धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 139

  1. [ल] एतस्मिन्न एव काले तु बृहद्द्युम्नॊ महीपतिः सत्रम आस्ते महाभागॊ रैभ्य याज्यः परतापवान ॥ 1 ॥

  2. तेन रैभ्यस्य वै पुत्राव अर्वावसु परावसू वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता ॥ 2 ॥

  3. तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः आश्रमे तव अभवद रैभ्यॊ भार्या चैव परावसॊः ॥ 3 ॥

  4. अथावलॊककॊ ऽगच्छद गृहान एकः परावसुः कृष्णाजिनेन संवीतं ददर्श पितरं वने ॥ 4 ॥

  5. जघन्यरात्रे निद्रान्धः सावशेषे तमस्य अपि चरन्तं गहने ऽरण्ये मेने स पितरं मृगम ॥ 5 ॥

  6. मृगं तु मन्यमानेन पिता वै तेन हिंसितः अकामयानेन तदा शरीरत्राणम इच्छता ॥ 6 ॥

  7. स तस्य परेतकार्याणि कृत्वा सर्वाणि भारत पुनर आगम्य तत सत्रम अब्रवीद भरातरं वचः ॥ 7 ॥

  8. इदं कर्म न शक्तस तवं वॊढुम एकः कथं चन मया तु हिंसितस तातॊ मन्यमानेन तं मृगम ॥ 8 ॥

  9. सॊ ऽसमदर्थे वरतं साधु चर तवं बरह्म हिंसनम समर्थॊ हय अहम एकाकी कर्म कर्तुम इदं मुने ॥ 9 ॥

  10. [अर्वा] करॊतु वै भवान सत्रं बृहद्द्युम्नस्य धीमतः बरह्महत्यां चरिष्ये ऽहं तवदर्थं नियतेन्द्रियः ॥ 10 ॥

  11. [ल] स तस्या बरह्महत्यायाः पारं गत्वा युधिष्ठिर अर्वावसुस तदा सत्रम आजगाम पुनर मुनिः ॥ 11 ॥

  12. ततः परावसुर दृष्ट्वा भरातरं समुपस्थितम बृहद्द्युम्नम उवाचेदं वचनं परिषद्गतम ॥ 12 ॥

  13. एष ते बरह्महा यज्ञं मा दरष्टुं परविशेद इति बरह्महा परेक्षितेनापि पीडयेत तवां न संशयः ॥ 13 ॥

  14. परेष्यैर उत्सार्यमाणस तु राजन्न अर्वावसुस तदा न मया बरह्महत्येयं कृतेत्य आह पुनः पुनः ॥ 14 ॥

  15. उच्यमानॊ ऽसकृत परेष्यैर बरह्म हन्न इति भारत नैव स परतिजानाति बरह्महत्यां सवयं कृताम मम भरात्रा कृतम इदं मया तु परिरक्षितम ॥ 15 ॥

  16. परीतास तस्याभवन देवाः कर्मणार्वावसॊर नृप तं ते परवरयाम आसुर निरासुश च परावसुम ॥ 16 ॥

  17. ततॊ देवा वरं तस्मै ददुर अग्निपुरॊगमाः स चापि वरयाम आस पितुर उत्थानम आत्मनः ॥ 17 ॥

  18. अनागस्त्वं तथा भरातुः पितुश चास्मरणं वधे भरद्वाजस्य चॊत्थानं यवक्रीतस्य चॊभयॊः ॥ 18 ॥

  19. ततः परादुर्बभूवुस ते सर्व एव युधिष्ठिर अथाब्रवीद यवक्रीतॊ देवान अग्निपुरॊगमान ॥ 19 ॥

  20. समधीतं मया बरह्म वरतानि चरितानि च कथं नु रैभ्यः शक्तॊ माम अधीयानं तपॊ विनम तथायुक्तेन विधिना निहन्तुम अमरॊत्तमाः ॥ 20 ॥

  21. [देवाह] मैवं कृथा यवक्रीत यथा वदसि वै मुने ऋते गुरुम अधीता हि सुखं वेदास तवया पुरा ॥ 21 ॥

  22. अनेन तु गुरून दुःखात तॊषयित्वा सवकर्मणा कालेन महता कलेशाद बरह्माधिगतम उत्तमम ॥ 22 ॥

  23. [ल] यवक्रीतम अथॊक्त्वैवं देवाः साग्निपुरॊगमाः संजीवयित्वा तान सर्वान पुनर जग्मुस तरिविष्टपम ॥ 23 ॥

  24. आश्रमस तस्य पुण्यॊ ऽयं सदा पुष्पफलद्रुमः अत्रॊष्य राजशार्दूल सर्वपापैः परमॊक्ष्यसे ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 140

Previous: अध्याय 138