[य] धर्मज्ञॊ बलवाञ शूरः सद्यॊ राक्षसपुंगवः भक्तॊ ऽसमान औरसः पुत्रॊ भीम गृह्णातु मातरम ॥ 1 ॥
तव भीमबलेनाहम अतिभीम पराक्रम अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम ॥ 2 ॥
भरातुर वचनम आज्ञाय भीमसेनॊ घतॊत्कचम आदिदेश नरव्याघ्रस तनयं शत्रुकर्शनम ॥ 3 ॥
दैदिम्बेय परिश्रान्ता तव मातापराजिता तवं च कामगमस तात बलवान वहतां खग ॥ 4 ॥
सकन्धम आरॊप्य भद्रं ते मध्ये ऽसमाकं विहायसा गच्छ नीचकिया गत्या यथा चैनां न पीडयेः ॥ 5 ॥
धर्मराजां च धौम्यं च राज पुत्रीं यमौ तथा एकॊ ऽपय अहम अलं वॊढुं किम उताद्य सहायवान ॥ 6 ॥
एवम उक्त्वा ततः कृष्णाम उवाह स घतॊत्कचः पाण्डूनां मध्यगॊ वीरः पाण्डवान अपि चापरे ॥ 7 ॥
लॊमशः सिद्धमार्गेण जगामानुपम दयुतिः सवेनैवात्म परभावेन दवितीय इव भास्करः ॥ 8 ॥
बराह्मणांश चापि तान सर्वा समुपादाय राक्षसाः नियॊगाद राक्षसेन्द्रस्य जग्मुर भीमपराक्रमाः ॥ 9 ॥
एवं सुरम अनीयानि वनान्य उपवनानि च आलॊकयन्तस ते जग्मुर विशालां बदरीं परति ॥ 10 ॥
ते तव आशु गतिभिर वीरा राक्षसैस तैर महाबलैः उह्यमाना ययुः शीघ्रं महद अध्वानम अल्पवत ॥ 11 ॥
देशान मलेच्छ गणाकीर्णान नानारत्नाकरायुतान ददृशुर गिरिपादांश च नानाधातुसमाचितान ॥ 12 ॥
विद्याधरगणाकीर्णान युतान वानरकिंनरैः तथा किंपुरुषैश चैव गन्धर्वैश च समन्ततः ॥ 13 ॥
नदी जालसमाकीर्णान नानापक्षिरुताकुलान नानाविधैर मृगैर जुष्टान वानरैश चॊपशॊभितान ॥ 14 ॥
ते वयतीत्य बहून देशान उत्तरांश च कुरून अपि ददृशुर विविधाश्चर्यं कैलासं पर्वतॊत्तमम ॥ 15 ॥
तस्याभ्याशे तु ददृशुर नरनारायणाश्रमम उपेतं पादपैर दिव्यैः सदा पुष्पफलॊपगैः ॥ 16 ॥
ददृशुस तां च बदरीं वृत्तस्कन्धां मनॊरमाम सनिग्धाम अविरल छायां शरिया परमया युताम ॥ 17 ॥
पत्रैः सनिग्धैर अविललैर उपैतां मृदुभिः शुभाम विशालशाखां विष्टीर्णाम अति दयुतिसमन्विताम ॥ 18 ॥
फलैर उपचितैर दिव्यैर आचितां सवादुभिर भृशम मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम मदप्रमुदितैर नित्यं नानाद्विज गणैर युताम ॥ 19 ॥
अदंश मशके देशे बहुमूलफलॊदके नीलशाद्वल संछन्ने देवगन्धर्वसेविते ॥ 20 ॥
सुसमीकृत भूभागे सवभावविहिते शुभे जातां हिममृदु सपर्शे देशे ऽपहत कन्तके ॥ 21 ॥
ताम उपैत्य महात्मानः सह तैर बराह्मणर्षभैः अवतेरुस ततः सर्वे राक्षस सकन्धतः शनैः ॥ 22 ॥
ततस तम आश्रमं पुण्यं नरनारायणाश्रितम ददृशुः पाण्डवा राजन सहिता दविजपुंगवैः ॥ 23 ॥
तमसा रहितं पुण्यम अनामृष्टं रवेः करैः कषुत तृट शीतॊष्णदॊषैश च वर्जितं शॊकनाशनम ॥ 24 ॥
महर्षिगणसंबाधं बराह्म्या लक्ष्म्या समन्वितम दुष्प्रवेशं महाराज नरैर धर्मबहिः कृतैः ॥ 25 ॥
बलिहॊमार्चितं दिव्यं सुसंमृष्टानुलेपनम दिव्यपुष्पॊपहारैश च सर्वतॊ ऽभिविराजितम ॥ 26 ॥
विशालैर अग्निशरणैः सरुग भान्दैर आचितं शुभैः महद्भिस तॊयकलशैः कथिनैश चॊपशॊभितम शरण्यं सर्वभूतानां बरह्मघॊषनिनादितम ॥ 27 ॥
दिव्यम आश्रयणीयं तम आश्रमं शरमनाशनम शरिया युतम अनिर्देश्यं देव चर्यॊपशॊभितम ॥ 28 ॥
फलमूलाशनैर दान्तैश चीरकृष्णाजिनाम्बरैः सूर्यवैश्वानर समैस तपसा भावितात्मभिः ॥ 29 ॥
महर्षिभिर मॊक्षपरैर यतिभिर नियतेन्द्रियैः बरह्मभूतैर महाभागैर उपैतं बरह्मवादिभिः ॥ 30 ॥
सॊ ऽभयगच्छन महातेजास तान ऋषीन नियतः शुचिः भरातृभिः सहितॊ धीमान धर्मपुत्रॊ युधिष्ठिर ॥ 31 ॥
दिव्यज्ञानॊपपन्नास ते दृष्ट्वा पराप्तं युधिष्ठिरम अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः आशीर्वादान परयुञ्जानाः सवाध्यायनिरता भृशम ॥ 32 ॥
परीतास ते तस्य सत्कारं विधिना पावकॊपमाः उपाजह्रुश च सलिलं पुष्पमूलफलं शुचि ॥ 33 ॥
स तैः परीत्याथ सत्कारम उपनीतं महर्षिभिः परयतः परतिगृह्याथ धर्मपुत्रॊ युधिष्ठिरः ॥ 34 ॥
तं शक्र सदन परख्यं दिव्यगन्धं मनॊरमम परीतः सवर्गॊपमं पुण्यं पाण्डवः सह कृष्णया ॥ 35 ॥
विवेश शॊभया युक्तं भरातृभिश च सहानघ बराह्मणैर वेदवेदाङ्गपारगैश च सहाच्युतः ॥ 36 ॥
तत्रापश्यत स धर्मात्मा देवदेवर्षिपूजितम नरनारायण सथानं भागीरथ्यॊपशॊभितम ॥ 37 ॥
मधुस्रव फलां दिव्यां महर्षिगणसेविताम ताम उपैत्य महात्मानस ते ऽवसन बराह्मणैः सह ॥ 38 ॥
आलॊकयन्तॊ मैनाकं नानाद्विज गणायुतम हिरण्यशिखरं चैव तच च बिन्दुसरः शिवम ॥ 39 ॥
भागीरथीं सुतार्थां च शीतामल जरां शिवाम मनि परवालप्रस्तारां पादपैर उपशॊभिताम ॥ 40 ॥
दिव्यपुष्पसमाकीर्णां मनसः परीतिवर्धनीम वीक्षमाणा महात्मानॊ विजह्रुस तत्र पाण्डवाः ॥ 41 ॥
तत्र देवान पितॄंश चैव तर्पयन्तः पुनः पुनः बराह्मणैः सहिता वीरा नयवसन पुरुषर्षभाः ॥ 42 ॥
कृष्णायास तत्र पश्यन्तः करीडितान्य अमरप्रभाः विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः ॥ 43 ॥
वनपर्व · Vana Parva
अध्याय 145
Reach this point to mark the section finished.
Continue to अध्याय 146