धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 147

  1. [वै] एतच छरुत्वा वचस तस्य वानरेन्द्रस्य धीमतः भीमसेनस तदा वीरः परॊवाचामित्रकर्शनः ॥ 1 ॥

  2. कॊ भवान किंनिमित्तं वा वानरं वपुर आश्रितः बराह्मणानन्तरॊ वर्णः कषत्रियस तवानुपृच्छति ॥ 2 ॥

  3. कौरवः सॊमवंशीयः कुन्त्या गर्भेण धारितः पाण्डवॊ वायुतनयॊ भीमसेन इति शरुतः ॥ 3 ॥

  4. स वाक्यं भीमसेनस्य समितेन परतिगृह्य तत हनूमान वायुतनयॊ वायुपुत्रम अभाषत ॥ 4 ॥

  5. वानरॊ ऽहं न ते मार्गं परदास्यामि यथेप्सितम साधु गच्छ निवर्तस्व मा तवं पराप्यसि वैशसम ॥ 5 ॥

  6. [भम] वैशसं वास्तु यद वान्यन न तवा पृच्छामि वानर परयच्छॊत्तिष्ठ मार्गं मे मा तवं पराप्स्यसि वैशसम ॥ 6 ॥

  7. [हनु] नास्ति शक्तिर ममॊत्थातुं वयाधिना कलेशितॊ हय अहम यद्य अवश्यं परयातव्यं लङ्घयित्वा परयाहि माम ॥ 7 ॥

  8. [भम] निर्गुणः परमात्मेति देहं ते वयाप्य तिष्ठति तम अहं जञानविज्ञेयं नावमन्ये न लङ्घये ॥ 8 ॥

  9. यद्य आगमैर न विन्देयं तम अहं भूतभावनम करमेयं तवां गिरिं चेमं हनूमान इव सागरम ॥ 9 ॥

  10. [ह] क एष हनुमान नाम सागरॊ येन लङ्घितः पृच्छामि तवा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ॥ 10 ॥

  11. [भम] भराता मम गुणश्लाघ्यॊ बुद्धिसत्त्वबलान्वितः रामायणे ऽतिविख्यातः शूरॊ वानरपुंगवः ॥ 11 ॥

  12. रामपत्नी कृते येन शतयॊजनम आयतः सागरः पलवगेन्द्रेण करमेणैकेन लङ्घितः ॥ 12 ॥

  13. स मे भराता महावीर्यस तुल्यॊ ऽहं तस्य तेजसा बले पराक्रमे युद्धे शक्तॊ ऽहं तव निग्रहे ॥ 13 ॥

  14. उत्तिष्ठ देहि मे मार्गं पश्य वा मे ऽदय पौरुषम मच्छासनम अकुर्वाणं मा तवा नेष्ये यमक्षयम ॥ 14 ॥

  15. [वै] विज्ञाय तं बलॊन्मत्तं बाहुवीर्येण गर्वितम हृदयेनावहस्यैनं हनुमान वाक्यम अब्रवीत ॥ 15 ॥

  16. परसीद नास्ति मे शक्तिर उत्थातुं जरयानघ ममानुकम्पया तव एतत पुच्छम उत्सार्य गम्यताम ॥ 16 ॥

  17. सावज्ञम अथ वामेन समयञ जग्राह पाणिना न चाशकच चालयितुं भीमः पुच्छं महाकपेः ॥ 17 ॥

  18. उच्चिक्षेप पुनर दॊर्भ्याम इन्द्रायुधम इवॊत्श्रितम नॊद्धर्तुम अशकद भीमॊ दॊर्भ्याम अपि महाबलः ॥ 18 ॥

  19. उत्क्षिप्त भरूर विवृत्ताक्षः संहतभ्रुकुती मुखः सविन्न गत्रॊ ऽभवद भीमॊ न चॊद्धर्तुं शशाक ह ॥ 19 ॥

  20. यत्नवान अपि तु शरीमाँल लाङ्गूलॊद्धरणॊद्धुतः कपेः पार्श्वगतॊ भीमस तस्थौ वरीडाद अधॊमुखः ॥ 20 ॥

  21. परनिपत्य च कौन्तेयः पराञ्जलिर वाक्यम अब्रवीत परसीद कपिशार्दूल दुरुक्तं कषम्यतां मम ॥ 21 ॥

  22. सिद्धॊ वा यदि वा देवॊ गन्धर्वॊ वाथ गुह्यकः पृष्ठः सन कामया बरूहि कस तवं वानररूपधृक ॥ 22 ॥

  23. [ह] यत ते मम परिज्ञाने कौतूहलम अरिंदम तत सर्वम अखिलेन तवं शृणु पाण्डवनन्दन ॥ 23 ॥

  24. अहं केसरिणः कषेत्रे वायुना जगद आयुषा जातः कमलपत्राक्ष हनूमान नाम वानरः ॥ 24 ॥

  25. सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम सर्ववानरराजानौ सर्ववानरयूथपाः ॥ 25 ॥

  26. उपतस्थुर महावीर्या मम चामित्रकर्शन सुग्रीवेणाभवत परीतिर अनिलस्याग्निना यथा ॥ 26 ॥

  27. निकृतः स ततॊ भरात्रा कस्मिंश चित कारणान्तरे ऋश्यमूके मया सार्धं सुग्रीवॊ नयवसच चिरम ॥ 27 ॥

  28. अथ दाशरथिर वीरॊ रामॊ नाम महाबलः विष्णुर मानुषरूपेण च चारवसु धाम इमाम ॥ 28 ॥

  29. स पितुः परियम अन्विच्छन सह भार्यः सहानुजः सधनुर धन्विनां शरेष्ठॊ दण्डकारण्यम आश्रितः ॥ 29 ॥

  30. तस्य भार्या जनस्थानाद रावणेन हृता बलात वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम ॥ 30 ॥

  31. हृतदारः सह भरात्रा पत्नीं मार्गन सराघवः दृष्टवाञ शैलशिखरे सुग्रीवं वानरर्षभम ॥ 31 ॥

  32. तेन तस्याभवत सख्यं रागवस्य महात्मनः स हत्वा वालिनं राज्ये सुग्रीवं परत्यपादयत स हरीन परेषयाम आस सीतायाः परिमार्गने ॥ 32 ॥

  33. ततॊ वानरकॊतीभिर यां वयं परस्थिता दिशम तत्र परवृत्तिः सीताया गृध्रेण परतिपादिता ॥ 33 ॥

  34. ततॊ ऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणाः शतयॊजनविस्तीर्णम अर्णवं सहसाप्लुतः ॥ 34 ॥

  35. दृष्टा सा च मया देवी रावणस्य निवेशने परत्यागतश चापि पुनर नाम तत्र परकाश्य वै ॥ 35 ॥

  36. ततॊ रामेण वीरेण हत्वा तान सर्वराक्षसान पुनः परत्याहृता भार्या नष्टा वेदश्रुतिर यथा ॥ 36 ॥

  37. ततः परतिष्ठिते रामे वीरॊ ऽयं याचितॊ मया यावद रामकथा वीर भवेल लॊकेषु शत्रुहन तावज जीवेयम इत्य एवं तथास्त्व इति च सॊ ऽबरवीत ॥ 37 ॥

  38. दशवर्षसहस्राणि दशवर्षशतानि च राज्यं कारितवान रामस ततस तु तरिदिवं गतः ॥ 38 ॥

  39. तद इहाप्सरसस तात गन्धर्वाश च सदानघ तस्य वीरस्य चरितं गायन्त्यॊ रमयन्ति माम ॥ 39 ॥

  40. अयं च मार्गॊ मर्त्यानाम अगम्यः कुरुनन्दन ततॊ ऽहं रुद्धवान मार्गं तवेमं देवसेवितम धर्षयेद वा शपेद वापि मा कश चिद इति भारत ॥ 40 ॥

  41. दिव्यॊ देवपथॊ हय एष नात्र गच्छन्ति मानुषाः यदर्थम आगतश चासि तत सरॊ ऽभयर्ण एव हि ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 148

Previous: अध्याय 146