[वा] नेदं कृच्छ्रम अनुप्राप्तॊ भवान सयाद वसुधाधिप यद्य अहं दवारकायां सयां राजन संनिहितः पुरा ॥ 1 ॥
आगछेयम अहं दयूतम अनाहूतॊ ऽपि कौरवैः आम्बिकेयेन दुर्धर्ष राज्ञा दुर्यॊधनेन च ॥ 2 ॥
वारयेयम अहं दयूतं बहून दॊषान परदर्शयन भीष्मद्रॊणौ समानाय्य कृपं बाह्लीकम एव च ॥ 3 ॥
वैचित्रवीर्यं राजानम अल दयूतेन कौरव पुत्राणां तव राजेन्द्र तवन्निमित्तम इति परभॊ ॥ 4 ॥
तत्र वक्ष्याम्य अहं दॊषान यैर भवान अवरॊफितः वीरसेनसुतॊ यश च राज्यात परभ्रंशितः पुरा ॥ 5 ॥
अभक्षित विनाशंच देवनेन विशां पते सातत्यं च परसङ्गस्य वर्णयेयं यथासुखम ॥ 6 ॥
सत्रियॊ ऽकषा मृगया पानम एतत कामसमुत्थितम वयसनं चतुष्टयं परॊक्तं यै राजन भरश्यते सरियः ॥ 7 ॥
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकॊविदाः विशेषतश च वक्तव्यं दयूते पश्यन्ति तद्विदः ॥ 8 ॥
एकाह्ना दरव्यनाशॊ ऽतर धरुवं वयसनम एव च अभुक्त नाशश चार्थानां वाक पौरुष्यं च केवलम ॥ 9 ॥
एतच चान्यच च कौरव्य परसङ्गि कटुकॊदयम दयूते बरूयां महाबाहॊ समासाद्याम्बिका सुतम ॥ 10 ॥
एवम उक्तॊ यदि मया गृह्णीयाद वचनं मम अनामयं सयाद धर्मस्य कुरूणां कुरुनन्दन ॥ 11 ॥
न चेत स मम राजेन्द्र गृह्णीयान मधुरं वचः पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम ॥ 12 ॥
अथैनान अभिनीयैवं सुहृदॊ नाम दुर्हृदः सभासदश च तान सर्वान भेदयेयं दुरॊदरान ॥ 13 ॥
असांनिध्यं तु कौरव्य ममानर्तेष्व अभूत तदा येनेदं वयसनं पराप्ता भवन्तॊ दयूतकारितम ॥ 14 ॥
सॊ ऽहम एत्य कुरुश्रेष्ठ दवारकां पाण्डुनन्दन अश्रौषं तवां वयसनिनं युयुधानाद यथा तथम ॥ 15 ॥
शरुत्वैव चाहं राजेन्द्र परमॊद्विग्न मानसः तूर्णम अभ्यागतॊ ऽसमि तवां दरष्टुकामॊ विशां पते ॥ 16 ॥
अहॊ कृच्छ्रम अनुप्राप्ताः सर्वे सम भरतर्षभ ये वयं तवां वयसनिनं पश्यामः सह सॊदरैः ॥ 17 ॥
वनपर्व · Vana Parva
अध्याय 14
Reach this point to mark the section finished.
Continue to अध्याय 15