[वै] ते शूरास तत धन्वानस तूनवन्तः समार्गणाः बद्धगॊधाङ्गुलि तराणाः खद्गवन्तॊ ऽमितौजसः ॥ 1 ॥
परिगृह्य दविजश्रेष्ठाञ शरेष्ठाः सर्वधनुष्मताम पाञ्चाली सहिता राजन परययुर गन्धमादनम ॥ 2 ॥
सरांसि सरितश चैव पर्वतांश च वनानि च वृक्षांश च बहुल छायान ददृशुर गिरिमूर्धनि नित्यपुष्पफलान देशान देवर्षिगणसेवितान ॥ 3 ॥
आत्मन्य आत्मानम आधाय वीरा मूलफलाशनाः चेरुर उच्चावचाकारान देशान विषमसंकटान पश्यन्तॊ मृगजातानि बहूनि विविधानि च ॥ 4 ॥
ऋरि सिद्धामर युतं गन्धर्वाप्सरसां परियम विविशुस ते महात्मानः किंनराचरितं गिरिम ॥ 5 ॥
परविशत्स्व अथ वीरेषु पर्वतं गन्धमादनम चन्दवातं महद वर्षं परादुरासीद विशां पते ॥ 6 ॥
ततॊ रेणुः समुद्भूतः सपत्र बहुलॊ महान पृथिवीं चान्तरिक्षं च दयां चैव तमसावृणॊत ॥ 7 ॥
न सम परज्ञायते किं चिद आवृते वयॊम्नि रेणुना न चापि शेकुस ते कर्तुम अन्यॊन्यस्याभिभाषणम ॥ 8 ॥
न चापश्यन्त ते ऽनयॊन्यं तमसा हतचक्षुसः आकृष्यमाणा वातेन साश्म चूर्णेन भारत ॥ 9 ॥
दरुमाणां वातभग्नानां पततां भूतले भृशम अन्येषां च मही जानां शब्दः समभवन महान ॥ 10 ॥
दयौः सवित पतति किं भूमौ दीर्यन्ते पर्वता नु किम इति ते मेनिरे सर्वे पवनेन विमॊहिताः ॥ 11 ॥
ते यथानन्तरान वृक्षान वल्मीकान विषमाणि च पाणिभिः परिमार्गन्तॊ भीता वायॊर निलिल्यिरे ॥ 12 ॥
ततः कार्मुकम उद्यम्य भीमसेनॊ महाबलः कृष्णाम आदाय संगत्या तस्थाव आश्रित्य पादपम ॥ 13 ॥
धर्मराजश च धौम्यश च निलिल्याते महावने अग्निहॊत्राण्य उपादाय सहदेवस तु पर्वते ॥ 14 ॥
नकुलॊ बराह्मणाश चान्ये लॊमशश च महातपः वृक्षान आसाद्य संत्रस्तास तत्र तत्र निलिल्यिरे ॥ 15 ॥
मन्दी भूते च पवने तस्मिन रजसि शाम्यति महद्भिः पृषतैस तूर्णं वर्षम अभ्याजगाम ह ॥ 16 ॥
ततॊ ऽशमसहिता धाराः संवृण्वन्त्यः समन्ततः परपेतुर अनिशं तत्र शीघ्रवातसमीरिताः ॥ 17 ॥
ततः सागरगा आपः कीर्यमाणः समन्ततः परादुरासन सकलुसाः फेनवत्यॊ विशां पते ॥ 18 ॥
वहन्त्यॊ वारि बहुलं फेनॊदुप परिप्लुतम परिसस्रुर महाशब्दाः परकर्षन्त्यॊ महीरुहान ॥ 19 ॥
तस्मिन्न उपरते वर्षे वाते च समतां गते गते हय अम्भसि निम्नानि परादुर्भूते दिवाकरे ॥ 20 ॥
निर्जग्मुस ते शनैः सर्वे समाजग्मुश च भारत परतस्थुश च पुनर वीराः पर्वतं गन्धमादनम ॥ 21 ॥
वनपर्व · Vana Parva
अध्याय 143
Reach this point to mark the section finished.
Continue to अध्याय 144