[यव] परतिभास्यन्ति वै वेदा मम तातस्य चॊभयॊः अति चान्यान भविष्यावॊ वरा लब्धास तथा मया ॥ 1 ॥
[भरद] दर्पस ते भविता तात वराँल लब्ध्वा यथेप्सितान स दर्पपूर्णः कृपणः कषिप्रम एव विनश्यसि ॥ 2 ॥
अत्राप्य उदाहरन्तीमा गाथा देवैर उदाहृताः ऋषिर आसीत पुरा पुत्र बालधिर नाम वीर्यवान ॥ 3 ॥
सपुत्रशॊकाद उद्विग्नस तपस तेपे सुदुश्चरम भवेन मम सुतॊ ऽमर्त्य इति तं लब्धवांश च सः ॥ 4 ॥
तस्य परसादॊ देवैश च कृतॊ न तव अमरैः समः नामर्त्यॊ विद्यते मर्त्यॊ निमित्तायुर भविष्यति ॥ 5 ॥
[ब] यथेमे पर्वताः शश्वत तिष्ठन्ति सुरसत्तमाः अक्षयास तन्निमित्तं मे सुतस्यायुर भवेद इति ॥ 6 ॥
तस्य पुत्रस तदा जज्ञे मेधावी करॊधनः सदा स तच छरुत्वाकरॊद दर्पम ऋषींश चैवावमन्यत ॥ 7 ॥
विकुर्वाणॊ मुनीनां तु चरमाणॊ महीम इमाम आससाद महावीर्यं धनुषाक्षं मनीषिणम ॥ 8 ॥
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान भव भस्मेति चॊक्तः स न भस्म समपद्यत ॥ 9 ॥
धनुषाक्षस तु तं दृष्ट्वा मेधाविनम अनामयम निमित्तम अस्य महिषैर भेदयाम आस वीर्यवान ॥ 10 ॥
स निमित्ते विनस्ते तु ममार सहसा शिशुः तं मृतं पुत्रम आदाय विललाप ततः पिता ॥ 11 ॥
लालप्यमानं तं दृष्ट्वा मुनयः पुनर आर्तवत ऊचुर वेदॊक्तया पूर्वं गाथया तन निबॊध मे ॥ 12 ॥
न दिष्टम अर्थम अत्येतुम ईशॊ मर्त्यः कथं चन महिषैर भेदयाम आस धनुषाक्षॊ महीधरान ॥ 13 ॥
एवं लब्ध्वा वरान बाला दर्पपूर्णास तरस्विनः कषिप्रम एव विनश्यन्ति यथा न सयात तथा भवान ॥ 14 ॥
एष रैभ्यॊ महावीर्यः पुत्रौ चास्य तथा विभौ तं यथा पुत्र नाभ्येषि तथा कुर्यास तव अतन्द्रितः ॥ 15 ॥
स हि करुद्धः समर्थस तवां पुत्र पीडयितुं रुषा वैद्यश चापि तपस्वी च कॊपनश च महान ऋषिः ॥ 16 ॥
[य] एवं करिष्ये मा तापं तात कार्षीः कथं चन यथा हि मे भवान मान्यस तथा रैभ्यः पिता मम ॥ 17 ॥
उक्त्वा स पितरं शलक्ष्णं यवक्रीर अकुतॊभयः विप्रकुर्वन्न ऋषीन अन्यान अतुष्यत परया मुदा ॥ 18 ॥
वनपर्व · Vana Parva
अध्याय 136
Reach this point to mark the section finished.
Continue to अध्याय 137