धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 149

  1. [वै] एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः यदि ते ऽहम अनुग्राह्यॊ दर्शयात्मानम आत्मना ॥ 1 ॥

  2. [वै] एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः तद रूपं दर्शयाम आस यद वै सागरलङ्घने ॥ 2 ॥

  3. भरातुः परियम अभीप्सन वै चकार सुमहद वपुः देहस तस्य ततॊ ऽतीव वर्धत्य आयाम विस्तरैः ॥ 3 ॥

  4. तद रूपं कदली सन्दं छादयन्न अमितद्युतिः गिरेश चॊच्छ्रयम आगम्य तस्थौ तत्र स वानरः ॥ 4 ॥

  5. समुच्छ्रितमहाकायॊ दवितीय इव पर्वतः ताम्रेक्षणस तीक्ष्णदंस्त्रॊ भृकुटी कृतलॊचनः दीर्घलाङ्गूलम आविध्य दिशॊ वयाप्य सथितः कपिः ॥ 5 ॥

  6. तद रूपं महद आलक्ष्य भरातुः कौरवनन्दनः विसिस्मिये तदा भीमॊ जहृषे च पुनः पुनः ॥ 6 ॥

  7. तम अर्कम इव तेजॊभिः सौवर्णम इव पर्वतम परदीप्तम इव चाकाशं दृष्ट्वा भीमॊ नयमीलयत ॥ 7 ॥

  8. आबभाषे च हनुमान भीमसेनं समयन्न इव एतावद इह शक्तस तवं रूपं दरष्टुं ममानघ ॥ 8 ॥

  9. वर्धे ऽहं चाप्य अतॊ भूयॊ यावन मे मनसेप्सितम भीम शत्रुषु चात्यर्थं वर्धते मूर्तिर ओजसा ॥ 9 ॥

  10. तद अद्भुतं महारौद्रं विन्ध्यमन्दर संनिभम दृष्ट्वा हनूमतॊ वर्ष्म संभ्रान्तः पवनात्म जः ॥ 10 ॥

  11. परत्युवाच ततॊ भीमः संप्रहृष्टतनूरुहः कृताञ्जलिर अदीनात्मा हनूमन्तम अवस्थितम ॥ 11 ॥

  12. दृष्टं परमाणं विपुलं शरीरस्यास्य ते विभॊ संहरस्व महावीर्यस्वयम आत्मानम आत्मना ॥ 12 ॥

  13. न हि शक्नॊमि तवां दरष्टुं दिवाकरम इवॊदितम अप्रमेयम अनाधृष्यं मैनाकम इव पर्वतम ॥ 13 ॥

  14. विस्मयश चैव मे वीर सुमहान मनसॊ ऽदय वै यद रामस तवयि पार्श्वस्थे सवयं रावणम अभ्यगात ॥ 14 ॥

  15. तवम एव शक्तस तां लङ्कां सयॊधां सहवाहनाम सवबाहुबलम आश्रित्य विनाशयितुम ओजसा ॥ 15 ॥

  16. न हि ते किं चिद अप्राप्यं मारुतात्मज विद्यते तव नैकस्य पर्याप्तॊ रावणः सगणॊ युधि ॥ 16 ॥

  17. एवम उक्तस तु भीमेन हनूमान पलवगर्षभः परत्युवाच ततॊ वाक्यं सनिग्धगन्भीरया गिरा ॥ 17 ॥

  18. एवम एतन महाबाहॊ यथा वदसि भारत भीमसेन न पर्याप्तॊ ममासौ राक्षसाधमः ॥ 18 ॥

  19. मया तु तस्मिन निहते रावणे लॊककन्तके कीर्तिर नश्येद राघवस्य तत एतद उपेक्षितम ॥ 19 ॥

  20. तेन वीरेण हत्वा तु सगणं राक्षसाधिपम आनीता सवपुरं सीता लॊके कीर्तिश च सथापिता ॥ 20 ॥

  21. तद गच्छ विपुलप्रज्ञ भरातुः परियहिते रतः अरिष्टं कषेमम अध्वानं वायुना परिरक्षितः ॥ 21 ॥

  22. एष पन्थाः कुरुश्रेष्ठ सौगन्धिक वनाय ते दरक्ष्यसे धनदॊद्यानं रक्षितं यक्षराक्षसैः ॥ 22 ॥

  23. न च ते तरसा कार्यः कुसुमावचयः सवयम दैवतानि हि मान्यानि पुरुषेण विशेषतः ॥ 23 ॥

  24. बलिहॊमनमस्कारैर मन्त्रैश च भरतर्षभ दैवतानि परसादं हि भक्त्या कुर्वन्ति भारत ॥ 24 ॥

  25. मा तात साहसं कार्षीः सवधर्मम अनुपालय सवधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च ॥ 25 ॥

  26. विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः धर्मॊ वै वेदितुं शक्यॊ बृहस्पतिसमैर अपि ॥ 26 ॥

  27. अधर्मॊ यत्र धर्माख्यॊ धर्मश चाधर्मसंज्ञितः विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः ॥ 27 ॥

  28. आचार संभवॊ धर्मॊ धर्माद वेदाः समुत्थिताः वेदैर यज्ञाः समुत्पन्ना यज्ञैर देवाः परतिष्ठिताः ॥ 28 ॥

  29. वेदाचार विधानॊक्तैर यज्ञैर धार्यन्ति देवताः बृहस्पत्युशनॊक्तैश च नयैर धार्यन्ति मानवाः ॥ 29 ॥

  30. पन्या करवनिज्याभिः कृष्याथॊ यॊनिपॊषणैः वार्तया धार्यते सर्वं धर्मैर एतैर दविजातिभिः ॥ 30 ॥

  31. तरयी वार्ता दण्डनीतिस तिस्रॊ विद्या विजानताम ताभिः सम्यक परयुक्ताभिर लॊकयात्रा विधीयते ॥ 31 ॥

  32. सा चेद धर्मक्रिया न सयात तरयीधर्मम ऋते भुवि दण्डनीतिम ऋते चापि निर्मर्यादम इदं भवेत ॥ 32 ॥

  33. वार्ता धर्मे हय अवर्तन्त्यॊ विनश्येयुर इमाः परजाः सुप्रवृत्तैर तरिभिर हय एतैर धर्मैः सूयन्ति वै परजाः ॥ 33 ॥

  34. दविजानाम अमृतं धर्मॊ हय एकश चैवैक वर्णिकः यज्ञाध्ययन दानानि तरयः साधारणाः समृताः ॥ 34 ॥

  35. याजनाध्यापने चॊभे बराह्मणानां परतिग्रहः पालनं कषत्रियाणां वै वैश्य धर्मश च पॊषणम ॥ 35 ॥

  36. शुश्रूषा तु दविजातीनां शूद्राणां धर्म उच्यते भैक्ष हॊमव्रतैर हीनास तथैव गुरुवासिनाम ॥ 36 ॥

  37. कषत्रधर्मॊ ऽतर कौन्तेय तव धर्माभिरक्षणम सवधर्मं परतिपद्यस्व विनीतॊ नियतेन्द्रियः ॥ 37 ॥

  38. वृद्धैर संमन्त्र्य सद्भिश च बुद्धिमद्भिः शरुतान्वितैः सुस्थितः शास्ति दन्देन वयसनी परिभूयते ॥ 38 ॥

  39. निग्रहानुग्रहैः सम्यग यदा राजा परवर्तते तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता ॥ 39 ॥

  40. तस्माद देशे च दुर्गे च शत्रुमित्र बलेषु च नित्यं चारेण बॊद्धव्यं सथानं वृद्धिः कषयस तथा ॥ 40 ॥

  41. राज्ञाम उपायाश चत्वारॊ बुद्धिमन्त्रः पराक्रमः निग्रहानुग्रहौ चैव दाक्ष्यं तत कार्यसाधनम ॥ 41 ॥

  42. साम्ना दानेन भेदेन दन्देनॊपेक्षणेन च साधनीयानि कार्याणि समास वयास यॊगतः ॥ 42 ॥

  43. मन्त्रमूला नयाः सर्वे चाराश च भरतर्षभ सुमन्त्रितैर नयैः सिद्धिस तद्विदैः सह मन्त्रयेत ॥ 43 ॥

  44. सत्रिया मूधेन लुब्धेन बालेन लघुना तथा न मन्त्रयेत गुह्यानि येषु चॊन्माद लक्षणम ॥ 44 ॥

  45. मन्त्रयेत सह विद्वद्भिः शक्तैः कर्माणि कारयेत सनिग्धैश च नीतिविन्यासान मूर्खान सर्वत्र वर्जयेत ॥ 45 ॥

  46. धार्मिकान धर्मकार्येषु अर्थकार्येषु पण्डितान सत्रीषु कलीबान नियुञ्जीत करूरान करूरेषु कर्मसु ॥ 46 ॥

  47. सवेभ्यश चैव परेभ्यश च कार्याकार्यसमुद्भवा बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम ॥ 47 ॥

  48. बुद्ध्या सुप्रतिपन्नेषु कुर्यात साधु परिग्रहम निग्रहं चाप्य अशिष्टेषु निर्मर्यादेषु कारयेत ॥ 48 ॥

  49. निग्रहे परग्रहे सम्यग यदा राजा परवर्तते तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता ॥ 49 ॥

  50. एष ते विहितः पार्थ घॊरॊ धर्मॊ दुरन्वयः तं सवधर्मविभागेन विनयस्थॊ ऽनुपालय ॥ 50 ॥

  51. तपॊ धर्मदमेज्याभिर विप्रा यान्ति यथा दिवम दानातिथ्य करिया धर्मैर यान्ति वैश्याश च सद्गतिम ॥ 51 ॥

  52. कषत्रं याति तथा सवर्गं भुवि निग्रहपालनैः सम्यक परनीय दण्डं हि कामद्वेषविवर्जिताः अलुब्धा विगतक्रॊधाः सतां यान्ति सलॊकताम ॥ 52 ॥

Reach this point to mark the section finished.

Continue to अध्याय 150

Previous: अध्याय 148