धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 159

  1. [वैष्र] युधिष्ठिर धृतिर दाक्ष्यं देशकालौ पराक्रमः लॊकतन्त्रविधानानाम एष पञ्चविधॊ विधिः ॥ 1 ॥

  2. धृतिमन्तश च दक्षाश च सवे सवे कर्मणि भारत पराक्रमविधानज्ञा नराः कृतयुगे ऽभवन ॥ 2 ॥

  3. धृतिमान देशकालज्ञः सर्वधर्मविधानवित कषत्रियः कषत्रिय शरेष्ठ पृथिवीम अनुशास्ति वै ॥ 3 ॥

  4. य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु स लॊके लभते वीर यशॊ परेत्य च सद्गतिम ॥ 4 ॥

  5. देशकालान्तर परेप्सुः कृत्वा शक्रः पराक्रमम संप्राप्तस तरिदिवे राज्यं वृत्रहा वसुभिः सह ॥ 5 ॥

  6. पापात्मा पापबुद्धिर यः पापम एवानुवर्तते कर्मणाम अविभागज्ञः परेत्य चेह च नश्यति ॥ 6 ॥

  7. अकालज्ञः सुदुर्मेधाः कार्याणाम अविशेषवित वृथाचार समारम्भः परेत्य चेह च नश्यति ॥ 7 ॥

  8. साहसे वर्तमानानां निकृतीनां दुरात्मनाम सर्वसामर्थ्य लिप्सूनां पापॊ भवति निश्चयः ॥ 8 ॥

  9. अधर्मज्ञॊ ऽवलिप्तश च बाल बुद्धिर अमर्षणः निर्भयॊ भीमसेनॊ ऽयं तं शाधि पुरुषर्षभ ॥ 9 ॥

  10. आर्ष्टिषेणस्य राजर्षेः पराप्य भूयस तवम आश्रमम तामिस्रं परथमं पक्षं वीतशॊकभयॊ वस ॥ 10 ॥

  11. अलकाः सह गन्धर्वैर यक्षैश च सह राक्षसैः मन नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः रक्षन्तु तवा महाबाहॊ सहितं दविजसत्तमैः ॥ 11 ॥

  12. साहसेषु च संतिष्ठन्न इह शैले वृकॊदरः वार्यतां साध्व अयं राजंस तवया धर्मभृतां वर ॥ 12 ॥

  13. इतः परं च राजेन्द्र दरक्ष्यन्ति वनगॊचराः उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः ॥ 13 ॥

  14. तथैव चान्न पानानि सवादूनि च बहूनि च उपस्थास्यन्ति वॊ गृह्य मत परेष्याः पुरुषर्षभ ॥ 14 ॥

  15. यथा जिष्णुर महेन्द्रस्य यथा वायॊर वृकॊदरः धर्मस्य तवं यथा तात यॊगॊत्पन्नॊ निजः सुतः ॥ 15 ॥

  16. आत्मजाव आत्मसंपन्नौ यमौ चॊभौ यथाश्विनॊः रक्ष्यास तद्वन ममापीह यूयं सर्वे युधिष्ठिर ॥ 16 ॥

  17. अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित भीमसेनाद अवरजः फल्गुनः कुशली दिवि ॥ 17 ॥

  18. याः काश चन मता लॊकेष्व अग्र्याः परमसंपदः जन्मप्रभृति ताः सर्वाः सथितास तात धनंजये ॥ 18 ॥

  19. दमॊ दानं बलं बुद्धिर हरीर धृतिर तेज उत्तमम एतान्य अपि महासत्त्वे सथितान्य अमिततेजसि ॥ 19 ॥

  20. न मॊहात कुरुते जिष्णुः कर्म पाण्डव गर्हितम न पार्थस्य मृषॊक्तानि कथयन्ति नरा नृषु ॥ 20 ॥

  21. स देव पितृगन्धर्वैः कुरूणां कीर्तिवर्धनः मानितः कुरुते ऽसत्राणि शक्र सद्मनि भारत ॥ 21 ॥

  22. यॊ ऽसौ सर्वान महीपालान धर्मेण वशम आनयत स शंतनुर महातेजा पितुस तव पितामहः परीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ॥ 22 ॥

  23. सम्यक चासौ महावीर्यः कुलधुर्य इव सथितः पितॄन देवांस तथा विप्रान पूजयित्वा महायशः सप्त मुख्यान महामेधान आहरद यमुनां परति ॥ 23 ॥

  24. अधिराजः स राजंस तवां शंतनुः परपितामहः सवर्गजिच छक्र लॊकस्थः कुशलं परिपृच्छति ॥ 24 ॥

  25. [वै] ततः शक्तिं गदां खड्गं धनुश च भरतर्षभ पराध्वं कृत्वा नमश चक्रे कुबेराय वृकॊदरः ॥ 25 ॥

  26. ततॊ ऽबरवीद धनाध्यक्षः शरण्यः शरणागतम मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥ 26 ॥

  27. सवेषु वेश्मसु रम्येषु वसतामित्र तापनाः कामान उपहरिष्यन्ति यक्षा वॊ भरतर्षभाः ॥ 27 ॥

  28. शीघ्रम एव गुडाकेशः कृतास्त्रः पुरुषर्षभः साक्षान मघवता सृष्टः संप्राप्स्यति धनंजयः ॥ 28 ॥

  29. एवम उत्तमकर्माणम अनुशिष्य युधिष्ठिरम अस्तं गिरिवरश्रेष्ठं परययौ गुह्यकाधिपः ॥ 29 ॥

  30. तं परिस्तॊम संकीर्णैर नानारत्नविभूषितैः यानैर अनुययुर यक्षा राक्षसाश च सहस्रशः ॥ 30 ॥

  31. पक्षिणाम इव निर्घॊषः कुबेर सदनं परति बभूव परमाश्वानाम ऐरावत पथे यताम ॥ 31 ॥

  32. ते जग्मुस तूर्णम आकाशं धनाधिपति वाजिनः परकर्षन्त इवाभ्राणि पिबन्त इव मारुतम ॥ 32 ॥

  33. ततस तानि शरीराणि गतसत्त्वानि रक्षसाम अपाकृष्यन्त शैलाग्राद धनाधिपति शासनात ॥ 33 ॥

  34. तेषां हि शापकालॊ ऽसौ कृतॊ ऽगस्त्येन धीमता समरे निहतास तस्मात सर्वे मणिमता सह ॥ 34 ॥

  35. पाण्डवास तु महात्मानस तेषु वेश्मसु तां कषपाम सुखम ऊषुर गतॊद्वेगाः पूजिताः सर्वराक्षसैः ॥ 35 ॥

Reach this point to mark the section finished.

Continue to अध्याय 160

Previous: अध्याय 158