[य] असांनिध्यं कथं कृष्ण तवासीद वृष्णिनन्दन कव चासीद विप्रवासस ते किं वाकार्षीः परवासकः ॥ 1 ॥
[कृ] शाल्वस्य नगरं सौभं गतॊ ऽहं भरतर्षभ विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम ॥ 2 ॥
महातेजा महाबाहुर यः स राजा महायशाः दमघॊषात्मजॊ वीरः शिशुपालॊ मया हतः ॥ 3 ॥
यज्ञे ते भरतश्रेष्ठ राजसूये ऽरहणां परति सरॊषवशसंप्राप्तॊ नामृष्यत दुरात्मवान ॥ 4 ॥
शरुत्वा तं निहतं शाल्वस तीव्ररॊषसमन्वितः उपायाद दवारकां शून्याम इहस्थे मयि भारत ॥ 5 ॥
स तत्र यॊधितॊ राजन बालकैर वृष्णिपुंगवैः आगतः कामगं सौभम आरुह्यैव नृशंसकृत ॥ 6 ॥
ततॊ वृष्णिप्रवीरांस तान बालान हत्वा बहूंस तदा पुरॊद्यानानि सर्वाणि भेदयाम आस दुर्मतिः ॥ 7 ॥
उक्तवांश च महाबाहॊ कवासौ वृष्णिकुलाधमः वासुदेवः सुमन्दात्मा वसुदेव सुतॊ गतः ॥ 8 ॥
तस्य युद्धार्थिनॊ दर्पं युद्धे नाशयितास्म्य अहम आनर्ताः सत्यम आख्यात तत्र गन्तास्मि यत्र सः ॥ 9 ॥
तं हत्वा विनिवर्तिष्ये कंस केशि निषूदनम अहत्वा न निवर्तिष्ये सत्येनायुधम आलभे ॥ 10 ॥
कवासौ कवासाव इति पुनस तत्र तत्र विधावति मया किल रणे युद्धं काङ्क्षमाणः स सौभराट ॥ 11 ॥
अद्य तं पापकर्माणं कषुद्रं विश्वासघातिनम शिशुपाल वधामर्षाद गमयिष्ये यमक्षयम ॥ 12 ॥
मम पापस्वभावेन भराता येन निपातितः शिशुपालॊ महीपालस तं वधिष्ये महीतले ॥ 13 ॥
भराता बालश च राजा च न च संग्राममूर्धनि परमत्तश च हतॊ वीरस तं हनिष्ये जनार्दनम ॥ 14 ॥
एवमादि महाराज विलप्य दिवम आस्थितः कामगेन स सौभेन कषिप्त्वा मां कुरुनन्दन ॥ 15 ॥
तम अश्रौषम अहं गत्वा यथावृत्तः सुदुर्मतिः मयि कौरव्य दुष्टात्मा मार्तिकावतकॊ नृपः ॥ 16 ॥
ततॊ ऽहम अपि कौरव्य रॊषव्याकुललॊचनः निश्चित्य मनसा राजन वधायास्य मनॊ दधे ॥ 17 ॥
आनर्तेषु विमर्दं च कषेपं चात्मनि कौरव परवृद्धम अवलेपं च तस्य दुष्कृतकर्मणः ॥ 18 ॥
ततः सौभवधायाहं परतस्थे पृथिवीपते स मया सागरावर्ते दृष्ट आसीत परीप्सता ॥ 19 ॥
ततः परध्माप्य जलजं पाञ्चजन्यम अहं नृप आहूय शाल्वं समरे युद्धाय समवस्थितः ॥ 20 ॥
सुमुहूर्तम अभूद युद्धं तत्र मे दानवैः सह वशीभूताश च मे सर्वे भूतले च निपातिताः ॥ 21 ॥
एतत कार्यं महाबाहॊ येनाहं नागमं तदा शरुत्वैव हास्तिनपुरं दयूतं चाविनयॊत्थितम ॥ 22 ॥
वनपर्व · Vana Parva
अध्याय 15
Reach this point to mark the section finished.
Continue to अध्याय 16