धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 158

  1. [वै] शरुत्वा बहुविधैः शब्दैर नाद्यमाना गिरे गुहाः अजातशत्रुः कौन्तेयॊ माद्रीपुत्राव उभाव अपि ॥ 1 ॥

  2. धौम्यः कृष्णा च विप्राश च सर्वे च सुहृदस तथा भीमसेनम अपश्यन्तः सर्वे विमनसॊ ऽभवन ॥ 2 ॥

  3. दरौपदीम आर्ष्टिषेणाय परदाय तु महारथाः सहिताः सायुधाः शूराः शैलम आरुरुहुस तदा ॥ 3 ॥

  4. ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः ददृशुस ते महेष्वासा भीमसेनम अरिंदमम ॥ 4 ॥

  5. सफुरतश च महाकायान गतसत्त्वांश च राक्षसान महाबलान महाघॊरान भीमसेनेन पातितान ॥ 5 ॥

  6. शुशुभे स महाबाहुर गदाखड्गधनुर्धरः निहत्य समरे सर्वान दानवान मघवान इव ॥ 6 ॥

  7. ततस ते समतिक्रम्य परिष्वज्य वृकॊदरम तत्रॊपविविशुः पार्थाः पराप्ता गतिम अनुत्तमाम ॥ 7 ॥

  8. तैश चतुर्भिर महेष्वासैर गिरिशृङ्गम अशॊभत लॊकपालैर महाभागैर दिवं देववरैर इव ॥ 8 ॥

  9. कुबेर सदनं दृष्ट्वा राक्षसांश च निपातितान भराता भरातरम आसीनम अभ्यभाषत पाण्डवम ॥ 9 ॥

  10. साहसाद यदि वा मॊहाद भीम पापम इदं कृतम नैतत ते सदृशं वीर मुनेर इव मृषा वचः ॥ 10 ॥

  11. राजद्विष्टं न कर्तव्यम इति धर्मविदॊ विदुः तरिदशानाम इदं दविष्टं भीमसेन तवया कृतम ॥ 11 ॥

  12. अर्थधर्माव अनादृत्य यः पापे कुरुते मनः कर्मणां पार्थ पापानां सफलं विन्दते धरुवम पुनर एवं न कर्तव्यं मम चेद इच्छसि परियम ॥ 12 ॥

  13. एवम उक्त्वा स धर्मात्मा भराता भरातरम अच्युतम अर्थतत्त्वविघागज्ञः कुन्तीपुत्रॊ युधिष्ठिरः विरराम महातेजा तम एवार्थं विचिन्तयन ॥ 13 ॥

  14. ततस तु हतशिष्टा ये भीमसेनेन राक्षसाः सहिताः परत्यपद्यन्त कुबेर सदनं परति ॥ 14 ॥

  15. ते जवेन महावेगाः पराप्य वैश्रवणालयम भीमम आर्तस्वरं चक्रुर भीमसेनभयार्दिताः ॥ 15 ॥

  16. नयस्तशस्त्रायुधाः शरान्ताः शॊनिताक्त परिच्छदाः परकीर्णमूर्धजा राजन यक्षाधिपतिम अब्रुवन ॥ 16 ॥

  17. गदापरिघनिस्त्रिंश तॊमरप्रासयॊधिनः राक्षसा निहताः सर्वे तव देवपुरःसराः ॥ 17 ॥

  18. परमृद्य तरसा शैलं मानुषेण धनेश्वर एकेन सहिताः संख्ये हताः करॊधवशा गणाः ॥ 18 ॥

  19. परवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप शेरते निहता देव गतसत्त्वाः परासवः ॥ 19 ॥

  20. लब्धः शैलॊ वयं मुक्तामणिमांस ते सखा हतः मानुषेण कृतं कर्म विधत्स्व यद अनन्तरम ॥ 20 ॥

  21. स तच छरुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः कॊपसंरक्त नयनः कथम इत्य अब्रवीद वचः ॥ 21 ॥

  22. दवितीयम अपराध्यन्तं भीमं शरुत्वा धनेश्वरः चुक्रॊध यक्षाधिपतिर युज्यताम इति चाब्रवीत ॥ 22 ॥

  23. अथाभ्र धनसंकाशं गिरिकूटम इवॊच्छ्रितम हयैः संयॊजयाम आसुर गान्धर्वैर उत्तमं रथम ॥ 23 ॥

  24. तस्य सर्ग गुणॊपेता विमलाक्षा हयॊत्तमाः तेजॊबलजवॊपेता नानारत्नविभूषिताः ॥ 24 ॥

  25. शॊभमाना रथे युक्तास तरिष्यन्त इवाशुगाः हर्षयाम आसुर अन्यॊन्यम इङ्गितैर विजयावहैः ॥ 25 ॥

  26. स तम आस्थाय भगवान राजराजॊ महारथम परययौ देवगन्धर्वैः सतूयमानॊ महाद्युतिः ॥ 26 ॥

  27. तं परयान्तं महात्मानं सर्वयक्षधनाधिपम रक्ताक्षा हेमसंकाशा महाकाया महाबलाः ॥ 27 ॥

  28. सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः जवेन महता वीराः परिवार्यॊपतस्थिरे ॥ 28 ॥

  29. तं महान्तम उपायान्तं धनेश्वरम उपान्तिके ददृशुर हृष्टरॊमाणः पाण्डवाः परियदर्शनम ॥ 29 ॥

  30. कुबेरस तु महासत्त्वान पान्दॊःपुत्रान महारथान आत्तकार्मुकनिस्त्रिंशान दृष्ट्वा परीतॊ ऽभवत तदा ॥ 30 ॥

  31. ते पक्षिण इवॊत्पत्य गिरेः शृङ्गं महाजवाः तस्थुस तेषां समभ्याशे धनेश्वर पुरःसराः ॥ 31 ॥

  32. ततस तं हृष्टमनसं पाण्डवान परति भारत समीक्ष्य यक्षगन्धर्वा निर्विकारा वयवस्थिताः ॥ 32 ॥

  33. पाण्डवाश च महात्मानः परणम्य धनदं परभुम नकुलः सहदेवश च धर्मपुत्रश च धर्मवित ॥ 33 ॥

  34. अपराधम इवात्मानं मन्यमाना महारथाः तस्थुः पराञ्जलयः सर्वे परिवार्य धनेश्वरम ॥ 34 ॥

  35. शय्यासनवरं शरीमत पुष्पकं विश्वकर्मणा विहितं चित्रपर्यन्तम आतिष्ठत धनाधिपः ॥ 35 ॥

  36. तम आसीनं महाकायाः शङ्कुकर्णा महाजवाः उपॊपविविशुर यक्षा राक्षसाश च सहस्रशः ॥ 36 ॥

  37. शतशश चापि गन्धर्वास तथैवाप्सरसां गणाः परिवार्यॊपतिष्ठन्त यथा देवाः शतक्रतुम ॥ 37 ॥

  38. काञ्चनीं शिरसा बिभ्रद भीमसेनः सरजं शुभाम बाणखड्गधनुष्पाणिर उदैक्षत धनाधिपम ॥ 38 ॥

  39. न भीर भीमस्य न गलानिर विक्षतस्यापि राक्षसैः आसीत तस्याम अवस्थायां कुबेरम अपि पश्यतः ॥ 39 ॥

  40. आददानं शितान बाणान यॊद्धुकामम अवस्थितम दृष्ट्वा भीमं धर्मसुतम अब्रवीन नरवाहनः ॥ 40 ॥

  41. विदुस तवां सर्वभूतानि पार्थ भूतहिते रतम निर्भयश चापि शैलाग्रे वस तवं सह बन्धुभिः ॥ 41 ॥

  42. न च मन्युस तवया कार्यॊ भीमसेनस्य पाण्डव कालेनैते हताः पूर्वं निमित्तम अनुजस तव ॥ 42 ॥

  43. वरीषा चात्र न कर्तव्या साहसं यद इदं कृतम दृष्टश चापि सुरैः पूर्वं विनाशॊ यक्षराक्षसाम ॥ 43 ॥

  44. न भीमसेने कॊपॊ मे परीतॊ ऽसमि भरतर्षभ कर्मणानेन भीमस्य मम तुष्टिर अभूत पुरा ॥ 44 ॥

  45. एवम उक्त्वा तु राजानं भीमसेनम अभाषत नैतन मनसि मे तात वर्तते कुरुसत्तम यद इदं साहसं भीमकृष्णार्थे कृतवान असि ॥ 45 ॥

  46. माम अनादृत्य देवांश च विनाशं यक्षरक्षसाम सवबाहुबलम आश्रित्य तेनाहं परीतिमांस तवयि शापाद अस्मि विनिर्मुक्तॊ घॊराद अद्य वृकॊदर ॥ 46 ॥

  47. अहं पूर्वम अगस्त्येन करुद्धेन परमर्षिणा शप्तॊ ऽपराधे कस्मिंश चित तस्यैषा निष्कृतिः कृता ॥ 47 ॥

  48. दृष्टॊ हि मम संक्लेशः पुरा पाण्डवनन्दन न तवात्रापराधॊ ऽसति कथं चिद अपि शत्रुहन ॥ 48 ॥

  49. [य] कथं शप्तॊ ऽसि भगवन्न अगस्त्येन महात्मना शरॊतुम इच्छाम्य अहं देव तवैतच छापकारणम ॥ 49 ॥

  50. इदं चाश्चर्य भूतं मे यत करॊधात तस्य धीमतः तवैव तवं न निर्दग्धः सबलः सपदानुगः ॥ 50 ॥

  51. [वैष्र] देवतानाम अभून मन्त्रः कुशवत्यां नरेश्वर कृतस तत्राहम अगमं महापद्मशतैस तरिभिः यक्षाणां घॊररूपाणां विविधायुधधारिणाम ॥ 51 ॥

  52. अध्वन्य अहम अथापश्यम अगस्त्यम ऋषिसत्तमम उग्रं तपस तपस्यन्तं यमुनातीरम आश्रितम नानापक्षिगणाकीर्णं पुष्पितद्रुमशॊभितम ॥ 52 ॥

  53. तम ऊर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं सथितम तेजॊराशिं दीप्यमानं हुताशनम इवैधितम ॥ 53 ॥

  54. राक्षसाधिपतिः शरीमान मणिमान नाम मे सखा मौर्ख्याद अज्ञानभावाच च दर्पान मॊहाच च भारत नयष्ठीवद आकाशगतॊ महर्षेस तस्य मूर्धनि ॥ 54 ॥

  55. स कॊपान माम उवाचेदं दिशः सर्वा दहन्न इव माम अवज्ञाय दुष्टात्मा यस्माद एष सखा तव ॥ 55 ॥

  56. धर्षणां कृतवान एतां पश्यतस ते धनेश्वर तस्मात सहैभिः सैन्यैस ते वधं पराप्स्यति मानुषात ॥ 56 ॥

  57. तवं चाप्य एभिर हतैः सैन्यैः कलेशं पराप्स्यसि दुर्मते तम एव मानुषं दृष्ट्वा किल्बिषाद विप्रमॊक्ष्यसे ॥ 57 ॥

  58. सैन्यानां तु तवैतेषां पुत्रपौत्र बलान्वितम न शापं पराप्स्यते घॊरं गच्छ ते ऽऽजञां करिष्यति ॥ 58 ॥

  59. एष शापॊ मया पराप्तः पराक्तस्माद ऋषिसत्तमात स भीमेन महाराज भरात्रा तव विमॊक्षितः ॥ 59 ॥

Reach this point to mark the section finished.

Continue to अध्याय 159

Previous: अध्याय 157