजसा कषणेन हि दिशः खं च सर्वतॊ ऽभिविदीपितम ॥ 34 ॥

  35. तद अप्य अस्त्रं महातेजा कषणेनैव वयशातयत बरह्मास्त्रे तु हते राजन भयं मां महद आविशत ॥ 35 ॥

  36. ततॊ ऽहं धनुर आदाय तथाक्षय्यौ महेषुधी सहसाभ्यहनं भूतं तान्य अप्य अस्त्राण्य अभक्षयत ॥ 36 ॥

  37. हतेष्व अस्त्रेषु सर्वेषु भक्षितेष्व आयुधेषु च मम तस्य च भूतस्य बाहुयुद्धम अवर्तत ॥ 37 ॥

  38. वयायाममुष्टिभिः कृत्वा तलैर अपि समाहतौ अपातयच च तद भूतं निश्चेष्टॊ हय अगमं महीम ॥ 38 ॥

  39. ततः परहस्य तद भूतं तत्रैवान्तरधीयत सह सत्रीभिर महाराज पश्यतॊ मे ऽदभुतॊपमम ॥ 39 ॥

  40. एवं कृत्वा स भगवांस ततॊ ऽनयद रूपम आत्मनः दिव्यम एव मरा राजवसानॊ ऽदभुतम अम्बरम ॥ 40 ॥

  41. हित्वा किरात रूपं च भगवांस तरिदशेश्वरः सवरूपं दिव्यम आस्थाय तस्थौ तत्र महेश्वरः ॥ 41 ॥

  42. अदृश्यत ततः साक्षाद भगवान गॊवृषध्वजः उमा सहायॊ हरि दृग बहुरूपः पिनाक धृक ॥ 42 ॥

  43. स माम अभ्येत्य समरे तथैवाभिमुखं सथितम शूलपाणिर अथॊवाच तुष्टॊ ऽसमीति परंतप ॥ 43 ॥

  44. ततस तद धनुर आदाय तूणौ चाक्षय्य सायकौ परादान ममैव भगवान वरयस्वेति चाब्रवीत ॥ 44 ॥

  45. तुष्टॊ ऽसमि तव कौन्तेय बरूहि किं करवाणि ते यत ते मनॊगतं वीर तद बरूहि वितराम्य अहम अमरत्वम अपाहाय बरूहि यत ते मनॊगतम ॥ 45 ॥

  46. ततः पराञ्जलिर एवाहम अस्त्रेषु गतमानसः परणम्य शिरसा शर्वं ततॊ वचनम आददे ॥ 46 ॥

  47. भगवान मे परसन्नश चेद ईप्सितॊ ऽयं वरॊ मम अस्त्राणीच्छाम्य अहं जञातुं यानि देवेषु कानि चित ददानीत्य एव भगवान अब्रवीत तर्यम्बकश च माम ॥ 47 ॥

  48. रौद्रम अस्त्रं मदीयं तवाम उपस्थास्यति पाण्डव परददौ च मम परीतः सॊ ऽसत्रं पाशुपतं परभुः ॥ 48 ॥

  49. उवाच च महादेवॊ दत्त्वा मे ऽसत्रं सनातनम न परयॊज्यं भवेद एतन मानुषेषु कथं चन ॥ 49 ॥

  50. पीड्यमानेन बलवत परयॊज्यं ते धनंजय अस्त्राणां परतिघाते च सर्वथैव परयॊजयेः ॥ 50 ॥

  51. तद अप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम मूर्तिमन मे सथितं पार्श्वे परसन्ने गॊवृषध्वजे ॥ 51 ॥

  52. उत्सादनम अमित्राणां परसेना निकर्तनम दुरासदं दुष्प्रहसं सुरदानव राक्षसैः ॥ 52 ॥

  53. अनुज्ञ्षातस तव अहं तेन तत्रैव समुपाविशम परेक्षितश चैव मे देवस तत्रैवान्तरधीयत ॥ 53 ॥

Reach this point to mark the section finished.

Continue to अध्याय 164

Previous: अध्याय 162