[जनम] पाण्डॊः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः कियन्तं कालम अवसन पर्वते गन्धमादने ॥ 1 ॥
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम वसतां लॊकवीराणाम आसंस तद बरूहि सत्तम ॥ 2 ॥
विस्तरेण च मे शंस भीमसेन पराक्रमम यद यच चक्रे महाबाहुस तस्मिन हैमवते गिरौ न खल्व आसीत पुनर युद्धं तस्य यक्षैर दविजॊत्तम ॥ 3 ॥
कच चित समागमस तेषाम आसीद वैश्रवणेन च तत्र हय आयाति धनद आर्ष्टिषेणॊ यथाब्रवीत ॥ 4 ॥
एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन न हि मे शृण्वतस तृप्तिर अस्ति तेषां विचेष्टितम ॥ 5 ॥
[वै] एतद आत्महितं शरुत्वा तस्याप्रतिम तेजसः शासनं सततं चक्रुस तथैव भरतर्षभाः ॥ 6 ॥
भुञ्जाना मुनिभॊज्यानि रसवन्ति फलानि च शुद्धबाणहतानां च मृगाणां पिशितान्य अपि ॥ 7 ॥
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च एवं ते नयवसंस तत्र पाण्डवा भरतर्षभाः ॥ 8 ॥
तथा निवसतां तेषां पञ्चमं वर्षम अभ्यगात शृण्वतां लॊमशॊक्तानि वाक्यानि विविधानि च ॥ 9 ॥
कृत्यकाल उपस्थास्य इति चॊक्त्वा घटॊत्कचः राक्षसैः सहितः सर्वैः पूर्वम एव गतः परभॊ ॥ 10 ॥
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम अगच्छन बहवॊ मासाः पश्यतां महद अद्भुतम ॥ 11 ॥
तैस तत्र रममाणैश च विहरद्भिश च पाण्डवैः परीतिमन्तॊ महाभागा मुनयश चारणास तथा ॥ 12 ॥
आजग्मुः पाण्डवान दरष्टुं सिद्धात्मानॊ यतव्रताः तैस तैः सह कथाश चक्रुर दिव्या भरतसत्तमाः ॥ 13 ॥
ततः कतिपयाहस्य महाह्रद निवासिनम ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत ॥ 14 ॥
पराकम्पत महाशैलः परामृद्यन्त महाद्रुमाः ददृशुः सर्वभूतानि पाण्डवाश च तद अद्भुतम ॥ 15 ॥
ततः शैलॊत्तमस्याग्रात पाण्डवान परति मारुतः अवहत सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ 16 ॥
तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ददृशुः पञ्च वर्णानि दरौपदी च यशस्विनी ॥ 17 ॥
भीमसेनं ततः कृष्णा काले वचनम अब्रवीत विविक्ते पर्वतॊद्देशे सुक्खासीनं महाभुजम ॥ 18 ॥
सुपर्णानिलवेगेन शवसनेन महाबलात पञ्च वर्णानि पात्यन्ते पुष्पाणि भरतर्षभ परत्यक्षं सर्वभूतानां नदीम अश्वरथां परति ॥ 19 ॥
खाण्डवे सत्यसंधेन भरात्रा तव नरेश्वर गन्धर्वॊरगरक्षांसि वासवश च निवारितः हता मायाविनश चॊग्रा धनुः पराप्तं च गाण्डिवम ॥ 20 ॥
तवापि सुमहत तेजॊ महद बाहुबलं च ते अविषह्यम अनाधृष्यं शतक्रतु बलॊपमम ॥ 21 ॥
तवद बाहुबलवेगेन तरासिताः सर्वराक्षसाः हित्वा शैलं परपद्यन्तां भीमसेन दिशॊ दश ॥ 22 ॥
ततः शैलॊत्तमस्याग्रं चित्रमाल्य धरं शिवम वयपेतभयसंमॊहाः पश्यन्तु सुहृदस तव ॥ 23 ॥
एवं परणिहितं भीम चिरात परभृति मे मनः दरष्टुम इच्छामि शैलाग्रं तवद बाहुबलम आश्रिता ॥ 24 ॥
ततः कषिप्तम इवात्मानं दरौपद्या स परंतपः नामृष्यत महाबाहुः परहारम इव सद्गवः ॥ 25 ॥
सिंहर्षभ गतिः शरीमान उदारः कनकप्रभः मनस्वी बलवान दृप्तॊ मानी शूरश च पाण्डवः ॥ 26 ॥
लॊहिताक्षः पृथु वयंसॊ मत्तवारणविक्रमः सिंहदंष्ट्रॊ बृहत सकन्धः शालपॊत इवॊद्गतः ॥ 27 ॥
महात्मा चारुसर्वाङ्गः कम्बुग्रीवॊ महाभुजः रुक्मपृष्ठं धनुः खड्गं तूणांश चापि परामृशत ॥ 28 ॥
केसरीव यथॊत्सिक्तः परभिन्न इव वारणः वयपेतभयसंमॊहः शैलम अभ्यपतद बली ॥ 29 ॥
तं मृगेन्द्रम इवायान्तं परभिन्नम इव वारणम ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम ॥ 30 ॥
दरौपद्या वर्धयन हर्षं गदाम आदाय पाण्डवः वयपेतभयसंमॊहः शैलराजं समाविशत ॥ 31 ॥
न गलानिर न च कातर्यं न वैक्लव्यं न मत्सरः कदा चिज जुषते पार्थम आत्मजं मातरिश्वनः ॥ 32 ॥
तद एकायनम आसाद्य विषमं भीमदर्शनम बहुतालॊछ्रयं शृङ्गम आरुरॊह महाबलः ॥ 33 ॥
स किंनरमहानागमुनिगन्धर्वराक्षसान हर्षयन पर्तवस्याग्रम आससाद महाबलः ॥ 34 ॥
तत्र वैश्रवणावासं ददर्श भरतर्षभः काञ्चनैः सफाटिकाकारैर वेश्मभिः समलंकृतम ॥ 35 ॥
मॊदयन सर्वभूतानि गन्धमादन संभभः सर्वगन्धवहस तत्र मारुतः सुसुखॊ ववौ ॥ 36 ॥
चित्रा विविधवर्णाभाश चित्रमञ्जलि धारिणः अचिन्त्या विविधास तत्र दरुमाः परमशॊभनाः ॥ 37 ॥
रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम राक्षसाधिपतेः सथानं ददर्श भरतर्षभः ॥ 38 ॥
गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः भीमसेनॊ महाबाहुस तस्थौ गिरिर इवाचलः ॥ 39 ॥
ततः शङ्खम उपाध्मासीद दविषतां लॊमहर्षणम जयाघॊषतलघॊषं च कृत्वा भूतान्य अमॊहयत ॥ 40 ॥
ततः संहृष्टरॊमाणः शब्दं तम अभिदुद्रुवुः यक्षराक्षस गन्धर्वाः पाण्डवस्य समीपतः ॥ 41 ॥
गदापरिघनिस्त्रिंश शक्तिशूलपरश्वधाः परगृहीता वयरॊचन्त यक्षराक्षस बाहुभिः ॥ 42 ॥
ततः परववृते युद्धं तेषां तस्य च भारत तैः परयुक्तान महाकायैः शक्तिशूलपरश्वधान भल्लैर भीमः परचिच्छेद भीमवेगतरैस ततः ॥ 43 ॥
अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम शरैर विव्याध गात्राणि राक्षसानां महाबलः ॥ 44 ॥
सा लॊहितमहावृष्टिर अभ्यवर्षन महाबलम कायेभ्यः परच्युता धारा राक्षसानां समन्ततः ॥ 45 ॥
भीम बाहुबलॊत्सृष्टैर बहुधा यक्षरक्षसाम विनिकृत्तान्य अदृश्यन्त शरीराणि शिरांसि च ॥ 46 ॥
परच्छाद्यमानं रक्षॊभिः पाण्डवं परियदर्शनम ददृशुः सर्वभूतानि सूर्यम अभ्रगणैर इव ॥ 47 ॥
स रश्मिभिर इवादित्यः शरैर अरिनिघातिभिः सर्वान आर्छन महाबाहुर बलवान सत्यविक्रमः ॥ 48 ॥
अभितर्जयमानाश च रुवन्तश च महारवान न मॊहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ 49 ॥
ते शरैः कषतसर्वाङ्गा भीमसेनभयार्दिताः भीमम आर्तस्वरं चक्रुर विप्रकीर्णमहायुधाः ॥ 50 ॥
उत्सृज्य ते गदा शूलान असि शक्तिपरश्वधान दक्षिणां दिशम आजग्मुस तरासिता दृढ धन्वना ॥ 51 ॥
तत्र शूलगदापाणिर वयूढॊरस्कॊ महाभुजः सखा वैश्वरणस्यासीन मणिमान नाम राक्षसः ॥ 52 ॥
अदर्शयद अधीकारं पौरुषं च महाबलः स तान दृष्ट्वा परावृत्तान समयमान इवाब्रवीत ॥ 53 ॥
एकेन बहवः संख्ये मानुषेण पराजिताः पराप्य वैश्रवणावासं किं वक्ष्य अथ धनेश्वरम ॥ 54 ॥
एवम आभाष्य तान सर्वान नयवर्तत स राक्षसः शक्तिशूलगदा पाणिर अभ्यधावच च पाण्डवम ॥ 55 ॥
तम आपतन्तं वेगेन परभिन्नम इव वारणम वत्सदन्तैस तरिभिः पार्श्वे भीमसेनः समर्पयत ॥ 56 ॥
मणिमान अपि संक्रुद्धः परगृह्य महतीं गदाम पराहिणॊद भीमसेनाय परिक्षिप्य महाबलः ॥ 57 ॥
विद्युद्रूपां महाघॊराम आकाशे महतीं गदाम शरैर बहुभिर अभ्यर्च्छद भीमसेनः शिलाशितैः ॥ 58 ॥
परतिहन्यन्त ते सर्वे गदाम आसाद्य सायकाः न वेगं धारयाम आसुर गदा वेगस्य वेगिताः ॥ 59 ॥
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान वयंसयाम आस तं तस्य परहारं भीमविक्रमः ॥ 60 ॥
ततः शक्तिं महाघॊरां रुक्मदण्डाम अयस्मयीम तस्मिन्न एवान्तरे धीमान परजहाराथ राक्षसः ॥ 61 ॥
सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम साग्निज्वाला महारौद्रा पपात सहसा भुवि ॥ 62 ॥
सॊ ऽतिविद्धॊ महेष्वासः शक्त्यामित पराक्रमः गदां जग्राह कौरव्यॊ गदायुद्धविशारदः ॥ 63 ॥
तां परगृह्यॊन्नदन भीमः सर्वशैक्यायसीं गदाम तरसा सॊ ऽभिदुद्राव मणिमन्तं महाबलम ॥ 64 ॥
दीप्यमानं महाशूलं परहृह्य मणिमान अपि पराहिणॊद भीमसेनाय वेगेन महता नदन ॥ 65 ॥
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः अभिदुद्राव तं तूर्णं गरुत्मान इव पन्नगम ॥ 66 ॥
सॊ ऽनतरिक्षम अभिप्लुत्य विधूय सहसा गदाम परचिक्षेप महाबाहुर विनद्य रणमूर्धनि ॥ 67 ॥
सेन्द्राशनिर इवेन्द्रेण विसृष्टा वातरंहसा हत्वा रक्षः कषितिं पराप्य कृत्येव निपपात ह ॥ 68 ॥
तं राक्षसं भीमबलं भीमसेनेन पातितम ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम ॥ 69 ॥
तं परेक्ष्य निहतं भूमौ हतशेषा निशाचराः भीमम आर्तस्वरं कृत्वा जग्मुः पराचीं दिशं परति ॥ 70 ॥
वनपर्व · Vana Parva
अध्याय 157
Reach this point to mark the section finished.
Continue to अध्याय 158