धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 161

  1. [वै] तस्मिन नगेन्द्रे वसतां तु तेषां; महात्मनां सद वरतम आस्थितानाम रतिः परमॊदश च बभूव तेषाम; आकाङ्क्षतां दर्शनम अर्जुनस्य ॥ 1 ॥

  2. तान वीर्ययुक्तान सुविशुद्धसत्त्वांस; तेजस्विनः सत्यघृति परधानान संप्रीयमाणा बहवॊ ऽभिजग्मुर; गन्धर्वसंघाश च महर्षयश च ॥ 2 ॥

  3. तं पादपैः पुष्पधरैर उपेतं; नगॊत्तमं पराप्य महारथानाम मनःप्रसादः परमॊ बभूव; यथा दिवं पराप्य मरुद्गणानाम ॥ 3 ॥

  4. मयूरहंसस्वननादितानि; पुष्पॊपकीर्णानि महाचलस्य शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षम अवाप्य तस्थुः ॥ 4 ॥

  5. साक्षात कुबेरेण कृताश च तस्मिन; नगॊत्तमे संवृतकूलरॊधसः कादम्ब कारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीर अपश्यन ॥ 5 ॥

  6. करीदा परदेशांश च समृद्धरूपान; सुचित्र माल्यावृत जातशॊभान मणिप्रवेकान सुमनॊहरांश च; यथा भवेयुर धनदस्य राज्ञः ॥ 6 ॥

  7. अनेकवर्णैश च सुगन्धिभिश च; महाद्रुमैः संततम अभ्रमालिभिः तपः परधानाः सततं चरन्तः; शृङ्गं गिरेश चिन्तयितुं न शेकुः ॥ 7 ॥

  8. सवतेजसा तस्य गतॊत्तमस्य; महौषधीनां च तथा परभावात विभक्तभावॊ न बभूव कश चिद; अहर निशानां पुरुषप्रवीर ॥ 8 ॥

  9. यम आस्थितः सथावरजङ्गमानि; विभावसुर भावयते ऽमितौजः तस्यॊदयं चास्तमयं च वीरास; तत्र सथितास ते ददृशुर नृसिंहाः ॥ 9 ॥

  10. रवे तमिस्रागम निर्गमांस ते; तथॊदयं चास्तमयं च वीराः समावृताः परेक्ष्य तमॊनुदस्य; गभस्तिजालैः परदिशॊ दिशश च ॥ 10 ॥

  11. सवाध्यायवन्तः सततक्रियाश च; धर्मप्रधानाश च शुचिव्रताश च सत्ये सथितास तस्य महारथस्य; सत्यव्रतस्यागमन परतीक्षाः ॥ 11 ॥

  12. इहैव हर्षॊ ऽसतु समागतानां; कषिप्रं कृतास्त्रेण धनंजयेन इति बरुवन्तः परमाशिषस ते; पार्थास तपॊयॊगपरा बभूवुः ॥ 12 ॥

  13. दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयताम अभीक्ष्णम बभूव रात्रिर दिवसश च तेषां; संवत्सरेणैव समानरूपः ॥ 13 ॥

  14. यदैव दौम्यानुमते महात्मा; कृत्वा जटाः परव्रजितः स जिष्णुः तदैव तेषां न बभूव हर्षः; कुतॊ रतिस तद्गतमानसानाम ॥ 14 ॥

  15. भरातुर नियॊगात तु युधिष्ठिरस्य; वनाद असौ वारणमत्तगामी यत काम्यकात परव्रजितः स जिष्णुस; तदैव ते शॊकहता बभूवुः ॥ 15 ॥

  16. तथा तु तं चिन्तयतां सिताश्वम; अस्त्रार्थिनं वासवम अभ्युपेतम मासॊ ऽथ कृच्छ्रेण तदा वयतीतस; तस्मिन नगे भारत भारतानाम ॥ 16 ॥

  17. ततः कदाचिद धरि संप्रयुक्तं; महेन्द्र वाहं सहसॊपयातम विद्युत्प्रभं परेक्ष्य महारथानां; हर्षॊ ऽरजुनं चिन्तयतां बभूव ॥ 17 ॥

  18. स दीप्यमानः सहसान्तरिक्षं; परकाशयन मातलिसंगृहीतः बभौ महॊल्केव घनान्तरस्था; शिखेव चाग्नेर जवलिता विधूमा ॥ 18 ॥

  19. तम आस्थितः संददृशे किरीटी; सरग्वी वराण्य आभरणानि बिभ्रत धनंजयॊ वर्ज धरप्रभावः; शरिया जवलन पर्वतम आजगाम ॥ 19 ॥

  20. स शैलम आसाद्य किरीटमाली; महेन्द्र वाहाद अवरुह्य तस्मात धौम्यस्य पादाव अभिवाद्य पूर्वम; अजातशत्रॊस तदनन्तरं च ॥ 20 ॥

  21. कृकॊदरस्यापि ववन्द पादौ; माद्री सुताभ्याम अभिवादितश च समेत्य कृष्णां परिसान्त्व्य चैनां; परह्वॊ ऽभवद भरातुर उपह्वरे सः ॥ 21 ॥

  22. बभूव तेषां परमः परहर्षस; तेनाप्रमेयेण समागतानाम स चापि तान परेक्ष्य किरीटमाली; ननन्द राजानम अभिप्रशंसन ॥ 22 ॥

  23. यम आस्थितः सप्त जघान पूगान; दितेः सुतानां नमुचेर निहन्ता तम इन्द्र वाहं समुपेत्य पार्थाः; परदक्षिणं चक्रुर अदीनसत्त्वाः ॥ 23 ॥

  24. ते मालतेश चक्रुर अतीव हृष्टाः; सत्कारम अग्र्यं सुरराजतुल्यम सर्वं यथावच च दिवौकसस तान; पप्रच्छुर एनं कुरुराजपुत्राः ॥ 24 ॥

  25. तान अप्य असौ मातलिर अभ्यनन्दत; पितेव पुत्रान अनुशिष्य चैनान ययौ रथेनाप्रतिम परभेण; पुनः सकाशं तरिदिवेश्वरस्य ॥ 25 ॥

  26. गते तु तस्मिन वरदेव वाहे; शक्रात्मजः सर्वरिपुप्रमाथी शक्रेण दत्तानि ददौ महात्मा; महाधनान्य उत्तमरूपवन्ति दिवाकराभाणि विभूषणानि; परीतः परियायै सुत सॊममात्रे ॥ 26 ॥

  27. ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम विप्रर्षभाणाम उपविश्य मध्ये; सर्वं यथावत कथयां बभूव ॥ 27 ॥

  28. एवं मयास्त्राण्य उपशिक्षितानि; शक्राच च वाताच च शिवाच च साक्षात तथैव शीलेन समाधिना च; परीताः सुरा मे सहिताः सहेन्द्राः ॥ 28 ॥

  29. संक्षेपतॊ वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि परवेशम माद्री सुताभ्यां सहितः किरीटी; सुष्वाप ताम आवसतिं परतीतः ॥ 29 ॥

Reach this point to mark the section finished.

Continue to अध्याय 162

Previous: अध्याय 160