[ल] भरद्वाजस तु कौन्तेय कृत्वा सवाध्यायम आह्निकम समित कलापम आदाय परविवेश सवम आश्रमम ॥ 1 ॥
तं सम दृष्ट्वा पुरा सर्वे परत्युत्तिष्ठन्ति पावकाः न तव एनम उपतिष्ठन्ति हतपुत्रं तदाग्नयः ॥ 2 ॥
वैकृतं तव अग्निहॊत्रे स लक्षयित्वा महातपाः तम अन्धं शूद्रम आसीनं गृहपालम अथाब्रवीत ॥ 3 ॥
किं नु मे नाग्नयः शूद्र परतिनन्दन्ति दर्शनम तवं चापि न यथापूर्वं कच चित कषेमम इहाश्रमे ॥ 4 ॥
कच चिन न रैभ्यं पुत्रॊ मे गतवान अल्पचेतनः एतद आचक्ष्व मे शीघ्रं न हि मे शुध्यते मनाः ॥ 5 ॥
[षू] रैभ्यं गतॊ नूनम असौ सुतस ते मन्दचेतनः तथा हि निहतः शेते राक्षसेन बलीयसा ॥ 6 ॥
परकाल्यमानस तेनायं शूलहस्तेन रक्षसा अग्न्यागारं परति दवारि मया दॊर्भ्यां निवारितः ॥ 7 ॥
ततः स निहतॊ हय अत्र जलकामॊ ऽशुचिर धरुवम संभावितॊ हि तूर्णेन शूलहस्तेन रक्षसा ॥ 8 ॥
[ल] भरद्वाजस तु शूद्रस्य तच छरुत्वा विप्रियं वचः गतासुं पुत्रम आदाय विललाप सुदुःखितः ॥ 9 ॥
बराह्मणानां किलार्थाय ननु तवं तप्तवांस तपः दविजानाम अनधीता वै वेदाः संप्रतिभान्त्व इति ॥ 10 ॥
तथा कल्याण शीलस तवं बराह्मणेषु महात्मसु अनागाः सर्वभूतेषु कर्कशत्वम उपेयिवान ॥ 11 ॥
परतिसिद्धॊ मया तात रैभ्यावसथ दर्शनात गतवान एव तं कषुद्रं कालान्तकयमॊपमम ॥ 12 ॥
यः स जानन महातेजा वृद्धस्यैकं ममात्मजम गतवान एव कॊपस्य वशं परमदुर्मतिः ॥ 13 ॥
पुत्रशॊकम अनुप्राप्य एष रैभ्यस्य कर्मणा तयक्ष्यामि तवाम ऋते पुत्र पराणान इष्टतमान भुवि ॥ 14 ॥
यथाहं पुत्रशॊकेन देहं तयक्ष्यामि किल्बिसी तथा जयेष्ठः सुतॊ रैभ्यं हिंस्याच छीघ्रम अनागसम ॥ 15 ॥
सुखिनॊ वै नरा येषां जात्या पुत्रॊ न विद्यते ते पुत्रशॊकम अप्राप्य विचरन्ति यथासुखम ॥ 16 ॥
ये तु पुत्रकृताच छॊकाद भृशं वयाकुलचेतसः शपन्तीष्टान सखीन आर्थास तेभ्यः पापतरॊ नु कः ॥ 17 ॥
परासुश च सुतॊ दृष्टः शप्तश चेष्टः सखा मया ईदृशीम आपदं कॊ नु दवितीयॊ ऽनुभविष्यति ॥ 18 ॥
विलप्यैवं बहुविधं भरद्वाजॊ ऽदहत सुतम सुसमिद्धं ततः पश्चात परविवेश हुताशनम ॥ 19 ॥
वनपर्व · Vana Parva
अध्याय 138
Reach this point to mark the section finished.
Continue to अध्याय 139