[वै] एवम उक्तॊ महाबाहुर भीमसेनः परतापवान परनिपत्य ततः परीत्या भरातरं हृष्टमानसः उवाच शलक्ष्णया वाचा हनूमन्तं कपीश्वरम ॥ 1 ॥
मया धन्यतरॊ नास्ति यद आर्यं दृष्टवान अहम अनुग्रहॊ मे सुमहांस तृप्तिश च तव दर्शनात ॥ 2 ॥
एवं तु कृतम इच्छामि तवयार्याद्य परियं मम यत ते तदासीत पलवतः सागरं मकरालयम रूपम अप्रतिमं वीर तद इच्छामि निरीक्षितुम ॥ 3 ॥
एवं तुष्टॊ भविष्यामि शरद्धास्यामि च ते वचः एवम उक्तः स तेजॊ वी परहस्य हरिर अब्रवीत ॥ 4 ॥
न तच छक्यं तवया दरष्टुं रूपं नान्येन केन चित कालावस्था तदा हय अन्या वर्तते सा न सांप्रतम ॥ 5 ॥
अन्यः कृतयुगे कालस तरेतायां दवापरे ऽपरः अयं परध्वंसनः कालॊ नाद्य तद रूपम अस्ति मे ॥ 6 ॥
भूमिर नद्यॊ नगाः शैलाः सिद्धा देवा महर्षयः कालं समनुवर्तन्ते यथा भावा युगे युगे बलवर्ष्म परभावा हि परहीयन्त्य उद्भवन्ति च ॥ 7 ॥
तद अलं तव तद रूपं दरष्टुं कुरुकुलॊद्वह युगं समनुवर्तामि कालॊ हि दुरतिक्रमः ॥ 8 ॥
[भम] युगसंख्यां समाचक्ष्व आचारं च युगे युगे धर्मकामार्थ भावांश च वर्ष्म वीर्यं भवाभवौ ॥ 9 ॥
[ह] कृतं नाम युगं तात यत्र धर्मः सनातनः कृतम एव न कर्तव्यं तस्मिन काले युगॊत्तमे ॥ 10 ॥
न तत्र धर्माः सीदन्ति न कषीयन्ते च वै परजाः ततः कृतयुगं नाम कालेन गुणतां गतम ॥ 11 ॥
देवदानवगन्धर्वयक्षराक्षस पन्नगाः नासन कृतयुगे तात तदा न करय विक्रयाः ॥ 12 ॥
न सामयजुृग्वर्णाः करिया नासीच च मानवी अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥ 13 ॥
न तस्मिन युगसंसर्गे वयाधयॊ नेन्द्रिय कषयः नासूया नापि रुदितं न दर्पॊ नापि पैशुनम ॥ 14 ॥
न विग्रहः कुतस तन्द्री न दवेषॊ नापि वै कृतम न भयं न च संतापॊ न चेर्ष्या न च मत्सरः ॥ 15 ॥
ततः परमकं बरह्म या गतिर यॊगिनां परा आत्मा च सर्वभूतानां शुक्लॊ नारायणस तदा ॥ 16 ॥
बराह्मणाः कषत्रिया वैश्याः शूद्राश च कृतलक्षणाः कृते युगे समभवन सवकर्मनिरताः परजाः ॥ 17 ॥
समाश्रमं समाचारं समज्ञानमती बलम तदा हि समकर्माणॊ वर्णा धर्मान अवाप्नुवन ॥ 18 ॥
एकवेद समायुक्ता एकमन्त्रविधिक्रियाः पृथग धर्मास तव एकवेदा धर्मम एकम अनुव्रताः ॥ 19 ॥
चातुराश्रम्ययुक्तेन कर्मणा कालयॊगिना अकाम फलसंयॊगात पराप्नुवन्ति परां गतिम ॥ 20 ॥
आत्मयॊगसमायुक्तॊ धर्मॊ ऽयं कृतलक्षणः कृते युगे चतुष्पादश चातुर्वर्ण्यस्य शाश्वतः ॥ 21 ॥
एतत कृतयुगं नाम तरैगुण्यपरिवर्जितम तरेताम अपि निबॊध तवं यस्मिन सत्रं परवर्तते ॥ 22 ॥
पादेन हरसते धर्मॊ रक्ततां याति चाच्युतः सत्यप्रवृत्ताश च नराः करिया धर्मपरायणाः ॥ 23 ॥
ततॊ यज्ञाः परवर्तन्ते धर्माश च विविधाः करियाः तरेतायां भावसंकल्पाः करिया दानफलॊदयाः ॥ 24 ॥
परचलन्ति न वै धर्मात तपॊ दानपरायणाः सवधर्मस्थाः करियावन्तॊ जनास तरेतायुगे ऽभवन ॥ 25 ॥
दवापरे ऽपि युगे धर्मॊ दविभागॊनः परवर्तते विष्णुर वै पीततां याति चतुर्धा वेद एव च ॥ 26 ॥
ततॊ ऽनये च चतुर्वेदास तरिवेदाश च तथापरे दविवेदाश चैकवेदाश चाप्य अनृचश च तथापरे ॥ 27 ॥
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते करिया तपॊ दानप्रवृत्ता च राजसी भवति परजा ॥ 28 ॥
एकवेदस्य चाज्ञानाद वेदास ते बहवः कृताः सत्यस्य चेह विभ्रंशात सत्ये कश चिद अवस्थितः ॥ 29 ॥
सत्यात परच्यवमानानां वयाधयॊ बहवॊ ऽभवन कामाश चॊपद्रवाश चैव तदा दैवतकारिताः ॥ 30 ॥
यैर अर्द्यमानाः सुभृशं तपस तप्यन्ति मानवाः कामकामाः सवर्गकामा यज्ञांस तन्वन्ति चापरे ॥ 31 ॥
एवं दवापरम आसाद्य परजाः कषीयन्त्य अधर्मतः पादेनैकेन कौन्तेय धर्मः कलियुगे सथितः ॥ 32 ॥
तामसं युगम आसाद्य कृष्णॊ भवति केशवः वेदाचाराः परशाम्यन्ति धर्मयज्ञक्रियास तथा ॥ 33 ॥
ईतयॊ वयाधयस तन्द्री दॊषाः करॊधादयस तथा उपद्रवाश च वर्तन्ते आधयॊ वयाधयस तथा ॥ 34 ॥
युगेष्व आवर्तमानेषु धर्मॊ वयावर्तते पुनः धर्मे वयावर्तमाने तु लॊकॊ वयावर्तते पुनः ॥ 35 ॥
लॊके कषीणे कषयं यान्ति भावा लॊकप्रवर्तकाः युगक्षयकृता धर्माः परार्थनानि विकुर्वते ॥ 36 ॥
एतत कलियुगं नाम अचिराद यत परवर्तते युगानुवर्तनं तव एतत कुर्वन्ति चिरजीविनः ॥ 37 ॥
यच च ते मत्परिज्ञाने कौतूहलम अरिंदम अनर्थकेषु कॊ भावः पुरुषस्य विजानतः ॥ 38 ॥
एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि युगसंख्यां महाबाहॊ सवस्ति पराप्नुहि गम्यताम ॥ 39 ॥
वनपर्व · Vana Parva
अध्याय 148
Reach this point to mark the section finished.
Continue to अध्याय 149