धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 141

  1. [य] अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च अग्निना तपसा चैव शक्यं गन्तुं वृकॊदर ॥ 1 ॥

  2. संनिवर्तय कौन्तेय कषुत्पिपासे बलान्वयात ततॊ बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह ॥ 2 ॥

  3. ऋषेस तवया शरुतं वाक्यं कैलासं पर्वतं परति बुद्ध्या परपश्य कौन्तेय कथं कृष्णा गमिष्यति ॥ 3 ॥

  4. अथ वा सहदेवेन धौम्येन च सहाभिभॊ सूदैः पौरॊगवैश चैव सर्वैश च परिचारकैः ॥ 4 ॥

  5. रथैर अश्वैश च ये चान्ये विप्राः कलेशासहा पथि सर्वैस तवं सहितॊ भीम निवर्तस्वायतेक्षण ॥ 5 ॥

  6. तरयॊ वयं गमिष्यामॊ लघ्व आहारा यतव्रताः अहं च नकुलश चैव लॊमशश च महातपाः ॥ 6 ॥

  7. ममागमनम आकाङ्क्षन गङ्गा दवारे समाहितः वसेह दरौपदीं रक्षन यावदागमनं मम ॥ 7 ॥

  8. [भम] राजपुत्री शरमेणार्ता दुःखार्ता चैव भारत वरजत्य एव हि कल्याणी शवेतवाहदिदृक्षया ॥ 8 ॥

  9. तव चाप्य अरतिस तीव्रा वर्धते तम अपश्यतः किं पुनः सहदेवं च मां च कृष्णां च भारत ॥ 9 ॥

  10. रथाः कामं निवर्तन्तां सर्वे च परिचारकाः सूदाः पौरॊगवाश चैव मन्यते यत्र नॊ भवान ॥ 10 ॥

  11. न हय अहं हातुम इच्छामि भवन्तम इह कर्हि चित शैले ऽसमिन राक्षसाकीर्णे दुर्गेषु विषमेषु च ॥ 11 ॥

  12. इयं चापि महाभागा राजपुत्री यतव्रता तवाम ऋते पुरुषव्याघ्र नॊत्सहेद विनिवर्तितुम ॥ 12 ॥

  13. तथैव सहदेवॊ ऽयं सततं तवाम अनुव्रतः न जातु विनिवर्तेत मतज्ञॊ हय अहम अस्य वै ॥ 13 ॥

  14. अपि चात्र महाराज सव्यसाचि दिदृक्षया सर्वे लालस भूताः सम तस्माद यास्यामहे सह ॥ 14 ॥

  15. यद्य अशक्यॊ रथैर गन्तुं शैलॊ ऽयं बहुकन्दरः पद्भिर एव गमिष्यामॊ मा राजन विमनॊ भव ॥ 15 ॥

  16. अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति इति मे वर्तते बुद्धिर मा राजन विमनॊ भव ॥ 16 ॥

  17. सुकुमारौ तथा वीरौ माद्री नन्दिकराव उभौ दुर्गे संतारयिष्यामि यद्य अशक्तौ भविष्यतः ॥ 17 ॥

  18. एवं ते भाषमाणस्य बलं भीमाभिवर्धताम यस तवम उत्सहसे वॊढुं दरौपदीं विपुले ऽधवनि ॥ 18 ॥

  19. यमजौ चापि भद्रं ते नैतद अन्यत्र विद्यते बलं च ते यशश चैव धर्मः कीर्तिश च वर्धताम ॥ 19 ॥

  20. यस तवम उत्सहसे नेतुं भरातरौ सह कृष्णया मा ते गलानिर महाबाहॊ मा च ते ऽसतु पराभवः ॥ 20 ॥

  21. ततः कृष्णाब्रवीद वाक्यं परहसन्ती मनॊरमा गमिष्यामि न संतापः कार्यॊ मां परति भारत ॥ 21 ॥

  22. तपसा शक्यते गन्तुं पर्वतॊ गन्धमादनः तपसा चैव कौन्तेय सर्वे यॊक्ष्यामहे वयम ॥ 22 ॥

  23. नकुलः सहदेवश च भीमसेनश च पार्थिव अहं च तवं च कौन्तेय दरक्ष्यामह्य शवेतवाहनम ॥ 23 ॥

  24. एवं संभाषमाणास ते सुबाहॊर विषयं महत ददृशुर मुदिता राजन परभूतगजवाजिमत ॥ 24 ॥

  25. किरात तङ्गणाकीर्णं कुणिन्द शतसंकुलम हिमवत्य अमरैर जुष्टं बह्वाश्चर्यसमाकुलम ॥ 25 ॥

  26. सुबाहुश चापि तान दृष्ट्वा पूजया परत्यगृह्णत विषयान्ते कुणिन्दानाम ईश्वरः परीतिपूर्वकम ॥ 26 ॥

  27. तत्र ते पूजितास तेन सर्व एव सुखॊषिताः परतस्थुर विमले सूर्ये हिमवन्तं गिरिं परति ॥ 27 ॥

  28. इन्द्रसेन मुखांश चैव भृत्यान पौरॊगवांस तथा सूदांश च परिबर्हं च दरौपद्याः सर्वशॊ नृप ॥ 28 ॥

  29. राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः पद्भिर एव महावीर्या ययुः कौरवनन्दनाः ॥ 29 ॥

  30. ते शनैः पराद्रवन सर्वे कृष्णया सह पाण्डवाः तस्माद देशात सुसंहृष्टा दरष्टुकामा धनंजयम ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 142

Previous: अध्याय 140