धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 151

  1. [वै] स गत्वा नलिनीं रम्यां राक्षसैर अभिरक्षिताम कैलासशिखरे रम्ये ददर्श शुभकानने ॥ 1 ॥

  2. कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे सुरम्यां विपुलछायां नानाद्रुमलतावृताम ॥ 2 ॥

  3. हरिताम्बुज संछन्नां दिव्यां कनकपुष्कराम पवित्रभूतां लॊकस्य शुभाम अद्भुतदर्शनाम ॥ 3 ॥

  4. तत्रामृत रसं शीतं लघु कुन्तीसुतः शुभम ददर्श विमलं तॊयं शिवं बहु च पाण्डवः ॥ 4 ॥

  5. तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम जातरूपमयैः पद्मैश छन्नां परमगन्धिभिः ॥ 5 ॥

  6. वैडूर्य वरनालैश च बहु चित्रैर मनॊहरैः हंश कारण्डवॊद्धूतैः सृजद्भिर अमलं रजः ॥ 6 ॥

  7. आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः गन्धर्वैर अप्सरॊभिश च देवैश च परमार्चिताम ॥ 7 ॥

  8. सेविताम ऋषिभिर दिव्यां यक्षैः किंपुरुषैर अथा राक्षसैः किंनरैश चैव गुप्तां वैश्रवणेन च ॥ 8 ॥

  9. तां च दृष्ट्वैव कौन्तेयॊ भीमसेनॊ महाबलः बभूव परमप्रीतॊ दिव्यं संप्रेक्ष्य तत सरः ॥ 9 ॥

  10. तच च करॊधवशा नाम राक्षसा राजशासनात रक्षन्ति शतसाहस्राश चित्रायुधपरिच्छदाः ॥ 10 ॥

  11. ते तु दृष्ट्वैव कौन्तेयम अजिनैः परिवारितम रुक्माङ्गद धरं वीरं भीमं भीमपराक्रमम ॥ 11 ॥

  12. सायुधं बद्धनिस्त्रिंशम अशङ्कितम अरिंदमम पुष्करेप्सुम उपायान्तम अन्यॊन्यम अभिचुक्रुशुः ॥ 12 ॥

  13. अयं पुरुषशार्दूलः सायुधॊ ऽजिन संवृतः यच चिकीर्षुर इह पराप्तस तत संप्रष्टुम इहार्हथ ॥ 13 ॥

  14. ततः सर्वे महाबाहुं समासाद्य वृकॊदरम तेजॊयुक्तम अपृच्छन्त कस तवम आख्यातुम अर्हसि ॥ 14 ॥

  15. मुनिवेषधरश चासि चीरवासाश च लक्ष्यसे यदर्थम असि संप्राप्तस तद आचक्ष्व महाद्युते ॥ 15 ॥

Reach this point to mark the section finished.

Continue to अध्याय 152

Previous: अध्याय 150