[लॊम] एषा मधुविला राजन समङ्गा संप्रकाशते एतत कर्दमिलं नाम भरतस्याभिसेचनम ॥ 1 ॥
अलक्ष्म्या किल संयुक्तॊ वृत्रंहत्वा शचीपतिः आप्लुतः सर्वपापेभ्यः समङ्गायां वयमुच्यत ॥ 2 ॥
एतद विनशनं कुक्षौ मैनाकस्य नरर्षभ अदितिर यत्र पुत्रार्थं तदन्नम अपचत पुरा ॥ 3 ॥
एनं पर्वतराजानम आरुह्य पुरुसर्षभ अयशस्याम असंशब्द्याम अलक्ष्मीं वयपनॊत्स्यथ ॥ 4 ॥
एते कनखला राजन ऋषीणां दयिता नगाः एषा परकाशते गङ्गा युधिष्ठिर महानदी ॥ 5 ॥
सनत्कुमारॊ भगवान अत्र सिद्धिम अगात पराम आजमीधावगाह्यैनां सर्वपापैः परमॊक्ष्यसे ॥ 6 ॥
अपां हरदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश ॥ 7 ॥
आश्रमः सथूलशिरसॊ रमणीयः परकाशते अत्र मानं च कौन्तेय करॊधं चैव विवर्जय ॥ 8 ॥
एष रैभ्याश्रमः शरीमान पाण्डवेय परकाशते भारद्वाजॊ यत्र कविर यवक्रीतॊ वयनश्यत ॥ 9 ॥
कथं युक्तॊ ऽभवद ऋषिर भरद्वाजः परतापवान किमर्थं च यवक्रीत ऋषिपुत्रॊ वयनश्यत ॥ 10 ॥
एतत सर्वं यथावृत्तं शरॊतुम इच्छामि लॊमश कर्मभिर देवकल्पानां कीर्त्यमानैर भृशं रमे ॥ 11 ॥
भरद्वाजश च रैभ्यश च सखायौ संबभूवतुः ताव ऊषतुर इहात्यन्तं परीयमाणौ वनान्तरे ॥ 12 ॥
रैभ्यस्य तु सुताव आस्ताम अर्वावसु परावसू आसीद यवक्रीः पुत्रस तु भरद्वाजस्य भारत ॥ 13 ॥
रैभ्यॊ विद्वान सहापत्यस तपॊ वी चेतरॊ ऽभवत तयॊश चाप्य अतुला परीतिर बाल्यात परभृति भारत ॥ 14 ॥
यवक्रीः पितरं दृष्ट्वा तपॊ विनम असत्कृतम दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ ॥ 15 ॥
पर्यतप्यत तेजॊ वी मन्युनाभिपरिप्लुतः तपस तेपे ततॊ घॊरं वेद जञानाय पाण्डव ॥ 16 ॥
सुसमिद्धे महत्य अग्नौ शरीरम उपतापयन जनयाम आस संतापम इन्द्रस्य सुमहातपः ॥ 17 ॥
तत इन्द्रॊ यवक्रीतम उपगम्य युधिष्ठिर अब्रवीत कस्य हेतॊस तवम आस्थितस तप उत्तमम ॥ 18 ॥
दविजानाम अनधीता वै वेदाः सुरगरार्चित परतिभान्त्व इति तप्ये ऽहम इदं परमकं तपः ॥ 19 ॥
सवाध्यायार्थे समारम्भॊ ममायं पाकशासन तपसा जञातुम इच्छामि सर्वज्ञानानि कौशिक ॥ 20 ॥
कालेन महता वेदाः शक्या गुरु मुखाद विभॊ पराप्तुं तस्माद अयं यत्नः परमॊ मे समास्थितः ॥ 21 ॥
अमार्ग एष विप्रर्षे येन तवं यातुम इच्छसि किं विघातेन ते विप्र गच्छाधीहि गुरॊर मुखात ॥ 22 ॥
एवम उक्त्वा गतः शक्रॊ यवक्रीर अपि भारत भूय एवाकरॊद यत्नं तपस्य अमितविक्रम ॥ 23 ॥
घॊरेण तपसा राजंस तप्यमानॊ महातपः संतापयाम आस भृशं देवेन्द्रम इति नः शरुतम ॥ 24 ॥
तं तथा तप्यमानं तु तपस तीव्रं महामुनिम उपेत्य बलभिद देवॊ वारयाम आस वै पुनः ॥ 25 ॥
अशक्यॊ ऽरथः समारब्धॊ नैतद बुद्धिकृतं तव परतिभास्यन्ति वै वेदास तव चैव पितुर च ते ॥ 26 ॥
न चैतद एवं करियते देवराजममेप्सितम महता नियमेनाहं तप्स्ये घॊरतरं तपः ॥ 27 ॥
समिद्धे ऽगनाव उपकृत्याङ्गम अङ्गं; हॊष्यामि वा मघवंस तन निबॊध यद्य एतद एवं न करॊषि कामं; ममेप्सितं देवराजेह सर्वम ॥ 28 ॥
निश्चयं तम अभिज्ञाय मुनेस तस्य महात्मनः परतिवारण हेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान ॥ 29 ॥
तत इन्द्रॊ ऽकरॊद रूपं बराह्मणस्य तपॊ विनः अनेकशतवर्षस्य दुर्बलस्य स यक्ष्मणः ॥ 30 ॥
यवक्रीतस्य यत तीर्थम उचितं शौचकर्मणि भागीरथ्यां तत्र सेतुं वालुकाभिश च चारसः ॥ 31 ॥
यदास्य वदतॊ वाक्यं न सचक्रे दविजॊत्तमः वालुकाभिस ततः शक्रॊ गङ्गां समभिपूरयन ॥ 32 ॥
वालुका मुष्टिम अनिशं भागीरथ्यां वयसर्जयत सेतुम अभ्यारभच छक्रॊ यवक्रीतं निदर्शयन ॥ 33 ॥
तं ददर्श यवक्रीस तु यत्नवन्तं निबन्धने परहसंश चाब्रवीद वाक्यम इदं स मुनिपुंगवः ॥ 34 ॥
किम इदं वर्तते बरह्मन किं च ते ह चिकीर्षितम अतीव हि महान यत्नः करियते ऽयं निरर्थकः ॥ 35 ॥
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति कलिश्यते हि जनस तात तरमाणः पुनः पुनः ॥ 36 ॥
नायं शक्यस तवया बद्धुं महान ओघः कथं चन अशक्याद विनिवर्तस्व शक्यम अर्थं समारभ ॥ 37 ॥
यथैव भवता चेदं तपॊ वेदार्थम उद्यतम अशक्यं तद्वद अस्माभिर अयं भारः समुद्यतः ॥ 38 ॥
यथा तव निरर्थॊ ऽयम आरम्भस तरिदशेश्वर तथा यदि ममापीदं मन्यसे पाकशासन ॥ 39 ॥
करियतां यद भवेच छक्यं मया सुरगणेश्वर वरांश च मे परयच्छान्यान यैर अन्यान भवितास्म्य अति ॥ 40 ॥
तस्मै परादाद वरान इन्द्र उक्तवान यान महातपः परतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः ॥ 41 ॥
यच चान्यत काङ्क्षसे कामं यवक्रीर गम्यताम इति स लब्धकामः पितरम उपेत्याथ ततॊ ऽबरवीत ॥ 42 ॥
वनपर्व · Vana Parva
अध्याय 135
Reach this point to mark the section finished.
Continue to अध्याय 136