[ल] उशीरबीजं मैनाकं गिरिं शवेतं च भारत समतीतॊ ऽसि कौन्तेय कालशैलं च पार्थिव ॥ 1 ॥
एषा गङ्गा सप्त विधा राजते भरतर्षभ सथानं विरजसं रम्यं यत्राग्निर नित्यम इध्यते ॥ 2 ॥
एतद वै मानुषेणाद्य न शक्यं दरष्टुम अप्य उत समाधिं कुरुताव्यग्रास तीर्थान्य एतानि दरक्ष्यथ ॥ 3 ॥
शवेतं गिरिं परवेक्ष्यामॊ मन्दरं चैव पर्वतम यत्र मानि चरॊ यक्षः कुवेरश चापि यक्षराट ॥ 4 ॥
अष्टाशीति सहस्राणि गन्धर्वाः शीघ्रचारिणः तथा किंपुरुषा राजन यक्षाश चैव चतुर्गुणाः ॥ 5 ॥
अनेकरूपसंस्थाना नानाप्रहरणाश च ते यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रम उपासते ॥ 6 ॥
तेषाम ऋद्धिर अतीवाग्र्यागतौ वायुसमाश च ते सथानात परच्यावयेयुर ये देवराजम अपि धरुवम ॥ 7 ॥
तैस तात बलिभिर गुप्ता यातुधानैश च रक्षिताः दुर गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥ 8 ॥
कुबेर सचिवाश चान्ये रौद्रा मैत्राश च राक्षसाः तैः समेष्याम कौन्तेय यत्तॊ विक्रमणे भव ॥ 9 ॥
कैलासः पर्वतॊ राजन सॊ यॊजनशतान्य उत यत्र देवाः समायान्ति विशाला यत्र भारत ॥ 10 ॥
असंख्येयास तु कौन्तेय यक्षराक्षस किंनराः नागाः सुपर्णा गन्धर्वाः कुबेर सदनं परति ॥ 11 ॥
तान विगाहस्व पार्थाद्य तपसा च दमेन च रक्ष्यमाणॊ मया राजन भीमसेनबलेन च ॥ 12 ॥
सवस्ति ते वरुणॊ राजा यमश च समितिंजयः गङ्गा च यमुना चैव पर्वतश च दधातु ते ॥ 13 ॥
इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणॊमि घॊषं तव देवि गङ्गे गॊपाययेमं सुभगे गिरिभ्यः; सर्वाजमीधापचितं नरेन्द्रम भवस्व शर्म परविविक्षतॊ ऽसय; शैलान इमाञ शैलसुते नृपस्य ॥ 14 ॥
[य] अपूर्वॊ ऽयं संभ्रमॊ लॊमशस्य; कृष्णां सर्वे रक्षत मां परसादम देशॊ हय अयं दुर्ग तमॊ मतॊ ऽसय; तस्मात परं शौचम इहाचरध्वम ॥ 15 ॥
ततॊ ऽबरवीद भीमम उदारवीर्यं; कृष्णां यत्तः पालय भीमसेन शून्ये ऽरजुने ऽसंनिहिते च तात; तवम एव कृष्णां भजसे ऽसुखेषु ॥ 16 ॥
ततॊ महात्मा यमजौ समेत्य; मूर्धन्य उपाघ्राय विमृज्य गात्रे उवाच तौ भाष्प कलं स राजा; मा भैष्टम आगच्छतम अप्रमत्तौ ॥ 17 ॥
वनपर्व · Vana Parva
अध्याय 140
Reach this point to mark the section finished.
Continue to अध्याय 141