धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 160

  1. [वै] ततः सूर्यॊदये धौम्यः कृत्वाह्निकम अरिंदम आर्ष्टिषेणेन सहितः पाण्डवान अभ्यवर्तत ॥ 1 ॥

  2. ते ऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ततः पराञ्जलयः सर्वे बराह्मणांस तान अपूजयन ॥ 2 ॥

  3. ततॊ युधिष्ठिरं दौम्यॊ गृहीत्वा दक्षिणे करे पराचीं दिशम अभिप्रेक्ष्य महर्षिर इदम अब्रवीत ॥ 3 ॥

  4. असौ सागरपर्यन्तां भूमिम आवृत्य तिष्ठति शैर राजॊ महाराज मन्दरॊ ऽभिविराजते ॥ 4 ॥

  5. इन्द्र वैश्रवणाव एतां दिशं पाण्डव रक्षतः पर्वतैश च वनान्तैश च कानकैश चॊपशॊभिताम ॥ 5 ॥

  6. एतद आहुर महेन्द्रस्य राज्ञॊ वैश्वरणस्य च ऋशयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ॥ 6 ॥

  7. अतश चॊद्यन्तम आदित्यम उपतिष्ठन्ति वै परजाः ऋषयश चापि धर्मज्ञाः सिद्धाः साध्याश च देवताः ॥ 7 ॥

  8. यमस तु राजा धर्मात्मा सर्वप्राणभृतां परभुः परेतसत्त्वगतीम एतां दक्षिणाम आश्रितॊ दिशम ॥ 8 ॥

  9. एतत संयमनं पुण्यम अतीवाद्भुत दर्शनम परेतराजस्य भवनम ऋद्ध्या परमया युतम ॥ 9 ॥

  10. यं पराप्य सविता राजन सत्येन परतितिष्ठति अस्तं पर्वतराजानम एतम आहुर मनीषिणः ॥ 10 ॥

  11. एतं पर्वतराजानं समुद्रं च महॊदधिम आवसन वरुणॊ राजा भूतानि परिरक्षति ॥ 11 ॥

  12. उदीचीं दीपयन्न एष दिशं तिष्ठति कीर्तिमान महामेरुर महाभाग शिवॊ बरह्मविदां गतिः ॥ 12 ॥

  13. यस्मिन बरह्म सदॊ चैव तिष्ठते च परजापतिः भूतात्मा विसृजन सर्वं यत किं चिज जङ्गमागमम ॥ 13 ॥

  14. यान आहुर बरह्मणः पुत्रान मानसान दक्ष सप्तमान तेषाम अपि महामेरुः सथानं शिवम अनामयम ॥ 14 ॥

  15. अत्रैव परतितिष्ठन्ति पुनर अत्रॊदयन्ति च सप्त देवर्षयस तात वसिष्ठप्रमुखाः सदा ॥ 15 ॥

  16. देशं विरजसं पश्य मेरॊर शिखरम उत्तमम यत्रात्म तृप्तैर अध्यास्ते देवैः सह पितामहः ॥ 16 ॥

  17. यम आहुः सर्वभूतानां परकृतेः परकृतिं धरुवम अनादि निधनं देवं परभुं नारायणं परम ॥ 17 ॥

  18. बरह्मणः सदनात तस्य परं सथानं परकाशते देवाश च यत्नात पश्यन्ति दिव्यं तेजॊमयं शिवम ॥ 18 ॥

  19. अत्यर्कानल दीप्तं तत सथानं विष्णॊर महात्मनः सवयैव परभया राजन दुष्प्रेक्ष्यं देवदानवैः ॥ 19 ॥

  20. तद वै जयॊतींषि सर्वाणि पराप्य भासन्ति नॊ ऽपि च सवयं विभुर अदीनात्मा तत्र हय अभिविराजते ॥ 20 ॥

  21. यतयस तत्र गच्छन्ति भक्त्या नारायणं हरिम परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ॥ 21 ॥

  22. यॊगसिद्धा महात्मानस तमॊ मॊहविवर्जिताः तत्र गत्वा पुनर नेमं लॊकम आयान्ति भारत ॥ 22 ॥

  23. सथानम एतन महाभाग धरुवम अक्षयम अव्ययम ईष्वरस्य सदा हय एतत परणमात्र युधिष्ठिर ॥ 23 ॥

  24. एतं जयॊतींषि सर्वाणि परकर्षन भगवान अपि कुरुते वितमः कर्मा आदित्यॊ ऽभिप्रदक्षिणम ॥ 24 ॥

  25. अस्तं पराप्य ततः संध्याम अतिक्रम्य दिवाकरः उदीचीं भजते काष्ठां दिशम एष विभावसुः ॥ 25 ॥

  26. स मेरुम अनुवृत्तः सन पुनर गच्छति पाण्डव परान्न्मुखः सविता देवः सर्वभूतहिते रतः ॥ 26 ॥

  27. स मासं विभजन कालं बहुधा पर्व संधिषु तथैव भगवान सॊमॊ नक्षत्रैः सह गच्छति ॥ 27 ॥

  28. एवम एव परिक्रम्य महामेरुम अतन्द्रितः भावयन सर्वभूतानि पुनर गच्छति मन्दरम ॥ 28 ॥

  29. तथा तमिस्रहा देवॊ मयूखैर भावयञ जगत मार्गम एतद असंबाधम आदित्यः परिवर्तते ॥ 29 ॥

  30. सिसृक्षुः शिशिराण्य एष दक्षिणां भजते दिशम ततः सर्वाणि भूतानि कालः शिशिरम ऋच्छति ॥ 30 ॥

  31. सथावराणां च भूतानां जङ्गमानां च तेजसा तेजांसि समुपादत्ते निवृत्तः सन विभावसुः ॥ 31 ॥

  32. ततः सवेदः कलमस तन्द्री गलानिश च भजते नरान पराणिभिः सततं सवप्नॊ हय अभीक्ष्णं च निषेव्यते ॥ 32 ॥

  33. एवम एतद अनिर्देश्यं मार्गम आवृत्य भानुमान पुनः सृजति वर्षाणि भगवान भावयन परजाः ॥ 33 ॥

  34. वृष्टिं मारुत संतापैः सुखैः सथावरजङ्गमान वर्धयन सुमहातेजा पुनः परतिनिवर्तते ॥ 34 ॥

  35. एवम एष चरन पार्थ कालचक्रम अतन्द्रितः परकर्षन सर्वभूतानि सविता परिवर्तते ॥ 35 ॥

  36. संतता गतिर एतस्य नैष तिष्ठति पाण्डव आदायैव तु भूतानां तेजॊ विसृजते पुनः ॥ 36 ॥

  37. विभजन सर्वभूतानाम आयुः कर्म च भारत अहॊरात्रान कलाः काष्ठाः सृजत्य एष सदा विभुः ॥ 37 ॥

Reach this point to mark the section finished.

Continue to अध्याय 161

Previous: अध्याय 159