[अर्ज] ततस ताम अवसं परीतॊ रजनीं तत्र भारत परसादाद देवदेवस्य तर्यम्बकस्य महात्मनः ॥ 1 ॥
वयुषितॊ रजनीं चाहं कृत्वा पूर्वाह्णिक करियाम अपश्यं तं दविजश्रेष्ठं दृष्टवान अस्मि यं पुरा ॥ 2 ॥
तस्मै चाहं यथावृत्तं सर्वम एव नयवेदयम भगवन्तं महादेवं समेतॊ ऽसमीति भारत ॥ 3 ॥
स माम उवाच राजेन्द्र परीयमाणॊ दविजॊत्तमः दृष्टस तवया महादेवॊ यथा नान्येन केन चित ॥ 4 ॥
समेत्य लॊकपालैस तु सर्वैर वैवस्वतादिभिः दरष्टास्य अनघ देवेन्द्रं स च ते ऽसत्राणि दास्यति ॥ 5 ॥
एवम उक्त्वा स मां राजन्न आश्लिष्य च पुनः पुनः अगच्छत स यथाकामं बराह्मणः सूर्यसंनिभः ॥ 6 ॥
अथापराह्णे तस्याह्नः परावात पुण्यः समीरणः पुनर नवम इमं लॊकं कुर्वन्न इव सपत्नहन ॥ 7 ॥
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च शैशिरस्य गिरेः पादे परादुरासन समीपतः ॥ 8 ॥
वादित्राणि च दिव्यानि सुघॊषाणि समन्ततः सतुतयश चेन्द्र संयुक्ता अश्रूयन्त मनॊहराः ॥ 9 ॥
गणाश चाप्सरसां तत्र गन्धर्वाणां तथैव च पुरस्ताद देवदेवस्य जगुर गीतानि सर्वशः ॥ 10 ॥
मरुतां च गणास तत्र देव यानैर उपागमन महेन्द्रानुचरा ये च देव सद्म निवासिनः ॥ 11 ॥
ततॊ मरुत्वान हरिभिर युक्तैर वाहैः सवलंकृतैः शची सहायस तत्रायात सह सर्वैस तदामरैः ॥ 12 ॥
एतस्मिन्न एव काले तु कुबेरॊ नरवाहनः दर्शयाम आस मां राजँल लक्ष्म्या परमया युतः ॥ 13 ॥
दक्षिणस्यां दिशि यमं परत्यपश्यं वयवस्थितम वरुणं देवराजं च यथास्थानम अवस्थितम ॥ 14 ॥
ते माम ऊचुर महाराज सान्त्वयित्वा सुरर्षभाः सव्यसाचिन समीक्षस्व लॊकपालान अवस्थितान ॥ 15 ॥
सुरकार्यार्थ सिद्ध्यर्थं दृष्टवान असि शंकरम अस्मत्तॊ ऽपि गृहाण तवम अस्त्राणीति समन्ततः ॥ 16 ॥
ततॊ ऽहं परयतॊ भूत्वा परणिपत्य सुरर्षभान परत्यगृह्णं तदास्त्राणि महान्ति विधिवत परभॊ ॥ 17 ॥
गृहीतास्त्रस ततॊ देवैर अनुज्ञ्षातॊ ऽसमि भारत अथ देवा ययुः सर्वे यथागतम अरिंदम ॥ 18 ॥
मघवान अपि देवेशॊ रथम आरुह्य सुप्रभम उवाच भगवान वाक्यं समयन्न इव सुरारिहा ॥ 19 ॥
पुरैवागमनाद अस्माद वेदाहं तवां धनंजय अतः परं तव अहं वै तवां दर्शये भरतर्षभ ॥ 20 ॥
तवया हि तीर्थेषु पुरा समाप्लावः कृतॊ ऽसकृत तपश चेदं पुरा तप्तं सवर्गं गन्तासि पाण्डव ॥ 21 ॥
भूयॊ चैव तु तप्तव्यं तपॊ परमदारुणम उवाच भगवान सर्वं तपसश चॊपपादनम ॥ 22 ॥
मातलिर मन्नियॊगात तवां तरिदिवं परापयिष्यति विदितस तवं हि देवानाम ऋषीणां च महात्मनाम ॥ 23 ॥
ततॊ ऽहम अब्रुवं शक्रं परसीद भगवन मम आचार्यं वरये तवाहम अस्त्रार्थं तरिदशेश्वर ॥ 24 ॥
[इन्द्र] करूरं कर्मास्त्रवित तात करिष्यसि परंतप यदर्थम अस्त्राणीप्सुस तवं तं कामं पाण्डवाप्नुहि ॥ 25 ॥
[अर्ज] ततॊ ऽहम अब्रुवं नाहं दिव्यान्य अस्त्राणि शत्रुहन मानुषेषु परयॊक्ष्यामि विनास्त्र परतिघातनम ॥ 26 ॥
तानि दिव्यानि मे ऽसत्राणि परयच्छ विबुधाधिप लॊकांश चास्त्रजितान पश्चाल लभेयं सुरपुंगव ॥ 27 ॥
[इन्द्र] परीक्षार्थं मयैतत ते वाक्यम उक्तं धनंजय ममात्मजस्य वचनं सूपपन्नम इदं तव ॥ 28 ॥
शिक्ष मे भवनं गत्वा सर्वाण्य अस्त्राणि भारत वायॊर अग्नेर वसुभ्यॊ ऽथ वरुणात समरुद्गणात ॥ 29 ॥
साध्यं पैतामहं चैव गन्धर्वॊरगरक्षसाम वैष्णवानि च सर्वाणि नैरृतानि तथैव च मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह ॥ 30 ॥
[अर्ज] एवम उक्त्वा तु मां शक्रस तत्रैवान्तरधीयत अथापश्यं हरि युजं रथम ऐन्द्रम उपस्थितम दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ 31 ॥
लॊकपालेषु यातेषु माम उवाचाथ मातलिः दरष्टुम इच्छति शक्रस तवां देवराजॊ महाद्युते ॥ 32 ॥
संसिद्धस तवं महाबाहॊ कुरु कार्यम अनुत्तमम पश्य पुण्यकृतां लॊकान सशरीरॊ दिवं वरज ॥ 33 ॥
इत्य उक्तॊ ऽहं मातलिना गिरिम आमन्त्र्य शैशिरम परदक्षिणम उपावृत्य समारॊहं रथॊत्तमम ॥ 34 ॥
चॊदयाम आस सहयान मनॊमारुतरंहसः मातलिर हयशास्त्रज्ञॊ यथावद भूरिदक्षिणः ॥ 35 ॥
अवैक्षन्त च मे वक्त्रं सथितस्याथ स सारथिः तथा भरान्ते रथे राजन विस्मितश चेदम अब्रवीत ॥ 36 ॥
अत्यद्भुतम इदं मे ऽदय विचित्रं परतिभाति माम यद आस्थितॊ रथं दिव्यं पदा न चलितॊ भवान ॥ 37 ॥
देवराजॊ ऽपि हि मया नित्यम अत्रॊपलक्षितः विचलन परथमॊत्पाते हयानां भरतर्षभ ॥ 38 ॥
तवं पुनः सथित एवात्र रथे भरान्ते कुरूद्वह अतिशक्रम इदं सत्त्वं तवेति परतिभाति मे ॥ 39 ॥
इत्य उक्त्वाकाशम आविश्य मातलिर विबुधालयान दर्शयाम आस मे राजन विमानानि च भारत ॥ 40 ॥
नन्दनादीनि देवानां वनानि बहुलान्य उत दर्शयाम आस मे परीत्या मातलिः शक्रसारथिः ॥ 41 ॥
ततः शक्रस्य भवनम अपश्यम अमरावतीम दिव्यैः कामफलैर वृक्षै रत्नैश च समलंकृताम ॥ 42 ॥
न तां भासयते सूर्यॊ न शीतॊष्णे न च कलमः रजः पङ्कॊ न च तमस तत्रास्ति न जरा नृप ॥ 43 ॥
न तत्र शॊकॊ दैन्यं वा वैवर्ण्यं चॊपलक्ष्यते दिवौकसां महाराज न च गलानिर अरिंदम ॥ 44 ॥
न करॊधलॊभौ तत्रास्ताम अशुभं च विशां पते नित्यतुष्टाश च हृष्टाश च पराणिनः सुरवेश्मनि ॥ 45 ॥
नित्यपुष्पफलास तत्र पादपा हरितछदाः पुष्करिण्यश च विविधाः पद्मसौगन्धिकायुताः ॥ 46 ॥
शीतस तत्र ववौ वायुः सुगन्धॊ जीवनः शुचिः सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता ॥ 47 ॥
मृगद्विजाश च बहवॊ रुचिरा मधुरस्वराः विमानयायिनश चात्र दृश्यन्ते बहवॊ ऽमराः ॥ 48 ॥
ततॊ ऽपश्यं वसून रुद्रान साध्यांश च समरुद्गणान आदित्यान अश्विनौ चैव तान सर्वान परत्यपूजयम ॥ 49 ॥
ते मां वीर्येण यशसा तेजसा च बलेन च अस्त्रैश चाप्य अन्वजानन्त संप्राम विजयेन च ॥ 50 ॥
परविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम देवराजं सहस्राक्षम उपातिष्ठं कृताञ्जलिः ॥ 51 ॥
ददाव अर्धासनं परीतः शक्रॊ मे ददतां वरः बहुमानाच च गात्राणि पस्पर्श मम वासवः ॥ 52 ॥
तत्राहं देवगन्धर्वैः सहितॊ भुरि दक्षिण अस्त्रार्थम अवसं सवर्गे कुर्वाणॊ सत्राणि भारत ॥ 53 ॥
विश्वावसॊश च मे पुत्रश चित्रसेनॊ ऽभवत सखा स च गान्धर्वम अखिलं गराहयाम आस मां नृप ॥ 54 ॥
ततॊ ऽहम अवसं राजन गृहीतास्त्रः सुपूजितः सुखं शक्रस्य भवने सर्वकामसमन्वितः ॥ 55 ॥
शृण्वन वै गीतशब्दं च तूर्यशब्दं च पुष्कलम पश्यंश चाप्सरसः शरेष्ठा नृत्यमानाः परंतप ॥ 56 ॥
तत सर्वम अनवज्ञाय तथ्यं विज्ज्ञाय भारत अत्यर्थं परतिगृह्याहम अस्त्रेष्व एव वयवस्थितः ॥ 57 ॥
ततॊ ऽतुष्यत सहस्राक्षस तेन कामेन मे विभुः एवं मे वसतॊ राजन्न एष कालॊ ऽतयगाद दिवि ॥ 58 ॥
वनपर्व · Vana Parva
अध्याय 164
Reach this point to mark the section finished.
Continue to अध्याय 165