धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 13

  1. [वै] भॊजाः परव्रजिताञ शरुत्वा वृष्णयश चान्धकैः सह पाण्डवान दुःखसंतप्तान समाजग्मुर महावने ॥ 1 ॥

  2. पाञ्चालस्य च दायादा धृष्टकेतुश च चेदिपः केकयाश च महावीर्या भरातरॊ लॊकविश्रुताः ॥ 2 ॥

  3. वने ते ऽभिययुः पार्थान करॊधामर्श समन्विताः गर्हयन्तॊ धार्तराष्ट्रान किं कुर्म इति चाब्रुवन ॥ 3 ॥

  4. वासुदेवं पुरस्कृत्य सर्वे ते कषत्रियर्षभाः परिवार्यॊपविविशुर धर्मराजं युधिष्ठिरम ॥ 4 ॥

  5. [वा] दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः दुःशासनचतुर्थानां भूमिः पास्यति शॊणितम ॥ 5 ॥

  6. ततः सर्वे ऽभिषिञ्चामॊ धर्मराजं युधिष्ठिरम निकृत्यॊपचरन वध्य एव धर्मः सनातनः ॥ 6 ॥

  7. [वै] पार्थानाम अभिषङ्गेण तथा करुद्धं जनार्दनम अर्जुनः शमयाम आसा दिधक्षन्तम इव परजाः ॥ 7 ॥

  8. संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः कीर्तयाम आस कर्माणि सत्यकीर्तेर महात्मनः ॥ 8 ॥

  9. पुरुषस्याप्रमेयस्य सत्यस्यामित तेजसः परजापतिपतेर विष्णॊर लॊकनाथस्य धीमतः ॥ 9 ॥

  10. [अर] दशवर्षसहस्राणि यत्रसायं गृहॊ मुनिः वयचरस तवं पुरा कृष्ण पर्वते गन्धमादने ॥ 10 ॥

  11. दशवर्षसहस्राणि दशवर्षशतानि च पुष्करेष्व अवसः कृष्ण तवम अपॊ भक्षयन पुरा ॥ 11 ॥

  12. ऊर्ध्वबाहुर विशालायां बदर्यां मधुसूदन अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ 12 ॥

  13. अपकृष्टॊत्तरासङ्गः कृशॊ धमनि संततः आसीः कृष्ण सरस्वत्यां सत्रे दवादश वार्षिके ॥ 13 ॥

  14. परभासं चाप्य अथासाद्य तीर्थं पुण्यजनॊचितम तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम आतिष्ठस तप एकेन पादेन नियमे सथितः ॥ 14 ॥

  15. कषेत्रजः सर्वभूतानाम आदिर अन्तश च केशव निधानं तपसां कृष्ण यज्ञस तवं च सनातनः ॥ 15 ॥

  16. निहत्य नरकं भौमम आहृत्य मणिकुण्डले परथमॊत्पादितं कृष्ण मेध्यम अश्वम अवासृजः ॥ 16 ॥

  17. कृत्वा तत कर्म लॊकानाम ऋषभः सर्वलॊकजित अवधीस तवं रणे सर्वान समेतान दैत्यदानवान ॥ 17 ॥

  18. ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः मानुषेषु महाबाहॊ परादुर्भूतॊ ऽसि केशव ॥ 18 ॥

  19. स तवं नारायणॊ भूत्वा हरिर आसीः परंतप बरह्मा सॊमश च सूर्यश च धर्मॊ धाता यमॊ ऽनलः ॥ 19 ॥

  20. वायुर वैश्रवणॊ रुद्रः कालः खं पृथिवी दिशः अजश चराचरगुरुः सरष्टा तवं पुरुषॊत्तम ॥ 20 ॥

  21. तुरायणादिभिर देवक्रतुभिर भूरिदक्षिणैः अयजॊ भूरि तेजा वै कृष्ण चैत्ररथॊ वने ॥ 21 ॥

  22. शतं शतसहस्राणि सुवर्णस्य जनार्दन एकैकस्मिंस तदा रज्ञे परिपूर्णानि भागशः ॥ 22 ॥

  23. अदितेर अपि पुत्रत्वम एत्य यादवनन्दन तवं विष्णुर इति विख्यात इन्द्राद अवरजॊ भुवि ॥ 23 ॥

  24. शिशुर भूत्वा दिवं खं च पृथिवीं च परंतप तरिभिर विक्रमणैः कृष्ण करान्तवान असि तेजसा ॥ 24 ॥

  25. संप्राप्य दिवम आकाशम आदित्यसदने सथितः अत्यरॊचश च भूतात्मन भास्करं सवेन तेजसा ॥ 25 ॥

  26. सादिता मौरवाः पाशा निसुन्द नरकौ हतौ कृतः कषेमः पुनः पन्थाः पुरं पराग्ज्यॊतिषं परति ॥ 26 ॥

  27. जारूथ्याम आहुतिः कराथः शिशुपालॊ जनैः सह भीमसेनश च शैब्यश च शतधन्वा च निर्जितः ॥ 27 ॥

  28. तथा पर्जन्यघॊषेण रथेनादित्यवर्चसा अवाक्षीर महिषीं भॊज्यां रणे निर्जित्य रुक्मिणम ॥ 28 ॥

  29. इन्द्र दयुम्नॊ हतः कॊपाद यवनश च कशेरुमान हतः सौभपतिः शाल्वस तवया सौभं च पातितम ॥ 29 ॥

  30. इरावत्यां तथा भॊजः कार्तवीर्यसमॊ युधि गॊपतिस तालकेतुश च तवया विनिहताव उभौ ॥ 30 ॥

  31. तां च भॊगवतीं पुण्याम ऋषिकान्तां जनार्दन दवारकाम आत्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ 31 ॥

  32. न करॊधॊ न च मात्सर्यं नानृतं मधुसूदन तवयि तिष्ठति दाशार्ह न नृशंस्यं कुतॊ ऽनघ ॥ 32 ॥

  33. आसीनं चित्तमध्ये तवां दीप्यमानं सवतेजसा आगम्य ऋषयः सर्वे ऽयाचन्ताभयम अच्युत ॥ 33 ॥

  34. युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन आत्मन्य एवात्म सात्कृत्वा जगद आस्से परंतप ॥ 34 ॥

  35. नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते कर्माणि यानि देव तवं बाल एव महाद्युते ॥ 35 ॥

  36. कृतवान पुण्डरीकाक्ष बलदेव सहायवान वैराज भवने चापि बरह्मणा नयवसः सह ॥ 36 ॥

  37. [वै] एवम उक्त्वा तदात्मानम आत्मा कृष्णस्य पाण्डवः तूष्णीम आसीत ततः पार्थम इत्य उवाच जनार्दनः ॥ 37 ॥

  38. ममैव तवं तवैवाहं ये मदीयास तवैव ते यस तवां दवेष्टि स मां दवेष्टि यस तवाम अनु स माम अनु ॥ 38 ॥

  39. नरस तवम असि दुर्धर्ष हरिर नारायणॊ हय अहम लॊकाल लॊकम इमं परप्तौ नरनारायणाव ऋषी ॥ 39 ॥

  40. अनन्यः पार्थ मत्तस तवम अहं तवत्तश च भारत नावयॊर अन्तरं शक्यं वेदितुं भरतर्षभ ॥ 40 ॥

  41. तस्मिन वीर समावाये संरब्धेष्व अथ राजसु धृष्टद्युम्नमुखैर वीरैर भरातृभिः परिवारिता ॥ 41 ॥

  42. पाञ्चाली पुण्डरीकाक्षम आसीनं यादवैः सह अभिगम्याब्रवीत कृष्णा शरण्यं शरणैषिणी ॥ 42 ॥

  43. पूर्वे परजा निसर्वे तवाम आहुर एकं परजापतिम सरष्टारं सर्वभूतानाम असितॊ देवलॊ ऽबरवीत ॥ 43 ॥

  44. विष्णुस तवम असि दुर्धर्ष तवं यज्ञॊ मधुसूदन यष्टा तवम असि यष्टव्यॊ जामदग्न्यॊ यथाब्रवीत ॥ 44 ॥

  45. ऋषयस तवां कषमाम आहुः सत्यं च पुरुषॊत्तम सत्याद यज्ञॊ ऽसि संभूतः कश्यपस तवां यथाब्रवीत ॥ 45 ॥

  46. साध्यानाम अपि देवानां वसूनाम ईश्वरेश्वर लॊभभावेन लॊकेश यथा तवां नारदॊ ऽबरवीत ॥ 46 ॥

  47. दिवं ते शिरसा वयाप्तं पद्भ्यां च पृथिवी विभॊ जठरं ते इमे लॊकाः पुरुषॊ ऽसि सनातनः ॥ 47 ॥

  48. विद्या तपॊ ऽभितप्तानां तपसा भावितात्मनाम आत्मदर्शनसिद्धानाम ऋषीणाम ऋषिसत्तम ॥ 48 ॥

  49. राजर्षीणां पुण्यकृताम आहवेष्व अनिवर्तिनाम सर्वधर्मॊपपन्नानां तवं गतिः पुरुषॊत्तम ॥ 49 ॥

  50. तवं परभुस तवं विभुस तवं भूर आत्मभूस तवं सनातनः लॊकपालाश च लॊकाश च नक्षत्राणि दिशॊ दश नभश चन्द्रश च सूर्यश च तवयि सर्वं परतिष्ठितम ॥ 50 ॥

  51. मर्त्यता चैव भूतानाम अमरत्वं दिवौकसाम तवयि सर्वं महाबाहॊ लॊककार्यं परतिष्ठितम ॥ 51 ॥

  52. सा ते ऽहं दुःखम आख्यास्ये परणयान मधुसूदन ईशस तवं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ 52 ॥

  53. कथं नु भार्या पार्थानां तव कृष्ण सखी विभॊ धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ 53 ॥

  54. सत्री धर्मिणी वेपमाना रुधिरेण समुक्षिता एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ॥ 54 ॥

  55. राजमध्ये सभायां तु रजसाभिसमीरिताम दृष्ट्वा च मां धार्तराष्ट्रः पराहसन पापचेतसः ॥ 55 ॥

  56. दासी भावेन भॊक्तुं माम ईषुस ते मधुसूदन जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्व अथ वृष्णिषु ॥ 56 ॥

  57. नन्व अहं कृष्टभीष्मस्य धृतराष्ट्रस्य चॊभयॊः सनुषा भवामि धर्मेण साहं दासी कृता बलात ॥ 57 ॥

  58. गर्हये पाण्डवांस तव एव युधि शरेष्ठान महाबलान ये कलिश्यमानां परेक्षन्ते धर्मपत्नीं यशस्विनीम ॥ 58 ॥

  59. धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम यौ मां विप्रकृतां कषुद्रैर मर्षयेतां जनार्दन ॥ 59 ॥

  60. शाश्वतॊ ऽयं धर्मपथः सद्भिर आचरितः सदा यद भार्यां परिरक्षन्ति भर्तारॊ ऽलपबला अपि ॥ 60 ॥

  61. भार्यायां रक्ष्यमाणायां परजा भवति रक्षिता परजायां रक्ष्यमाणायाम आत्मा भवति रक्षितः ॥ 61 ॥

  62. आत्मा हि जायते तस्यां तस्माज जाया भवत्य उत भर्ता च भार्यया रक्ष्यः कथं जायान ममॊदरे ॥ 62 ॥

  63. नन्व इमे शरणं पराप्तान न तयजन्ति कदा चन ते मां शरणम आपान्नां नान्वपद्यन्त पाण्डवाः ॥ 63 ॥

  64. पञ्चेमे पञ्चभिर जाताः कुमाराश चामितौजसः एतेषाम अप्य अवेक्षार्थं तरातव्यास्मि जनार्दन ॥ 64 ॥

  65. परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात अर्जुनाच छरुत कीरित्स तु शतानीकस तु नाकुलिः ॥ 65 ॥

  66. कनिष्टाच छरुत कर्मा तु सर्वे सत्यपराक्रमाः परद्युम्नॊ यादृशः कृष्ण तादृशास ते महारथाः ॥ 66 ॥

  67. नन्व इमे धनुषि शरेष्ठा अजेया युधि शात्रवैः किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम ॥ 67 ॥

  68. अधार्मेण हृतं राज्यं सर्वे दासाः कृतास तथा सभायां परिकृष्टाहम एकवस्त्रा रजस्वला ॥ 68 ॥

  69. नाधिज्यम अपि यच छक्यं कर्तुम अन्येन गाण्डिवम अन्यत्रार्जुन भीमाभ्यां तवया वा मधुसूदन ॥ 69 ॥

  70. धिग भीमसेनस्य बलं धिक पार्थस्य च गाण्डिवम यत्र दुर्यॊधनः कृष्ण मुहूर्तम अपि जीवति ॥ 70 ॥

  71. य एतान आक्षिपद राष्ट्रात सह मात्राविहिंसकान अधीयानान पुरा बालान वरतस्थान मधुसूदन ॥ 71 ॥

  72. भॊजने भीमसेनस्य पापः पराक्षेपयद विषम कालकूटं नवं तीक्ष्णं संभृतं लॊमहर्षणम ॥ 72 ॥

  73. तज जीर्णम अविकारेण सहान्नेन जनार्दन सशेषत्वान महाबाहॊ भीमस्य पुरुषॊत्तम ॥ 73 ॥

  74. परमाण कॊट्यां विश्वस्तं तथा सुप्तं वृकॊदरम बद्ध्वैनं कृष्ण गङ्गायां परक्षिप्य पुनर आव्रजत ॥ 74 ॥

  75. यदा विबुद्धः कौन्तेयस तदा संछिद्य बन्धनम उदतिष्ठन महाबाहुर भीमसेनॊ महाबलः ॥ 75 ॥

  76. आशीविषैः कृष्णसर्पैः सुप्तं चैनम अदर्शयत सर्वेष्व एवाङ्गदेशेषु न ममार च शत्रुहा ॥ 76 ॥

  77. परतिब्बुद्धस तु कौन्तेयः सर्वान सर्पान अपॊथयत सारथिं चास्य दयितम अपहस्तेन जघ्निवान ॥ 77 ॥

  78. पुनः सुप्तान उपाधाक्षीद बालकान वारणावते शयानान आर्यया सार्धं कॊ नु तत कर्तुम अर्हति ॥ 78 ॥

  79. यत्रार्या रुदती भीता पाण्डवान इदम अब्रवीत महद वयसनम आपन्ना शिखिना परिवारिता ॥ 79 ॥

  80. हाहतास्मि कुतॊ नव अद्य भवेच छान्तिर इहानलात अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥ 80 ॥

  81. तत्र भीमॊ महाबाहुर वायुवेगपराक्रमः आर्याम आश्वासयाम आस भरातॄंश चापि वृकॊदरः ॥ 81 ॥

  82. वैनतेयॊ यथा पक्षी गरुडः पततां वरः तथैवाभिपतिष्यामि भयं वॊ नेह विद्यते ॥ 82 ॥

  83. आर्याम अङ्केन वामेन राजानं दक्षिणेन च अंसयॊश च यमौ कृत्वा पृष्ठे बीभत्सुम एव च ॥ 83 ॥

  84. सहसॊत्पत्य वेगेन सर्वान आदाय वीर्यवान भरातॄन आर्यां च बलवान मॊक्षयाम आस पावकात ॥ 84 ॥

  85. ते रात्रौ परस्थिताः सर्वे मात्रा सह यशस्विनः अभ्यगच्छन महारण्यं हिडिम्बवनम अन्तिकात ॥ 85 ॥

  86. शरान्ताः परसुप्तास तत्रेमे मात्रा सह सुदुःखिताः सुप्तांश चैनान अभ्यगच्छद धिडिम्बा नाम राक्षसी ॥ 86 ॥

  87. भीमस्य पादौ कृत्वा तु ख उत्सङ्गे ततॊ बलात पर्यमर्दत संहृष्टा कल्याणी मृदु पाणिना ॥ 87 ॥

  88. ताम अबुध्यद अमेयात्मा बलवान सत्यविक्रमः पर्यपृच्छच च तां भीमः किम इहेच्छस्य अनिन्दिते ॥ 88 ॥

  89. तयॊः शरुता तु कथितम आगच्छद राक्षसाधमः भीमरूपॊ महानादान विसृजन भीमदर्शनः ॥ 89 ॥

  90. केन सार्धं कथयसि आनयैनं ममान्तिकम हिडिम्बे भक्षयिष्यावॊ नचिरं कर्तुम अर्हसि ॥ 90 ॥

  91. सा कृपा संगृहीतेन हृदयेन मनस्विनी नैनम ऐछत तदाख्यातुम अनुक्रॊशाद अनिन्दिता ॥ 91 ॥

  92. स नादान विनदन घॊरान राक्षसः पुरुषादकः अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥ 92 ॥

  93. तम अभिद्रुत्य संक्रुद्धॊ वेगेन महता बली अगृह्णात पाणिना पाणिं भीमसेनस्य राक्षसः ॥ 93 ॥

  94. इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम संहत्य भीमसेनाय वयाक्षिपत सहसा करम ॥ 94 ॥

  95. गृहीतं पाणिना पाणिं भीमसेनॊ ऽथ रक्षसा नामृष्यत महाबाहुस तत्राक्रुध्यद वृकॊदरः ॥ 95 ॥

  96. तत्रासीत तुमुलं युद्धं भीमसेनहिडिम्बयॊः सर्वास्त्रविदुषॊर घॊरं वृत्रवासवयॊर इव ॥ 96 ॥

  97. हत्वा हिडिम्बं भीमॊ ऽथ परस्थितॊ भरातृभिः सह हिडिम्बाम अग्रतः कृत्वा यस्यां जातॊ घटॊत्कचः ॥ 97 ॥

  98. ततश च पराद्रवन सर्वे सह मात्रा यशस्विनः एकचक्राम अभिमुखाः संवृता बराह्मण वरजैः ॥ 98 ॥

  99. परस्थाने वयास एषां न मन्त्री परियहितॊ ऽभवत ततॊ ऽगच्छन्न एकचक्रां पाण्डवाः संशितव्रताः ॥ 99 ॥

  100. तत्र अप्य आसादयाम आसुर बकं नाम महाबलम पुरुषादं परतिभयं हिडिम्बेनैव संमितम ॥ 100 ॥

  101. तं चापि विनिहत्यॊग्रं भीमः परहरतां वरः सहितॊ भरातृभिः सर्वैर दरुपदस्य पुरं ययौ ॥ 101 ॥

  102. लब्धाहम अपि तत्रैव वसता सव्यसाचिना यथा तवया जिता कृष्ण रुक्मिणी भीष्मकात्मजा ॥ 102 ॥

  103. एवं सुयुद्धे पार्थेन जिताहं मधुसूदन सवयंवरे महत कर्मकृत्वा नसुकरं परैः ॥ 103 ॥

  104. एवं कलेशैः सुबहुभिः कलिश्यमानाः सुदुःखिताः निवसाम आर्यया हीनाः कृष्ण धौम्य पुरःसराः ॥ 104 ॥

  105. त इमे सिंहविक्रान्ता वीर्येणाभ्यधिका परैः विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम ॥ 105 ॥

  106. एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम दीर्घकालं परदीप्तानि पापानां कषुद्रकर्मणाम ॥ 106 ॥

  107. कुले महति जातास्मि दिव्येन विधिना किल पाण्डवानां परिया भार्या सनुषा पाण्डॊर महात्मनः ॥ 107 ॥

  108. कच गरहम अनुप्राप्ता सास्मि कृष्ण वरा सती पञ्चानाम इन्द्रकल्पानां परेक्षतां मधुसूदन ॥ 108 ॥

  109. इत्य उक्त्वा परारुदत कृष्णा मुखं पच्छाद्य पाणिना पद्मकेश परकाशेन मृदुना मृदुभाषिणी ॥ 109 ॥

  110. सतनाव अपतितौ पीनौ सुजातौ शुभलक्षणौ अभ्यवर्षत पाञ्चाली दुःखजैर अश्रुबिन्दुभिः ॥ 110 ॥

  111. चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः बाष्पपूर्णेन कण्ठेन करुद्धा वचनम अब्रवीत ॥ 111 ॥

  112. नैव मे पतयः सन्ति न पुत्रा मधुसूदन न भरातरॊ न च पिता नैव तवं न च बान्धवाः ॥ 112 ॥

  113. ये मां विप्रकृतां कषुद्रैर उपेक्षध्वं विशॊकवत न हि मे शाम्यते दुःखं कर्णॊ यत पराहसत तदा ॥ 113 ॥

  114. अथैनाम अब्रवीत कृष्णस तस्मिन वीर समागमे रॊदिष्यन्ति सत्रियॊ हय एवं येषां करुद्धासि भामिनि ॥ 114 ॥

  115. बीभत्सु शरसांछन्नाञ शॊणितौघपरिप्लुतान निहताञ जीवितं तयक्त्वा शयानान वसुधातले ॥ 115 ॥

  116. यत समर्थं पाण्डवानां तत करिष्यामि मा शुचः सत्यं ते परतिजानामि राज्ञां राज्ञी भविष्यसि ॥ 116 ॥

  117. पतेद दयौर हिमवाञ शीर्येत पृथिवी शकलीभवेत शुष्येत तॊयनिधिः कृष्णे न मे मॊघं वचॊ भवेत ॥ 117 ॥

  118. [धृस्त] अहं दरॊणं हनिष्यामि शिखण्डी तु पितामहम दुर्यॊधनं भीमसेनः कर्णं हन्ता धनंजयः ॥ 118 ॥

  119. राम कृष्णौ वयपाश्रित्य अजेयाः सम शुचिस्मिते अपि वृत्रहणा युद्धे किं पुनर धृतराष्ट्रजैः ॥ 119 ॥

  120. [वै] इत्य उक्ते ऽभिमुखा वीरा वासुदेव्वम उपस्थिता तेषां मध्ये महाबाहुः केशवॊ वाक्यम अब्रवीत ॥ 120 ॥

Reach this point to mark the section finished.

Continue to अध्याय 14

Previous: अध्याय 12