[अस्त] अत्रॊग्रसेनसमितेषु राजन; समागतेष्व अप्रतिमेषु राजसु न वै विवित्सान्तरम अस्ति वादिनां; महाजले हंसनिनादिनाम इव ॥ 1 ॥
न मे ऽदय वक्ष्यस्य अति वादिमानिन; गलहं पर पन्नः सरिताम इवागमः हुताशनस्येव समिद्ध तेजसः; सथिरॊ भवस्वेह ममाद्य बन्दिन ॥ 2 ॥
वयाघ्रं शयानं परति मा परबॊधय; आशीविषं सृक्किणी लेलिहानम पदाहतस्येव शिरॊ ऽभिहत्य; नादष्टॊ वै मॊक्ष्यसे तन निबॊध ॥ 3 ॥
यॊ वै दर्पात संहननॊपपन्नः; सुदुर्बलः पर्वतम आविहन्ति तस्यैव पाणिः सनखॊ विशीर्यते; न चैव शैलस्य हि दृश्यते वरणः ॥ 4 ॥
सर्वे राज्ञॊ मैथिलस्य मैनाकस्येव पर्वताः निकृष्ट भूता राजानॊ वत्सा अनदुहॊ यथा ॥ 5 ॥
अस्तावक्रः समितौ गर्जमानॊ; जातक्रॊधॊ बन्दिनम आह राजन उक्ते वाक्ये चॊत्तरं मे बरवीहि; वाक्यस्य चाप्य उत्तरं ते बरवीमि ॥ 6 ॥
एक एवाग्निर बहुधा समिध्यते; एकः सूर्यः सर्वम इदं परभाषते एकॊ वीरॊ देवराजॊ निहन्ता; यमः पितॄणाम ईश्वरश चैक एव ॥ 7 ॥
दवाव इन्द्राग्नी चरतॊ वै सखायौ; दवौ देवर्षी नारदः पर्वतश च दवाव अश्विनौ दवे च रथस्य चक्रे; भार्या पती दवौ विहितौ विधात्रा ॥ 8 ॥
तरिः सूयते कर्मणा वै परजेयं; तरयॊ युक्ता वाजपेयं वहन्ति अध्वर्यवस तरिसवनानि तन्वते; तरयॊ लॊकास तरीणि जयॊतींसि चाहुः ॥ 9 ॥
चतुष्टयं बराह्मणानां निकेतं; चत्वारॊ युक्ता यज्ञम इमं वहन्ति दिशश चतस्रश चतुरश च वर्णाश; चतुस्पदा गौर अपि शश्वद उक्ता ॥ 10 ॥
पञ्चाग्नयः पञ्च पदा च पङ्क्तिर; यज्ञाः पञ्चैवाप्य अथ पञ्चेन्द्रियाणि दृष्टा वेदे पञ्च चूदाश च पञ्च; लॊके खयातं पञ्चनदं च पुण्यम ॥ 11 ॥
षडाधाने दक्षिणाम आहुर एके; षड एवेमे ऋतवः कालचक्रम षड इन्द्रियाण्य उत षट कृत्तिकाश च; षट साद्यस्काः सर्ववेदेषु दुष्टाः ॥ 12 ॥
सप्त गराम्याः पशवः सप्त वन्याः; सप्त छन्दांसि करतुम एकं वहन्ति सप्तर्षयः सप्त चाप्य अर्हणानि; सप्त तन्त्री परथिता चैव वीना ॥ 13 ॥
अष्टौ शाणाः शतमानं वहन्ति; तथाष्ट पादः शरभः सिंहघाती अष्टौ वसूञ शुश्रुम देवतासु; यूपश चाष्टास्रिर विहितः सर्वयज्ञः ॥ 14 ॥
नवैवॊक्ताः सामिधेन्यः पितॄणां; तथा पराहुर नव यॊगं विषर्गम नवाक्षरा बृहती संप्रदिष्टा; नव यॊगॊ गणनामेति शश्वत ॥ 15 ॥
दशा दशॊक्ताः पुरुषस्य लॊके; सहस्रम आहुर दश पूर्णं शतानि दशैव मासान बिभ्रति गर्भवत्यॊ; दशेरका दश दाशा दशार्णाः ॥ 16 ॥
एकादशैकादशिनः पशूनाम; एकादशैवात्र भवन्ति यूपाः एकादश पराणभृतां विकारा; एकादशॊक्ता दिवि देवेषु रुद्राः ॥ 17 ॥
संवत्सरं दवादश मासम आहुर; जगत्याः पादॊ दवादशैवाक्षराणि दवादशाहः पराकृतॊ यज्ञ उक्तॊ; दवादशादित्यान कथयन्तीह विप्राः ॥ 18 ॥
तरयॊदशी तिथिर उक्ता महॊग्रा; तरयॊदशद्वीपवती मही च ॥ 19 ॥
एतावद उक्त्वा विरराम बन्दी; शलॊकस्यार्धं वयाजहाराष्टवक्रः तरयॊदशाहानि ससार केशी; तरयॊदशादीन्य अतिच्छन्दांसि चाहुः ॥ 20 ॥
ततॊ महान उदतिष्ठन निनादस; तूष्णींभूतं सूतपुत्रं निशम्य अधॊमुखं धयानपरं तदानीम; अस्तावक्रं चाप्य उदीर्यन्तम एव ॥ 21 ॥
तस्मिंस तथा संकुले वर्तमाने; सफीते यज्ञे जनकस्याथ राज्ञः अस्तावक्रं पूजयन्तॊ ऽभयुपेयुर; विप्राः सर्वे पराञ्जलयः परतीताः ॥ 22 ॥
अनेन वै बराह्मणाः शुश्रुवांसॊ; वादे जित्वा सलिले मज्जिताः किल तान एव धर्मान अयम अद्य बन्दी; पराप्नॊतु गृह्याप्सु निमज्जयैनम ॥ 23 ॥
अहं पुत्रॊ वरुणस्यॊत राज्ञस; तत्रास सत्रं दवादश वार्षिकं वै सत्रेण ते जनक तुल्यकालं; तदर्थं ते परहिता मे दविजाग्र्याः ॥ 24 ॥
एते सर्वे वरुणस्यॊत यज्ञं; दरष्टुं गता इह आयान्ति भूयः अस्तावक्रं पूजये पूजनीयं; यस्य हेतॊर जनितारं समेष्ये ॥ 25 ॥
विप्राः समुद्राम्भसि मज्जितास ते; वाचा जिता मेधया आविदानाः तां मेधया वाचम अथॊज्जहार; यथा वाचम अवचिन्वन्ति सन्तः ॥ 26 ॥
अग्निर दहञ जातवेदाः सतां गृहान; विसर्जयंस तेजसा न सम धाक्षीत बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचम अवचिन्वन्ति सन्तः ॥ 27 ॥
शलेष्मातकी कषीणवर्चः शृणॊषि; उताहॊ तवां सतुतयॊ मादयन्ति हस्तीव तवं जनक वितुद्यमानॊ; न मामिकां वाचम इमां शृणॊषि ॥ 28 ॥
शृणॊमि वाचं तव दिव्यरूपाम; अमानुषीं दिव्यरूपॊ ऽसि साक्षात अजैसीर यद बन्दिनं तवं विवादे; निसृष्टैव तव कामॊ ऽदय बन्दी ॥ 29 ॥
नानेन जीवता कश चिद अर्थॊ मे बन्दिना नृप पिता यद्य अस्य वरुणॊ मज्जयैनं जलाशये ॥ 30 ॥
अहं पुत्रॊ वरुणस्यॊत राज्ञॊ; न मे भयं सलिले मज्जितस्य इमं मुहूर्तं पितरं दरक्ष्यते ऽयम; अष्टावक्रश चिरनष्टं कहॊडम ॥ 31 ॥
ततस ते पूजिता विप्रा वरुणेन महात्मना उदतिष्ठन्त ते सर्वे जनकस्य समीपतः ॥ 32 ॥
इत्य अर्थम इच्छन्ति सुताञ जना जनक कर्मणा यद अहं नाशकं कर्तुं तत पुत्रः कृतवान मम ॥ 33 ॥
उताबलस्य बलवान उत बालस्य पण्डितः उत वाविदुसॊ विद्वान पुत्रॊ जनक जायते ॥ 34 ॥
शितेन ते परशुना सवयम एवान्तकॊ नृप शिरांस्य अपाहरत्व आजौ रिपूणां भद्रम अस्तु ते ॥ 35 ॥
महद उक्थ्यं गीयते साम चाग्र्यं; सम्यक सॊमः पीयते चात्र सत्रे शुचीन भागान परतिजगृहुश च हृष्टाः; साक्षाद देवा जनकस्येह यज्ञे ॥ 36 ॥
समुत्थितेष्व अथ सर्वेषु राजन; विप्रेषु तेष्व अधिकं सुप्रभेषु अनुज्ञातॊ जनकेनाथ राज्ञा; विवेश तॊयं सागरस्यॊत बन्दी ॥ 37 ॥
अस्तावक्रः पितरं पूजयित्वा; संपूजितॊ बराह्मणैस तैर यथावत परत्याजगामाश्रमम एव चाग्र्यं; जित्वा बन्दिं सहितॊ मातुलेन ॥ 38 ॥
अत्र कौन्तेय सहितॊ भरातृभिस तवं; सुखॊषितः सह विप्रैः परतीतः पुण्यान्य अन्यानि शुचि कर्मैक भक्तिर; मया सार्धं चरितास्य आजमीध ॥ 39 ॥
वनपर्व · Vana Parva
अध्याय 134
Reach this point to mark the section finished.
Continue to अध्याय 135