[वै] युधिष्ठिरस तम आसाद्य तपसा दग्धकिल्बिषम अभ्यवादयत परीतः शिरसा नाम कीर्तयन ॥ 1 ॥
ततः कृष्णा च भीमश च यमौ चापि यशस्विनौ शिरॊभिः पराप्य राजर्षिं परिवार्यॊपतस्थिरे ॥ 2 ॥
तथैव धौम्यॊ धर्मज्ञः पाण्डवानां पुरॊहितः यथान्यायम उपाक्रान्तस तम ऋषिं संशितव्रतम ॥ 3 ॥
अन्वजानात स धर्मज्ञॊ मुनिर दिव्येन चक्षुषा पाण्डॊः पुत्रान कुरुश्रेष्ठान आस्यताम इति चाब्रवीत ॥ 4 ॥
कुरूणाम ऋषभं पराज्ञं पूजयित्वा महातपाः सह भरातृभिर आसीनं पर्यपृच्छद अनामयम ॥ 5 ॥
नानृते कुरुषे भावं कच चिद धर्मे च वर्तसे मता पित्रॊश च ते वृत्तिः कच चित पार्थ न सीदति ॥ 6 ॥
कच चित ते गुरवः सर्वे वृद्धा वैद्याश च पूजिताः कच चिन न कुरुषे भावं पार्थ पापेषु कर्मसु ॥ 7 ॥
सुकृतं परतिकर्तुं च कच्चिद धातुं च दुष्कृतम यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे ॥ 8 ॥
यथार्हं मानिताः कच चित तवया नन्दन्ति साधवः वनेष्व अपि वसन कच चिद धर्मम एवानुवर्तसे ॥ 9 ॥
कच चिद धौम्यस तवद आचारैर न पार्थ परितप्यते दानधर्मतपः शौचैर आर्जवेन तितिक्षया ॥ 10 ॥
पितृपैतामहं वृत्तं कच चित पार्थानुवर्तसे कच चिद राजर्षियातेन पथा गच्छसि पाण्डव ॥ 11 ॥
सवे सवे किल कुले जाते पुत्रे नप्तरि वा पुनः पितरः पितृलॊकस्थाः शॊचन्ति च हसन्ति च ॥ 12 ॥
किं नव अस्य दुष्कृते ऽसमाभिः संप्राप्तव्यं भविष्यति किं चास्य सुकृते ऽसमाभिः पराप्तव्यम इति शॊभनम ॥ 13 ॥
पिता माता तथैवाग्निर गुरुर आत्मा च पञ्चमः यस्यैते पूजिताः पार्थ तस्य लॊकाव उभौ जितौ ॥ 14 ॥
अब्भक्षा वायुभक्षाश च पलवमाना विहायसा जुषन्ते पर्वतश्रेष्ठम ऋषयः पर्व संधिषु ॥ 15 ॥
कामिनः सह कान्ताभिः परस्परम अनुव्रताः दृश्यन्ते शैलशृङ्गस्थास तथा किंपुरुषा नृप ॥ 16 ॥
अरजांसि च वासांसि वसानाः कौशिकानि च दृश्यन्ते हबवः पार्थ गन्धर्वाप्सरसां गणाः ॥ 17 ॥
विद्याधरगणाश चैव सरग्विणः परियदर्शनाः महॊरगगणाश चैव सुपर्णाश चॊरगादयः ॥ 18 ॥
अस्य चॊपरि शैलस्य शरूयते पर्व संधिषु भेरी पणवशङ्खानां मृदङ्गानां च निस्वनः ॥ 19 ॥
इहस्थैर एव तत सर्वं शरॊतव्यं भरतर्षभाः न कार्या वः कथं चित सयात तत्राभिसरणे मतिः ॥ 20 ॥
न चाप्य अतः परं शक्यं गन्तुं भरतसत्तमाः विहारॊ हय अत्र देवानाम अमानुष गतिस तु सा ॥ 21 ॥
ईषच चपल कर्माणं मनुष्यम इह भारत दविषन्ति सर्वभूतानि ताषयन्ति च राक्षसाः ॥ 22 ॥
अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर गतिः परमसिद्धानां देवर्षीणां परकाशते ॥ 23 ॥
चापलाद इह गछन्तं पार्थ यानम अतः परम अयः शूलादिभिर घनन्ति राक्षसाः शत्रुसूदन ॥ 24 ॥
अप्सरॊभिः परिवृतः समृद्ध्या नरवाहनः इह वैश्रवणस तात पर्व संधिषु दृश्यते ॥ 25 ॥
शिखरे तं समासीनम अधिपं सर्वरक्षसाम परेक्षन्ते सर्वभूतानि भानुमन्तम इवॊदितम ॥ 26 ॥
देवदानव सिद्धानां तथा वैश्रवणस्य च गिरेः शिखरम उद्यानम इदं भरतसत्तम ॥ 27 ॥
उपासीनस्य धनदं तुम्बुरॊः पर्व संधिषु गीतसाम सवनस तात शरूयते गन्धमादने ॥ 28 ॥
एतद एवंविधं चित्रम इह तात युधिष्ठिर परेक्षन्ते सर्वभूतानि बहुशः पर्व संधिषु ॥ 29 ॥
भुञ्जानाः सर्वभॊज्यानि रसवन्ति फलानि च वसध्वं पाण्डवश्रेष्ठा यावद अर्जुन दर्शनम ॥ 30 ॥
न तात चपलैर भाव्यम इह पराप्तैः कथं चन उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ततः शस्त्रभृतां शरेष्ठ पृथिवीं पालयिष्यसि ॥ 31 ॥
वनपर्व · Vana Parva
अध्याय 156
Reach this point to mark the section finished.
Continue to अध्याय 157