धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 137

  1. [ल] चङ्क्रम्यमाणः स तदा यवक्रीर अकुतॊभयः जगाम माधवे मासि रैभ्याश्रमपदं परति ॥ 1 ॥

  2. स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते विचरन्तीं सनुषां तस्य किंनरीम इव भारत ॥ 2 ॥

  3. यवक्रीस ताम उवाचेदम उपतिष्ठस्व माम इति निर्लज्जॊ लज्जया युक्तां कामेन हृतचेतनः ॥ 3 ॥

  4. सा तस्य शीलम आज्ञाय तस्माच छापाच च बिभ्यती तेजस्वितां च रैभ्यस्य तथेत्य उक्त्वा जगाम सा ॥ 4 ॥

  5. तत एकान्तम उन्नीय मज्जयाम आस भारत आजगाम तदा रैभ्यः सवम आश्रमम अरिंदम ॥ 5 ॥

  6. रुदन्तीं च सनुषां दृष्ट्वा भार्याम आर्तां परावसॊः सान्त्वयञ शलक्ष्णया वाचा पर्यपृच्छद युधिष्ठिर ॥ 6 ॥

  7. सा तस्मै सर्वम आचष्ट यवक्री भाषितं शुभा परत्युक्तं च यवक्रीतं परेक्षापूर्वं तदात्मना ॥ 7 ॥

  8. शृण्वानस्यैव रैभ्यस्य यवक्रीत विचेष्टितम दहन्न इव तदा चेतः करॊधः समभवन महान ॥ 8 ॥

  9. स तदा मन्युनाविष्टस तपस्वी भृशकॊपनः अवलुप्य जटाम एकां जुहावाग्नौ सुसंस्कृते ॥ 9 ॥

  10. ततः समभवन नारी तस्या रूपेण संमिता अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः ॥ 10 ॥

  11. ततः समभवद रक्षॊ घॊराक्षं भीमदर्शनम अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे ॥ 11 ॥

  12. ताव अब्रवीद ऋषिः करुद्धॊ यवक्रीर वध्यताम इति जग्मतुस तौ तथेत्य उक्त्वा यवक्रीत जिघांसया ॥ 12 ॥

  13. ततस तं समुपास्थाय कृत्या सृष्टा महात्मना कमण्डलुं जहारास्य मॊहयित्वा तु भारत ॥ 13 ॥

  14. उच्चिष्टं तु यवक्रीतम अपकृष्ट कमण्डलुम तत उद्यतशूलः स राक्षसः समुपाद्रवत ॥ 14 ॥

  15. तम आपतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया यवक्रीः सहसॊत्थाय पराद्रवद येन वै सरः ॥ 15 ॥

  16. जलहीनं सरॊ दृष्ट्वा यवक्रीस तवरितः पुनः जगाम सरितः सर्वास ताश चाप्य आसन विशॊषिताः ॥ 16 ॥

  17. स काल्यमानॊ घॊरेण शूलहस्तेन रक्षसा अग्निहॊत्रं पितुर भीतः सहसा समुपाद्रवत ॥ 17 ॥

  18. स वै परविशमानस तु शूद्रेणान्धेन रक्षिणा निगृहीतॊ बलाद दवारि सॊ ऽवातिष्ठत पार्थिव ॥ 18 ॥

  19. निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः ताडयाम आस शूलेन स भिन्नहृदयॊ ऽपतत ॥ 19 ॥

  20. यवक्रीतं स हत्वा तु राक्षसॊ रैभ्यम आगमत अनुज्ञातस तु रैभ्येण तया नार्या सहाचरत ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 138

Previous: अध्याय 136