[वै] तत्र ते पुरुषव्याघ्राः परमं शौचम आस्थिताः सॊ रात्रम अवसन वीरा धनंजय दिदृक्षया तस्मिन विहरमाणाश च रममाणाश च पाण्डवाः ॥ 1 ॥
मनॊज्ञे काननवरे सर्वभूतमनॊरमे पादपैः पुष्पविकचैः फलभारावनामितैः ॥ 2 ॥
शॊभितं सर्वतॊ रम्यैः पुंस्कॊकिल कुलाकुलैः सनिग्धपत्रैर अविरलैः शीतछायैर मनॊरमैः ॥ 3 ॥
सरांसि च विचित्राणि परसन्नसलिलानि च कमलैः सॊत्पलैस तत्र भराजमानानि सर्वशः पश्यन्तश चारुरूपाणि रेमिरे तत्र पाण्डवाः ॥ 4 ॥
पुण्यगन्धः सुखस्पर्शॊ ववौ तत्र समीरणः हलादयन पाण्डवान सर्वान सकृष्णान सद्विजर्षभान ॥ 5 ॥
ततः पूर्वॊत्तरॊ वायुः पवमानॊ यदृच्छया सहस्रपत्रम अर्काभं दिव्यं पद्मम उदावहत ॥ 6 ॥
तद अपश्यत पाञ्चाली दिव्यगन्धं मनॊरमम अनिलेनाहृतं भूमौ पतितं जलजं शुचि ॥ 7 ॥
तच छुभाशुभम आसाद्य सौगन्धिकम अनुत्तमम अतीव मुदिता राजन भीमसेनम अथाब्रवीत ॥ 8 ॥
पश्य दिव्यं सुरुचिरं भीम पुष्पम अनुत्तमम गन्धसंस्थान संपन्नं मनसॊ मम नन्दनम ॥ 9 ॥
एतत तु धर्मराजाय परदास्यामि परंतप हरेर इदं मे कामाय काम्यके पुनर आश्रमे ॥ 10 ॥
यदि ते ऽहं परिया पार्थ बहूनीमान्य उपाहर तान्य अहं नेतुम इच्छामि काम्यकं पुनर आश्रमम ॥ 11 ॥
एवम उक्त्वा तु पाञ्चाली भीमसेनम अनिन्दिता जगाम धर्मराजाय पुष्पम आदाय तत तदा ॥ 12 ॥
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः परियाया परियकामः सॊ भीमॊ भीमपराक्रमः ॥ 13 ॥
वातं तम एवाभिमुखॊ यतस तत पुष्पम आगतम आजिहीर्षुर जगामाशु स पुष्पाण्य अपरान्य अपि ॥ 14 ॥
रुक्मपृष्ठं धनुर गृह्यं शरांश चाशीविषॊपमान मृगराड इव संक्रुद्धः परभिन्न इव कुञ्जरः ॥ 15 ॥
दरौपद्याः परियम अन्विच्छन सवबाहुबलम आश्रितः वयपैत भयसंमॊहः शैलम अभ्यपतद बली ॥ 16 ॥
स तं दरुमलता गुल्मछन्नं नीलशिलातलम गिरिं च चारारि हरः किंनराचरितं शुभम ॥ 17 ॥
नानावर्णधरैश चित्रं धातुद्रुम मृगान्दजैः सर्वभूषण संपूर्णं भूमेर भुजम इवॊच्छ्रितम ॥ 18 ॥
सर्वर्तुरमणीयेषु गन्धमादन सानुषु सक्तचक्षुर अभिप्रायं हृदयेनानुचिन्तयन ॥ 19 ॥
पुंस्कॊकिल निनादेषु सत्पदाभिरुतेषु च बद्धश्रॊत्र मनश चक्षुर जगामामित विक्रमः ॥ 20 ॥
जिघ्रमाणॊ महातेजाः सर्वर्तुकुसुमॊद्भवम गन्धम उद्दामम उद्दामॊ वने मत्त इव दविपः ॥ 21 ॥
हरियमाण शरमः पित्रा संप्रहृष्टतनूरुहः पितुः संस्पर्शशीतेन गन्धमादन वायुना ॥ 22 ॥
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम विलॊडयाम आस तदा पुष्पहेतॊर अरिंदमः ॥ 23 ॥
विषमछेदरचितैर अनुलिप्तम इवाङ्गुलैः विमलैर धातुविच्छेदैः काञ्चनाञ्जनराजतैः ॥ 24 ॥
सपक्षम इव नृत्यन्तं पार्श्वलग्नैः पयॊधरैः मुक्ताहारैर इव चितं चयुतैः परस्रवणॊदकैः ॥ 25 ॥
अभिराम नरी कुञ्ज निर्झरॊदक कन्दरम अप्सरॊनूपुर रवैः परनृत्त बहु बर्हिणम ॥ 26 ॥
दिग वारणविषाणाग्रैर घृष्टॊपल शिलातलम सरस्तांशुकम इवाक्षॊभ्यैर निम्नगा निःसृतैर जलैः ॥ 27 ॥
सशस्प कवलैः सवस्थैर अदूरपरिवर्तिभिः भयस्याज्ञैश च हरिणैः कौतूहलनिरीक्षितः ॥ 28 ॥
चालयन्न ऊरुवेगेन लता जालान्य अनेकशः आक्रीडमानः कौन्तेयः शरीमान वायुसुतॊ ययौ ॥ 29 ॥
परिया मनॊरथं कर्तुम उद्यतश चारुलॊचनः परांशुः कनकतालाभः सिंहसंहननॊ युवा ॥ 30 ॥
मत्तवानरविक्रान्तॊ मत्तवारणवेगवान मत्तवानरताम्राक्षॊ मत्तवानरवारणः ॥ 31 ॥
परिय पार्श्वॊपविष्टाभिर वयावृत्ताभिर विचेष्टितैः यक्षगन्धर्वयॊषाभिर अदृश्याभिर निरीक्ष्टितः ॥ 32 ॥
नवावतारं रूपस्य विक्रीणन्न इव पाण्डवः चचार रमणीयेषु गन्धमादन सानुषु ॥ 33 ॥
संस्मरन विविधान कलेशान दुर्यॊधनकृतान बहून दरौपद्या वनवासिन्याः परियं कर्तुं समुद्यतः ॥ 34 ॥
सॊ ऽचिन्तयद गते सवर्गम अर्जुने मयि चागते पुष्पहेतॊर कथं नव आर्यः करिष्यति युधिष्ठिरः ॥ 35 ॥
सनेहान नरवरॊ नूनम अविश्वासाद वनस्य च नकुलं सहदेवं च न मॊक्ष्यति युधिष्ठिरः ॥ 36 ॥
कथं नु कुसुमावाप्तिः सयाच छीघ्रम इति चिन्तयन परतस्थे नरशार्दूलः पक्षिराड इव वेगितः ॥ 37 ॥
कम्पयन मेदिनीं पद्भ्यां निर्घात इव पर्वसु तरासयन गजयूथानि वातरंहा वृकॊदरः ॥ 38 ॥
सिंहव्याघ्र गणांश चैव मर्दमानॊ महाबलः उन्मूलयन महावृक्षान पॊथयंश चॊरसा बली ॥ 39 ॥
तला वल्लीश च वेगेन विकर्षन पाण्डुनन्दनः उपर्य उपरि शैलाग्रम आरुरुक्षुर इव दविपः विनर्दमानॊ ऽतिभृशं सविद्युदिव तॊयदः ॥ 40 ॥
तस्य शब्देन घॊरेण धनुर घॊषेण चाभिभॊ तरस्तानि मृगयूथानि समन्ताद विप्रदुद्रुवुः ॥ 41 ॥
अथापश्यन महाबाहुर गन्धमादन सानुषु सुरम्यं कदली सन्दं बहुयॊजनविस्तृतम ॥ 42 ॥
तम अभ्यगच्छद वेगेन कषॊभयिष्यन महाबलः महागज इवास्रावी परभञ्जन विविधान दरुमान ॥ 43 ॥
उत्पाट्य कदली सकन्धान बहुतालसमुच्छ्रयान चिक्षेप तरसा भीमः समन्ताद बलिनां वरः ॥ 44 ॥
ततः सत्त्वान्य उपाक्रामन बहूनि च महान्ति च रुरुवारणसंघाश च महिषाश च जलाश्रयाः ॥ 45 ॥
सिंहव्याघ्राश च संक्रुद्धा भीमसेनम अभिद्रवन वयादितास्या महारौद्रा विनदन्तॊ ऽतिभीषणाः ॥ 46 ॥
ततॊ वायुसुतः करॊधात सवबाहुबलम आश्रितः गजेनाघ्नन गजं भीमः सिंहं सिन्हेन चाभिभूः तलप्रहारैर अन्यांश च वयहनत पाण्डवॊ बली ॥ 47 ॥
ते हन्यमाना भीमेन सिंहव्याघ्र तरक्षवः भयाद विससृपुः सर्वे शकृन मूत्रं च सुस्रुवुः ॥ 48 ॥
परविवेश ततः कषिप्रं तान अपास्य महाबलः वनं पाण्डुसुतः शरीमाञ शब्देनापूरयन दिशः ॥ 49 ॥
तेन शब्देन चॊग्रेण भीमसेनरवेण च वनान्तर गताः सर्वे वित्रेषुर मृगपक्षिणः ॥ 50 ॥
तं शब्दं सहसा शरुत्वा मृगपक्षिसमीरितम जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः ॥ 51 ॥
तान औदकान पक्षिगणान निरीक्ष्य भरतर्षभः तान एवानुसरन रम्यं ददर्श सुमहत सरः ॥ 52 ॥
काञ्चनैः कदली सन्दैर मन्दमारुत कम्पितैः वीज्यमानम इवाक्षॊभ्यं तीरान्तर विसर्पिभिः ॥ 53 ॥
तत सरॊ ऽथावतीर्याशु परभूतकमलॊत्पलम महागज इवॊद्दामश चिक्रीड बलवद बली विक्रीड्य तस्मिन सुचिरम उत्ततारामित दयुतिः ॥ 54 ॥
ततॊ ऽवगाह्य वेगेन तद वनं बहुपादपम दध्मौ च शङ्खं सवनवत सर्वप्राणेन पाण्डवः ॥ 55 ॥
तस्य शङ्खस्य शब्देन भीमसेनरवेण च बाहुशब्देन चॊग्रेण नर्दन्तीव गिरेर गुहाः ॥ 56 ॥
तं वज्रनिष्पेष समम आस्फॊटितरवं भृशम शरुत्वा शैलगुहासुप्तैः सिंहैर मुक्तॊ महास्वनः ॥ 57 ॥
सिंहनाद भयत्रस्तैः कुञ्जरैर अपि भारत मुक्तॊ विरावः सुमहान पर्वतॊ येन पूरितः ॥ 58 ॥
तं तु नादं ततः शरुत्वा सुप्तॊ वानरपुंगवः पराजृम्भत महाकायॊ हनूमान नाम वानरः ॥ 59 ॥
कदलीषण्डमध्यस्थॊ निद्रावशगतस तदा जृम्भमाणः सुविपुलं शक्रध्वजम इवॊत्श्रितम आस्फॊटयत लाङ्गूलम इन्द्राशनिसमस्वनम ॥ 60 ॥
तस्य लाङ्गूलनिदनं पर्वतः स गुहा मुखैः उद्गारम इव गौर नर्दम उत्ससर्ज समन्ततः ॥ 61 ॥
स लाङ्गूलरवस तस्य मत्तवारणनिस्वनम अन्तर्धाय विचित्रेषु च चारगिरिसानुषु ॥ 62 ॥
स भीमसेनस तं शरुत्वा संप्रहृष्टतनूरुहः शब्दप्रभवम अन्विच्छंश च चारकदली वनम ॥ 63 ॥
कदली वनमध्यस्थम अथ पीने शिलातले स ददर्श महाबाहुर वानराधिपतिं सथितम ॥ 64 ॥
विद्युत संघातदुष्प्रेक्ष्यं विद्युत संघातपिङ्गलम विद्युत संघातसदृशं विद्युत संघातचञ्चलम ॥ 65 ॥
बाहुस्वस्तिक विन्यस्त पीनह्रस्वशिरॊ धरम सकन्धभूयिष्ठ कायत्वात तनुमध्य कती ततम ॥ 66 ॥
किं चिच चाभुग्न शीर्षेण दीर्घरॊमाञ्चितेन च लाङ्गूलेनॊर्ध्व गतिना धवजेनेव विराजितम ॥ 67 ॥
रक्तॊष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद भरुवम वदनं वृत्तदंस्त्राग्रं रश्मिवन्तम इवॊदुपम ॥ 68 ॥
वदनाभ्यन्तर गतैः शुक्लभासैर अलं कृतम केषरॊत्कर संमिश्रम अशॊकानाम इवॊत्करम ॥ 69 ॥
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम दीप्यमानं सववपुषा अर्चिष्मन्तम इवानलम ॥ 70 ॥
निरीक्षन्तम अवित्रस्तं लॊचनैर मधुपिङ्गलैः तं वानरवरं वीरम अतिकायं महाबलम ॥ 71 ॥
अथॊपसृत्य तरसा भीमॊ भीमपराक्रमः सिंहनादं समकरॊद बॊधयिष्यन कपिं तदा ॥ 72 ॥
तेन शब्देन भीमस्य वित्रेषुर मृगपक्षिणः हनूमांश च महासत्त्वम ईषद उन्मील्य लॊचने अवेक्षद अथ सावज्ञं लॊचनैर मधुपिङ्गलैः ॥ 73 ॥
समितेनाभाष्य कौन्तेयं वानरॊ नरम अब्रवीत किमर्थं सरुजस ते ऽहं सुखसुप्तः परबॊधितः ॥ 74 ॥
ननु नाम तवया कार्या दया भूतेषु जानता वयं धर्मं न जानीमस तिर्यग्यॊनिं समाश्रिताः ॥ 75 ॥
मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु करूरेषु कर्मसु कथं देहवाक चित्तदूषिषु धर्मघातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः ॥ 76 ॥
न तवं धर्मं विजानासि वृद्धा नॊपासितास तवया अल्पबुद्धितया वन्यान उत्सादयसि यन मृगान ॥ 77 ॥
बरूहि कस तवं किमर्थं वा वनं तवम इदम आगतः वर्जितं मानुषैर भावैस तथैव पुरुषैर अपि ॥ 78 ॥
अतः परमगम्यॊ ऽयं पर्वतः सुदुरारुहः विना सिद्धगतिं वीर गतिर अत्र न विद्यते ॥ 79 ॥
कारुण्यात सौहृदाच चैव वारये तवां महाबल नातः परं तवया शक्यं गन्तुम आश्वसिहि परभॊ ॥ 80 ॥
इमान्य अमृतकल्पाणि मूलानि च फलानि च भक्षयित्वा निवर्तस्व गराह्यं यदि वचॊ मम ॥ 81 ॥
वनपर्व · Vana Parva
अध्याय 146
Reach this point to mark the section finished.
Continue to अध्याय 147