[वै] एतस्मिन्न एव काले तु सर्ववादित्र निस्वनः बभूव तुमुलः शब्दस तव अन्तरिक्षे दिवौकसाम ॥ 1 ॥
रथनेमि सवनश चैव घण्टा शब्दश च भारत पृथग वयालमृगाणां च पक्षिणां चैव सर्वशः ॥ 2 ॥
तं समन्ताद अनुययुर गन्धर्वाप्सरसस तथा विमानैः सूर्यसंकाशैर देवराजम अरिंदमम ॥ 3 ॥
ततः स हरिभिर युक्तं जाम्बूनदपरिष्कृतम मेघनादिनम आरुह्य शरिया परमया जवलन ॥ 4 ॥
पार्थान अभ्याजगामाशु देवराजः पुरंदरः आगत्य च सहस्राक्षॊ रथाद अवरुरॊह वै ॥ 5 ॥
तं दृष्ट्वैव महात्मानं धर्मराजॊ युधिष्ठिरः भरातृभिः सहितः शरीमान देवराजम उपागमत ॥ 6 ॥
पूजयाम आस चैवाथ विधिवद भूरिदक्षिणः यथार्हम अमितात्मानं विधिदृष्टेन कर्मणा ॥ 7 ॥
धनंजयश च तेजस्वी परणिपत्य पुरंदरम भृत्यवत परणतस तस्थौ देवराज सपीपतः ॥ 8 ॥
आप्यायत महातेजा कुन्तीपुत्रॊ युधिष्ठिरः धनंजयम अभिप्रेक्ष्य विनीतं सथितम अन्तिके ॥ 9 ॥
जटिलं देवराजस्य तपॊ युक्तम अकल्मषम हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात ॥ 10 ॥
तं तथादीन मनसं राजानं हर्षसंप्लुतम उवाच वचनं धीमान देवराजः पुरंदरः ॥ 11 ॥
तवम इमाम्पृथिवीं राजन परशासिष्यति पाण्डव सवस्ति पराप्नुहि कौन्तेय काम्यकं पुनर आश्रमम ॥ 12 ॥
अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः परयतेन राजन कृतप्रियश चास्मि धनंजयेन; जेतुं न शक्यस तरिभिर एष लॊकैः ॥ 13 ॥
एवम उक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम जगाम तरिदिवं हृष्टः सतूयमानॊ महर्षिभिः ॥ 14 ॥
धनेष्वर गृहस्थानां पाण्डवानां समागमम शक्रेण य इमं विद्वान अधीयीत समाहितः ॥ 15 ॥
संवत्सरं बरह्मचारी नियतः संशितव्रतः स जीवेत निराबाधः सुसुखी शरदां शतम ॥ 16 ॥
वनपर्व · Vana Parva
अध्याय 162
Reach this point to mark the section finished.
Continue to अध्याय 163