[वै] ततः परयातमात्रेषु पाण्डवेषु महात्मसु पद्भ्याम अनुचिता गन्तुं दरौपदी समुपाविशत ॥ 1 ॥
शरान्ता दुःखपरीता च वातवर्षेण तेन च सौकुमार्याच च पाञ्चाली संमुमॊह यशॊ विनी ॥ 2 ॥
सा पात्यमाना मॊहेन बाहुभ्याम असितेक्षणा वृत्ताभ्याम अनुरूपाभ्याम ऊरू समवलम्बत ॥ 3 ॥
आलम्बमाना सहिताव ऊरू गजकरॊपमौ पपात सहसा भूमौ वेपन्ती कदली यथा ॥ 4 ॥
तां पतन्तीं वरारॊहां सज्जमानां लताम इव नकुलः समभिद्रुत्य परिजग्राह वीर्यवान ॥ 5 ॥
[नकुल] राजन पाञ्चालराजस्य सुतेयम असितेक्षणा शरान्ता निपतिता भूमौ ताम अवेक्षस्व भारत ॥ 6 ॥
अदुःखार्हा परं दुःखं पराप्तेयं मृदु गामिनी आश्वासय महाराज ताम इमां शरमकर्शिताम ॥ 7 ॥
[वै] राजा तु वचनात तस्य भृशं दुःखसमन्वितः भीमश च सहदेवश च सहसा समुपाद्रवन ॥ 8 ॥
ताम अवेक्ष्य तु कौन्तेयॊ विवर्णवदनां कृशाम अङ्कम आनीय धर्मात्मा पर्यदेवयद आतुरः ॥ 9 ॥
कथं वेश्मसु गुप्तेषु सवास्तीर्णशयनॊचिताः शेते निपतिता भूमौ सुखार्हा वरवर्णिनी ॥ 10 ॥
सुकुमारौ कथं पादौ मुखं च कमलप्रभम मत्कृते ऽदय वरार्हायाः शयामतां समुपागतम ॥ 11 ॥
किम इदं दयूतकामेन मया कृतम अबुद्धिना आदाय कृष्णां चरता वने मृगगणायुते ॥ 12 ॥
सुखं पराप्स्यति पाञ्चाली पाण्डवान पराप्य वै पतीन इति दरुपदराजेन पित्रा दत्तायतेक्षणा ॥ 13 ॥
तत सर्वम अनवाप्यैव शरमशॊकाद धि कर्शिता शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥ 14 ॥
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे धौम्यप्रभृतयः सर्वे तत्राजग्मुर दविजॊत्तमाः ॥ 15 ॥
ते समाश्वासयाम आसुर आशीर्भिश चाप्य अपूजयन रक्ष घनांश च तथा मन्त्राञ जेपुश चक्रुश च ते करियाः ॥ 16 ॥
पथ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः सपृश्यमाना करैः शीतैः पाण्डवैश च मुहुर मुहुः ॥ 17 ॥
सेव्यमाना च शीतेन जलमिश्रेण वायुना पाञ्चाली सुखम आसाद्य लेभे चेतः शनैः शनैः ॥ 18 ॥
परिगृह्य च तां दीनां कृष्णाम अजिन संस्तरे तदा विश्रामयाम आसुर लब्धसंज्ञां तपॊ विनीम ॥ 19 ॥
तस्या यमौ रक्ततलौ पादौ पूजित लक्षणौ कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ 20 ॥
पर्याश्वासयद अप्य एनां धर्मराजॊ युधिष्ठिरः उवाच च कुरुश्रेष्ठॊ भीमसेनम इदं वचः ॥ 21 ॥
बहवः पर्वता भीम विषमा हिमदुर गमाः तेषु कृष्णा महाबाहॊ कथं नु विचरिष्यति ॥ 22 ॥
[भम] तवां राजन राजपुत्रीं च यमौ च पुरुषर्षभौ सवयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः ॥ 23 ॥
अथ वासौ मया जातॊ विहगॊ मद्बलॊपमः वहेद अनघ सर्वान नॊ वचनात ते घतॊत्कचः ॥ 24 ॥
[वै] अनुज्ञातॊ धर्मराज्ञा पुत्रं सस्मार राक्षसम घतॊत्कचश च धर्मात्मा समृत मात्रः पितुस तदा कृताञ्जलिर उपातिष्ठद अभिवाद्याथ पाण्डवान ॥ 25 ॥
बराह्मणांश च महाबाहुः स च तैर अभिनन्दितः उवाच भीमसेनं स पितरं सत्यविक्रमः ॥ 26 ॥
समृतॊ ऽसमि भवता शीघ्रं शुश्रूषुर अहम आगतः आज्ञापय महाबाहॊ सर्वं कर्तास्म्य असंशयम तच छरुत्वा भीमसेनस तु राक्षसं परिसस्वजे ॥ 27 ॥
वनपर्व · Vana Parva
अध्याय 144
Reach this point to mark the section finished.
Continue to अध्याय 145