[यु] भीमसेन यमौ चॊभौ पाञ्चालि च निबॊधत नास्ति भूतस्य नाशॊ वै पश्यतास्मान वनेचरान ॥ 1 ॥
दुर्बलाः कलेशिताः समेति यद बरवीथेतरेतरम अशक्ये ऽपि वरजामेति धनंजय दिदृक्षया ॥ 2 ॥
तन मे दहति गात्राणि तूलराशिम इवानलः यच च वीरं न पश्यामि धनंजयम उपान्तिके ॥ 3 ॥
तस्य दर्शनतृष्णं मां सानुजं वनम आस्थितम याज्ञसेन्याः परामर्शः स च वीर दहत्य उत ॥ 4 ॥
नकुलात पूर्वजं पार्थं न पश्याम्य अमितौजसम अजेयम उग्रधन्वानं तेन तप्ये वृकॊदर ॥ 5 ॥
तीर्थानि चैव रम्याणि वनानि च सरांसि च चरामि सह युष्माभिस तस्य दर्शनकाङ्क्षया ॥ 6 ॥
पञ्च वर्षाण्य अहं वीरं सत्यसंधं धनंजयम यन न पश्यामि बीभत्सुं तेन तप्ये वृकॊदर ॥ 7 ॥
तं वै शयामं गुदाकेशं सिंहविक्रान्त गामिनम न पश्यामि महाबाहुं तेन तप्ये वृकॊदर ॥ 8 ॥
कृतास्त्रं निपुनं युद्धे परतिमानं धनुष्मताम न पश्यामि नरश्रेष्ठं तेन तप्ये वृकॊदर ॥ 9 ॥
चरन्तम अरिसंघेषु कालं करुद्धम इवान्तकम परभिन्नम इव मातङ्गं सिंहस्कन्धं धनंजयम ॥ 10 ॥
यः स शक्राद अनवरॊ वीर्येण दरविणेन च यमयॊः पूर्वजः पार्थः शवेताश्वॊ ऽमितविक्रमः ॥ 11 ॥
दुःखेन महताविष्टः सवकृतेनानिवर्तिना अजेयम उग्रधन्वानं तं न पश्यामि फल्गुनम ॥ 12 ॥
सततं यः कषमा शीलः कषिप्यमाणॊ ऽपय अनीयसा ऋजु मार्गप्रपन्नस्य शर्म दाताभयस्य च ॥ 13 ॥
स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः अपि वज्रधरस्यापि भवेत कालविषॊपमः ॥ 14 ॥
शत्रॊर अपि परपन्नस्य सॊ ऽनृशंसः परतापवान दाताभयस्य भीभत्सुर अमितात्मा महाबलः ॥ 15 ॥
सर्वेषाम आश्रमॊ ऽसमाकं रणे ऽरीणां परमर्दिता आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः ॥ 16 ॥
रत्नानि यस्य वीर्येण दिव्यान्य आसन पुरा मम बहूनि बहु जातानि यानि पराप्तः सुयॊधनः ॥ 17 ॥
यस्य बाहुबलाद वीर सभा चासीत पुरा मम सर्वरत्नमयी खयाता तरिषु लॊकेषु पाण्डव ॥ 18 ॥
वासुदेव समं वीर्ये कार्तवीर्य समं युधि अजेयम अजितं युद्धे तं न पश्यामि फल्गुनम ॥ 19 ॥
संकर्षणं महावीर्यं तवां च भीमापराजितम अनुजातः स वीर्येण वासुदेवं च शत्रुहा ॥ 20 ॥
यस्य बाहुबले तुल्यः परभावे च पुरंदरः जवे वायुर मुखे सॊमः करॊधे मृत्युः सनातनः ॥ 21 ॥
ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः परवेक्ष्यामॊ महाबाहॊ पर्वतं गन्धमादनम ॥ 22 ॥
विशाला बदरी यत्र नरनारायणाश्रमः तं सदाध्युषितं यक्षैर दरक्ष्यामॊ गिरिम उत्तमम ॥ 23 ॥
कुबेर नलिनीं रम्यां राक्षसैर अभिरक्षिताम पद्भिर एव गमिष्यामस तप्यमाना महत तपः ॥ 24 ॥
नातप्त तपसा शक्यॊ देशॊ गन्तुं वृकॊदर न नृशंसेन लुब्धेन नाप्रशान्तेन भारत ॥ 25 ॥
तत्र सर्वे गमिष्यामॊ भीमार्जुनपदैषिणः सायुधा बद्धनिष्ट्रिंशाः सह विप्रैर महाव्रतैः ॥ 26 ॥
मक्षिकान मशकान दंशान वयाघ्रान सिंहान सरीसृपान पराप्नॊत्य अनियतः पार्थ नियतस तान न पश्यति ॥ 27 ॥
ते वयं नियतात्मानः पर्वतं गन्धमादनम परवेक्ष्यामॊ मिताहारा धनंजय दिदृक्षवः ॥ 28 ॥
वनपर्व · Vana Parva
अध्याय 142
Reach this point to mark the section finished.
Continue to अध्याय 143