धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 153

  1. [वै] ततस तानि महार्हाणि दिव्यानि भरतर्षभः बहूनि बहुरूपाणि विरजांसि समाददे ॥ 1 ॥

  2. ततॊ वायुर महाञ शीघ्रॊ नीचैः शर्कर कर्षणः परादुरासीत खरस्पर्शः संग्रामम अभिचॊदयन ॥ 2 ॥

  3. पपात महती चॊल्का सनिर्घाता महाप्रभा निष्प्रभश चाभवत सूर्यश छन्नरश्मिस तमॊवृतः ॥ 3 ॥

  4. निर्घातश चाभवद भीमॊ भीमे विक्रमम आस्थिते चचाल पृथिवी चापि पांसुवर्षं पपात च ॥ 4 ॥

  5. सलॊहिता दिशश चासन खरवाचॊ मृगद्विजाः तमॊवृतम अभूत सर्वं न परज्ञायत किं चन ॥ 5 ॥

  6. तद अद्भुतम अभिप्रेक्ष्य धर्मपुत्रॊ युधिष्ठिरः उवाच वदतां शरेष्ठः कॊ ऽसमान अभिभविष्यति ॥ 6 ॥

  7. सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः यथा रूपाणि पश्यामि सवभ्यग्रॊ नः पराक्रमः ॥ 7 ॥

  8. एवम उक्त्वा ततॊ राजा वीक्षां चक्रे समन्ततः अपश्यमानॊ भीमं च धर्मराजॊ युधिष्ठिरः ॥ 8 ॥

  9. तत्र कृष्णां यमौ चैव समीपस्थान अरिंदमः पप्रच्छ भरातरं भीमं भीमकर्माणम आहवे ॥ 9 ॥

  10. कच चिन न भीमः पाञ्चालि किं चित कृत्यं चिकीर्षति कृतवान अपि वा वीरः साहसं साहस परियः ॥ 10 ॥

  11. इमे हय अकस्माद उत्पाता महासमरदर्शिनः दर्शयन्तॊ भयं तीव्रं परादुर्भूताः समन्ततः ॥ 11 ॥

  12. तं तथा वादिनं कृष्णा परत्युवाच मनस्विनी परिया परियं चिकीर्षन्ती महिषी चारुहासिनी ॥ 12 ॥

  13. यत तत सौगन्धिकं राजन्न आहृतं मातरिश्वना तन मया भीमसेनस्य परीतयाद्यॊपपादितम ॥ 13 ॥

  14. अपि चॊक्तॊ मया वीरॊ यदि पश्येद बहून्य अपि तानि सर्वाण्य उपादाय शीघ्रम आगम्यताम इति ॥ 14 ॥

  15. स तु नूनं महाबाहुः परियार्थं मम पाण्डवः पराग उदीचीं दिशं राजंस तान्य आहर्तुम इतॊ गतः ॥ 15 ॥

  16. उक्तस तव एवं तया राजा यमाव इदम अथाब्रवीत गच्छाम सहितास तूर्णं येन यातॊ वृकॊदरः ॥ 16 ॥

  17. वहन्तु राक्षसा विप्रान यथा शरान्तान यथा कृशान तवम अप्य अमरसंकाश वह कृष्णां घटॊत्कच ॥ 17 ॥

  18. वयक्तं दूरम इतॊ भीमः परविष्ट इति मे मतिः चिरं च तस्य कालॊ ऽयं स च वायुसमॊ जवे ॥ 18 ॥

  19. तरस्वी वैनतेयस्य सदृशॊ भुवि लङ्घने उत्पतेद अपि चाकाशं निपतेच च यथेच्छकम ॥ 19 ॥

  20. तम अन्वियाम भवतां परभावाद रजनीचराः पुरा स नापराध्नॊति सिधानां बरह्मवादिनाम ॥ 20 ॥

  21. तथेत्य उक्त्वा तु ते सर्वे हैडिम्ब परमुखास तदा उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभः ॥ 21 ॥

  22. आदाय पाण्डवांश चैव तांश च विप्रान अनेकशः लॊमशेनैव सहिताः परययुः परीतमानसाः ॥ 22 ॥

  23. ते गत्वा सहिताः सर्वे ददृशुस तत्र कानने परफुल्लपङ्कज वतीं नलिनीं सुमनॊहराम ॥ 23 ॥

  24. तं च भीमं महात्मानं तस्यास तीरे वयवस्थिरम ददृशुर निहतां चैव यक्षान सुविपुलेक्षणान ॥ 24 ॥

  25. उद्यम्य च गदां दॊर्भ्यां नदीतीरे वयवस्थितम परजा संक्षेप समये दण्डहस्तम इवान्तकम ॥ 25 ॥

  26. तं दृष्ट्वा धर्मराजस तु परिष्वज्य पुनः पुनः उवाच शलक्ष्णया वाचा कौन्तेय किम इदं कृतम ॥ 26 ॥

  27. साहसं बत भद्रं ते देवानाम अपि चाप्रियम पुनर एवं न कर्तव्यं मम चेद इच्छसि परियम ॥ 27 ॥

  28. अनुशास्य च कौन्तेयं पद्मानि परतिगृह्य च तस्याम एव नलिन्यां ते विजह्रुर अमरॊपमाः ॥ 28 ॥

  29. एतस्मिन्न एव काले तु परगृहीतशिलायुधाः परादुरासन महाकायास तस्यॊद्यानस्य रक्षिणः ॥ 29 ॥

  30. ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लॊमशम नकुलं सहदेवं च तथान्यान बराह्मणर्षभान विनयेनानताः सर्वे परणिपेतुश च भारत ॥ 30 ॥

  31. सान्त्विता धर्मराजेन परसेदुः कषणदाचराः विदिताश च कुबेरस्य ततस ते नरपुंगवाः ऊषुर नातिचिरं कालं रममाणाः कुरूद्वहाः ॥ 31 ॥

Reach this point to mark the section finished.

Continue to अध्याय 154

Previous: अध्याय 152