[भीम] पाण्डवॊ भीमसेनॊ ऽहं धर्मपुत्राद अनन्तरः विशालां बदरीं पराप्तॊ भरातृभिः सह राक्षसाः ॥ 1 ॥
अपश्यत तत्र पञ्चाली सौगन्धिकम अनुत्तमम अनिलॊढम इतॊ नूनं सा बहूनि परीप्सति ॥ 2 ॥
तस्या मामानवद्याङ्ग्या धर्मपत्न्याः परिये सथितम पुष्पाहारम इह पराप्तं निबॊधत निशाचराः ॥ 3 ॥
[र-स] आक्रीडॊ ऽयं कुबेरस्य दयितः पुरुषर्षभ नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ॥ 4 ॥
देवर्षयस तथा यक्षा देवाश चात्र वृकॊदर आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च गन्धर्वाप्सरसश चैव विहरन्त्य अत्र पाण्डव ॥ 5 ॥
अन्यायेनेह यः कश चिद अवमन्य धनेश्वरम विहर्तुम इच्छेद दुर्वृत्तः स विनश्येद असंशयम ॥ 6 ॥
तम अनादृत्य पद्मानि जिहीर्षसि बलाद इतः धर्मराजस्य चात्मानं बरवीषि भरातरं कथम ॥ 7 ॥
[भीम] राक्षसास तं न पश्यामि धनेश्वरम इहान्तिके दृष्ट्वापि च महाराजं नाहं याचितुम उत्सहे ॥ 8 ॥
न हि याचन्ति राजान एष धर्मः सनातनः न चाहं हातुम इच्छामि कषात्र धर्मं कथं चन ॥ 9 ॥
इयं च नलिनी रम्या जता पर्वतनिर्झरे नेयं भवनम आसाद्य कुबेरस्य महात्मनः ॥ 10 ॥
तुल्या हि सर्वभूतानाम इयं वैश्रवणस्य च एवंगतेषु दरव्येषु कः कं याचितुम अर्हति ॥ 11 ॥
[वै] इत्य उक्त्वा राक्षसान सर्वान भीमसेनॊ वयगाहत ततः स राक्षसैर वाचा परतिषिद्धः परतापवान मा मैवम इति सक्रॊधैर भर्त्सयद्भिः समन्ततः ॥ 12 ॥
कदर्थी कृत्यतु स तान राक्षसान भीमविक्रमः वयगाहत महातेजास ते तं सर्वे नयवारयन ॥ 13 ॥
गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम करुद्धा बरुवन्तॊ ऽनुययुर दरुतं ते; शस्त्राणि चॊद्यम्य विवृत्तनेत्राः ॥ 14 ॥
ततः स गुर्वी यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम परगृह्य तान अभ्यपतत तरस्वी; ततॊ ऽबरवीत तिष्ठत तिष्ठतेति ॥ 15 ॥
ते तं तदा तॊमरपट्टिशाद यैर; वयाविध्य शस्त्रैः सहसाभिपेतुः जिघांसवः करॊधवशाः सुभीमा; भीमं समन्तात परिवव्रुर उग्राः ॥ 16 ॥
वातेन कुन्त्यां बलवान स जातः; शूरस तरस्वी दविषतां निहन्ता सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिर अप्रधृष्यः ॥ 17 ॥
तेषां स मार्गान विविधान महात्मा; निहत्य शस्त्राणि च शात्रवाणाम यथा परवीरान निजघान वीरः; परःशतान पुष्करिणी समीपे ॥ 18 ॥
ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्या बलं बाहुबलं तथैव अशक्नुवन्तः सहिताः समन्ताद; धतप्रवीराः सहसा निवृत्ताः ॥ 19 ॥
विदीर्यमाणास तत एव तूर्णम; आकाशम आस्थाय विमूढसंज्ञाः कैलासशृङ्गाण्य अभिदुद्रुवुस ते; भीमार्दिताः करॊधवशाः परभग्नाः ॥ 20 ॥
स शक्रवद दानवदैत्य संघान; विक्रम्य जित्वा च रणे ऽरिसंघान विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततॊ ऽमबुजानि ॥ 21 ॥
ततः स पीत्वामृत कल्पम अम्भॊ; भूयॊ बभूवॊत्तम वीर्यतेजाः उत्पाट्य जग्राह ततॊ ऽमबुजानि; सौगन्धिकान्य उत्तमगन्धवन्ति ॥ 22 ॥
ततस तु ते करॊधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः भीमस्य वीर्यं च बलं च संख्ये; यथावद आचख्युर अतीव दीनाः ॥ 23 ॥
तेषां वचस तत तु निशम्य देवः; परहस्य रक्षांशि ततॊ ऽभयुवाच गृह्णातु भीमॊ जलजानि कामं; कृष्णा निमित्तं विदितं ममैतत ॥ 24 ॥
ततॊ ऽभयनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां परवरं विरॊषाः भीमं च तस्यां ददृशुर नलिन्यां; यथॊपजॊषं विहरन्तम एकम ॥ 25 ॥
वनपर्व · Vana Parva
अध्याय 152
Reach this point to mark the section finished.
Continue to अध्याय 153