धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 155

  1. [वै] निहते राक्षसे तस्मिन पुनर नारायणाश्रमम अभ्येत्य राजा कौन्तेयॊ निवासम अकरॊत परभुः ॥ 1 ॥

  2. स समानीय तान सर्वान भरातॄन इत्य अब्रवीद वचः दरौपद्या सहितान काले संस्मरन भरातरं जयम ॥ 2 ॥

  3. समाश चतस्रॊ ऽभिगताः शिवेन चरतां वने कृतॊद्देशश च बीभत्सुः पञ्चमीम अभितः समाम ॥ 3 ॥

  4. पराप्य पर्वतराजानं शवेतं शिखरिणां वरम तत्रापि च कृतॊद्देशः समागमदिदृक्षुभिः ॥ 4 ॥

  5. कृतश च समयस तेन पार्थेनामित तेजसा पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि ॥ 5 ॥

  6. तत्र गाण्डीवधन्वानम अवाप्तास्त्रम अरिंदमम देवलॊकाद इमं लॊकं दरक्ष्यामः पुनरागतम ॥ 6 ॥

  7. इत्य उक्त्वा बराह्मणान सर्वान आमन्त्रयत पाण्डवः कारणं चैव तत तेषाम आचचक्षे तपस्विनाम ॥ 7 ॥

  8. तम उग्रतपसः परीताः कृत्वा पार्थं परदक्षिणम बराह्मणास ते ऽनवमॊदन्त शिवेन कुशलेन च ॥ 8 ॥

  9. सुखॊदर्कम इमं कलेशम अचिराद भरतर्षभ कषत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि ॥ 9 ॥

  10. तत तु राजा वचस तेषां परतिगृह्य तपस्विनाम परतस्थे सह विप्रैस तैर भरातृभिश च परंतपः ॥ 10 ॥

  11. दरौपद्या सहितः शरीमान हैडिम्बेयादिभिस तथा राक्षसैर अनुयातश च लॊमशेनाभिरक्षितः ॥ 11 ॥

  12. कव चिज जगाम पद्भ्यां तु राक्षसैर उह्यते कव चित तत्र तत्र महातेजा भरातृभिः सह सुव्रतः ॥ 12 ॥

  13. ततॊ युधिष्ठिरॊ राजा बहून कलेशान विचिन्तयन सिंहव्याघ्र गजाकीर्णाम उदीचीं परययौ दिशम ॥ 13 ॥

  14. अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम गन्धमादन पादांश च मेरुं चापि शिलॊच्चयम ॥ 14 ॥

  15. उपर्य उपरि शैलस्य बह्वीश च सरितः शिवाः परस्थं हिमवतः पुण्यं ययौ सप्त दशे ऽहनि ॥ 15 ॥

  16. ददृशुः पाण्डवा राजन गन्धमादनम अन्तिकात पृष्ठे हिमवतः पुण्ये नानाद्रुमलता युते ॥ 16 ॥

  17. सलिलावर्त संजातैः पुष्पितैश च महीरुहैः समावृतं पुण्यतमम आश्रमं वृषपर्वणः ॥ 17 ॥

  18. तम उपक्रम्य राजर्षिं धर्मात्मानम अरिंदमाः पाण्डवा वृषपर्वाणम अवन्दन्त गतक्लमाः ॥ 18 ॥

  19. अभ्यनन्दत स राजर्षिः पुत्रवद भरतर्षभान पूजिताश चावसंस तत्र सप्तरात्रम अरिंदमाः ॥ 19 ॥

  20. अष्टमे ऽहनि संप्राप्ते तम ऋषिं लॊकविश्रुतम आमन्त्र्य वृषपर्वाणं परस्थानं समरॊचयन ॥ 20 ॥

  21. एकैकशश च तान विप्रान निवेद्य वृषपर्वणे नयासभूतान यथाकालं बन्धून इव सुसत्कृतान ॥ 21 ॥

  22. ततस ते वरवस्त्राणि शुभान्य आभरणानि च नयदधुः पाण्डवास तस्मिन्न आश्रमे वृषपर्वणः ॥ 22 ॥

  23. अतीतानागते विद्वान कुशलः सर्वधर्मवित अन्वशासत स धर्मज्ञः पुत्रवद भरतर्षभान ॥ 23 ॥

  24. ते ऽनुज्ञाता महात्मानः परययुर दिशम उत्तराम कृष्णया सहिता वीरा बराह्मणैश च महात्मभिः तान परस्थितान अन्वगच्छद वृषपर्वा महीपतिः ॥ 24 ॥

  25. उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस तदा अनुसंसाध्य कौन्तेयान आशीर्भिर अभिनन्द्य च वृषपर्वा निववृते पन्थानम उपदिश्य च ॥ 25 ॥

  26. नानामृगगणैर जुष्टं कौन्तेयः सत्यविक्रमः पदातिर भरातृभिः सार्धं परातिष्ठत युधिष्ठिरः ॥ 26 ॥

  27. नानाद्रुमनिरॊधेषु वसन्तः शैलसानुषु पर्वतं विविशुः शवेतं चतुर्थे ऽहनि पाण्डवाः ॥ 27 ॥

  28. महाभ्रघनसंकाशं सलिलॊपहितं शुभम मणिकाञ्चनरम्यं च शैलं नाना समुच्छ्रयम ॥ 28 ॥

  29. ते समासाद्य पन्थानं यथॊक्तं वृषपर्वणा अनुसस्रुर यथॊद्देशं पश्यन्तॊ विविधान नगान ॥ 29 ॥

  30. उपर्य उपरि शैलस्य गुहा परमदुर्गमाः सुदुर्गमांस ते सुबहून सुखेनैवाभिचक्रमुः ॥ 30 ॥

  31. धौम्यः कृष्णा च पार्थाश च लॊमशश च महान ऋषिः अगमन सहितास तत्र न कश चिद अवहीयते ॥ 31 ॥

  32. ते मृगद्विजसंघुष्टं नानाद्विज समाकुलम शाखामृगगणैश चैव सेवितं सुमनॊहरम ॥ 32 ॥

  33. पुण्यं पद्मसरॊपेतं सपल्वल महावनम उपतस्थुर महावीर्या माल्यवन्तं महागिरिम ॥ 33 ॥

  34. ततः किंपुरुषावासं सिद्धचारणसेवितम ददृशुर हृष्टरॊमाणः पर्वतं गन्धमादनम ॥ 34 ॥

  35. विद्याधरानुचरितं किंनरीभिस तथैव च गजसिंहसमाकीर्णम उदीर्णशरभायुतम ॥ 35 ॥

  36. उपेतम अन्यैश च तदा मृगैर मृदु निनादिभिः ते गन्धमादन वनं तन नन्दनवनॊपम ॥ 36 ॥

  37. मुदिताः पाण्डुतनया मनॊ हृदयनन्दनम विविशुः करमशॊ वीरा अरण्यं शुभकाननम ॥ 37 ॥

  38. दरौपदी सहिता वीरास तैश च विप्रैर महात्मभिः शृण्वन्तः परीतिजननान वल्गून मदकलाञ शुभान शरॊत्ररम्यान सुमधुराञ शब्दान खग मुखेरितान ॥ 38 ॥

  39. सर्वर्तुफलभाराढ्यान सर्वर्तुकुसुमॊज्ज्वलान पश्यन्तः पादपांश चापि फलभार वनामितान ॥ 39 ॥

  40. आम्रान आम्रातकान फुल्लान नारिकेलान सतिन्दुकान अजातकांस तथा जीरान दाडिमान बीजपूरकान ॥ 40 ॥

  41. पनसाँल लिकुचान मॊचान खर्जूरान आम्रवेतसान पारावतांस तथा कषौद्रान नीपांश चापि मनॊरमान ॥ 41 ॥

  42. बिल्वान कपित्थाञ जम्बूंश च काश्मरीर बदरीस तथा लपक्षान उदुम्बर वटान अश्वत्थान कषीरिणस तथा भल्लातकान आमकलान हरीतकबिभीतकान ॥ 42 ॥

  43. इङ्गुदान करवीरांश च तिन्दुकांश च महाफलान एतान अन्यांश च विविधान गन्धमादन सानुषु ॥ 43 ॥

  44. फलैर अमृतकल्पैस तान आचितान सवादुभिस तरून तथैव चम्पकाशॊकान केतकान बकुलांस तथा ॥ 44 ॥

  45. पुंनागान सप्तपर्णांश च कर्णिकारान सकेतकान पाटलान कुटजान रम्यान मन्दारेन्दीवरांस तथा ॥ 45 ॥

  46. पारिजातान कॊविदारान देवदारु तरूंस तथा शालांस तालांस तमालांश च परियालान बकुलांस तथा शाल्मलीः किंशुकाशॊकां शिंशपांस तरलांस तथा ॥ 46 ॥

  47. चकॊरैः शतपत्रैश च भृङ्गराजैस तथा शुकैः कॊकिलैः कलविङ्कैश च हारीतैर जीव जीवकैः ॥ 47 ॥

  48. परियव्रतैश चातकैश च तथान्यैर विविधैः खगैः शरॊत्ररम्यं सुमधुरं कूजद्भिश चाप्य अधिष्ठितान ॥ 48 ॥

  49. सरांसि च विचित्राणि परसन्नसलिलानि च कुमुदैः पुण्डरीकैश च तथा कॊकनदॊत्पलैः कह्लारैः कमलैश चैव आचितानि समन्ततः ॥ 49 ॥

  50. कदम्बैश चक्रवाकैश च कुररैर जलकुक्कुटैः कारण्डवैः पलवैर हंसैर बकैर मद्गुभिर एव च एतैश चान्यैश च कीर्णानि समन्ताज जलचारिभिः ॥ 50 ॥

  51. हृष्टैस तथा तामरस रसासव मदालसैः पद्मॊदर चयुत रजः किञ्जल्कारुण रञ्जितैः ॥ 51 ॥

  52. मधुरस्वरैर मधुकरैर विरुतान कमलाकरान पश्यन्तस ते मनॊरम्यान गन्धमादन सानुषु ॥ 52 ॥

  53. तथैव पद्मषण्डैश च मण्डितेषु समन्ततः शिखण्डिनीभिः सहिताँल लता मण्डपकेषु च मेघतूर्य रवॊद्दाम मदनाकुलितान भृशम ॥ 53 ॥

  54. कृत्वैव केका मधुरं संगीत मधुरस्वरम चित्रान कलापान विस्तीर्य सविलासान मदालसान मयूरान ददृशुश चित्रान नृत्यतॊ वनलासकान ॥ 54 ॥

  55. कान्ताभिः सहितान अन्यान अपश्यन रमतः सुखम वल्ली लता संकटेषु कटकेषु सथितांस तथा ॥ 55 ॥

  56. कांश चिच छकुन जातांश च विटपेषूत्कटान अपि कलाप रचिताटॊपान विचित्रमुकुटान इव विवरेषु तरूणां च मुदितान ददृशुश च ते ॥ 56 ॥

  57. सिन्धुवारान अथॊद्दामान मन्मथस्येव तॊमरान सुवर्णकुसुमाकीर्णान गिरीणां शिखरेषु च ॥ 57 ॥

  58. कर्णिकारान विरचितान कर्ण पूरान इवॊत्तमान अथापश्यन कुरबकान वनराजिषु पुष्पितान कामवश्यॊत्सुक करान कामस्येव शरॊत्करान ॥ 58 ॥

  59. तथैव वनराजीनाम उदारान रचितान इव विराजमानांस ते ऽपश्यंस तिलकांस तिलकान इव ॥ 59 ॥

  60. तथानङ्ग शराकारान सहकारान मनॊरमान अपश्यन भरमरारावान मञ्जरीभिर विराजितान ॥ 60 ॥

  61. हिरण्यसदृशैः पुष्पैर दावाग्निसदृशैर अपि लॊहितैर अञ्जनाभैश च वैडूर्य ददृशैर अपि ॥ 61 ॥

  62. तथा शालांस तमालांश च पाटल्यॊ बकुलानि च माला इव समासक्ताः शैलानां शिखरेषु च ॥ 62 ॥

  63. एवं करमेण ते वीरा वीक्षमाणाः समन्ततः गजसंघ समाबाधं सिंहव्याघ्र समायुतम ॥ 63 ॥

  64. शरभॊन्नाद संघुष्टं नानाराव निनादितम सर्वर्तुफलपुष्पाढ्यं गन्धमादन सानुषु ॥ 64 ॥

  65. पीता भास्वरवर्णाभा बभूवुर नरराजयः नात्र कण्टकिनः के चिन नात्र के चिद अपुष्पिताः सनिग्धपत्र फला वृक्षा गन्धमादन सानुषु ॥ 65 ॥

  66. विमलस्फटिकाभानि पाण्डुरछदनैर दविजैः राजहंसैर उपेतानि सारसाभिरुतानि च सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥ 66 ॥

  67. पद्मॊत्पलविचित्राणि सुखस्पर्श जलानि च गन्धवन्ति च माल्यानि रसवन्ति फलानि च अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ 67 ॥

  68. एते चान्ये च बहवस तत्र काननजा दरुमाः लताश च विविधाकाराः पत्रपुष्पफलॊच्चयाः ॥ 68 ॥

  69. युधिष्ठिरस तु तान वृक्षान पश्यमानॊ नगॊत्तमे भीमसेनम इदं वाक्यम अब्रवीन मधुराक्षरम ॥ 69 ॥

  70. पश्य भीम शुभान देशान देवाक्रीडान समन्ततः अमानुष गतिं पराप्ताः संसिद्धाः सम वृकॊदर ॥ 70 ॥

  71. ललाभिश चैव बह्वीभिः पुष्पिताः पादपॊत्तमाः संश्लिष्टाः पार्थ शॊभन्ते गन्धमादन सानुषु ॥ 71 ॥

  72. शिखण्डिनीभिश चरतां सहितानां शिखण्डिनाम नर्दतां शृणु निर्घॊषं भीम पर्वतसानुषु ॥ 72 ॥

  73. चकॊराः शतपत्राश च मत्तकॊकिल शारिकाः पत्रिणः पुष्पितान एतान संश्लिष्यन्ति महाद्रुमान ॥ 73 ॥

  74. रक्तपीतारुणाः पार्थ पादपाग्र गता दविजाः परस्परम उदीक्षन्ते बहवॊ जीव जीवकाः ॥ 74 ॥

  75. हरितारुणवर्णानां शाद्वलानां समन्ततः सारसाः परतिदृश्यन्ते शैलप्रस्रवणेष्व अपि ॥ 75 ॥

  76. वदन्ति मधुरा वाचः सर्वभूतमनॊ ऽनुगाः भृङ्गराजॊपचक्राश च लॊहपृष्ठाश च पत्रिणः ॥ 76 ॥

  77. चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः एते वैडूर्य वर्णाभं कषॊभयन्ति महत सरः ॥ 77 ॥

  78. बहुतालसमुत्सेधाः शैलशृङ्गात परिच्युताः नाना परस्रवणेभ्यश च वारिधाराः पतन्त्य अमूः ॥ 78 ॥

  79. भास्कराभ परभा भीम शारदाभ्रघनॊपमाः शॊभयन्ति महाशैलं नाना रजतधातवः ॥ 79 ॥

  80. कव चिद अञ्जन वर्णाभाः कव चित काञ्चनसंनिभाः धातवॊ हरितालस्य कवचिद धि गुलकस्य च ॥ 80 ॥

  81. मनःशिला गुहाश चैव संध्याभ्रनिकरॊपमाः शशलॊहित वर्णाभाः कव चिद गौरिक धातवः ॥ 81 ॥

  82. सितासिताभ्र परतिमा बालसूर्यसमप्रभाः एते बहुविधाः शैलं शॊभयन्ति महाप्रभाः ॥ 82 ॥

  83. गन्धर्वाः सह कान्ताहिर यथॊक्तं वृषपर्वणा दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह ॥ 83 ॥

  84. गीतानां तलतालानां यथा साम्नां च निस्वनः शरूयते बहुधा भीम सर्वभूतमनॊहरः ॥ 84 ॥

  85. महागङ्गाम उदीक्षस्व पुण्यां देव नदीं शुभाम कलहंस गणैर जुष्टाम ऋषिकिंनरसेविताम ॥ 85 ॥

  86. धातुभिश च सरिद्भिश च किंनरैर मृगपक्षिभिः गन्धर्वैर अप्सरॊभिश च कानकैश च मनॊरमैः ॥ 86 ॥

  87. वयालैश च विविधाकारैः शतशीर्षैः समन्ततः उपेतं पश्य कौन्तेय शैलराजम अरिंदम ॥ 87 ॥

  88. ते परीतमनसः शूराः पराप्ता गतिम अनुत्तमाम नातृप्यन पर्ततेन्द्रस्य दर्शनेन परंतपाः ॥ 88 ॥

  89. उपेतम अथ माल्यैश च फलवद्भिश च पादपैः आर्ष्टिषेणस्य राजर्षेर आश्रमं ददृशुस तदा ॥ 89 ॥

  90. ततस तं तीव्रतपसं कृशं धमनि संततम पारगं सर्वधर्माणाम आर्ष्टिषेणम उपागमन ॥ 90 ॥

Reach this point to mark the section finished.

Continue to अध्याय 156

Previous: अध्याय 154