[ल] इह मर्त्यास तपस तप्त्वा सवर्गं गच्छन्ति भारत मर्तुकामा नरा राजन्न इहायान्ति सहस्रशः ॥ 1 ॥
एवम आशीः परयुक्ता हि दक्षेण यजता पुरा इह ये वै मरिष्यन्ति ते वै सवर्गजितॊ नराः ॥ 2 ॥
एषा सरॊ वती पुण्या दिव्या चॊघवती नदी एतद विनशनं नाम सरॊ वत्या विशां पते ॥ 3 ॥
दवारं निषादराष्ट्रस्य येषां दवेषात सरॊ वती परविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ॥ 4 ॥
एष वै चमसॊद्भेदॊ यत्र दृश्या सरॊ वती यत्रैनाम अभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥ 5 ॥
एतत सिन्धॊर महत तीर्थं यत्रागस्त्यम अरिंदम लॊपामुद्रा समागम्य भर्तारम अवृणीत वै ॥ 6 ॥
एतत परभासते तीर्थं परभासं भाः करद्युते इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम ॥ 7 ॥
एतद विष्णुपदं नाम दृश्यते तीर्थम उत्तमम एषा रम्या विपाशा च नदी परमपावनी ॥ 8 ॥
अत्रैव पुत्रशॊकेन वसिष्ठॊ भगवान ऋषिः बद्ध्वात्मानं निपतितॊ विपाशः पुनर उत्थितः ॥ 9 ॥
काश्मील मण्डलं चैतत सर्वपुण्यम अरिंदम महर्षिभिश चाध्युषितं पश्येदं भरातृभिः सह ॥ 10 ॥
अत्रॊत्तराणां सर्वेषाम ऋषीणां नाहुषस्य च अग्नेश चात्रैव संवादः काश्यपस्य च भारत ॥ 11 ॥
एतद दवारं महाराज मानसस्य परकाशते वर्षम अस्य गिरेर मध्ये रामेण शरीमता कृतम ॥ 12 ॥
एष वातिक षण्डॊ वै परख्यातः सत्यविक्रमः नाभ्यवर्तत यद दवारं विदेहान उत्तरं च यः ॥ 13 ॥
एष उज्जानकॊ नाम यवक्रीर यत्र शान्तवान अरुन्धती सहायश च वसिष्ठॊ भगवान ऋषिः ॥ 14 ॥
हरदश च कुशवान एष यत्र पद्मं कुशे शयम आश्रमश चैव रुक्मिण्या यत्राशाम्यद अकॊपना ॥ 15 ॥
समाधीनां समासस तु पाण्डवेय शरुतस तवया तं दरक्ष्यसि महाराज भृगुतुङ्गं महागिरिम ॥ 16 ॥
जलां चॊपजलां चैव यमुनाम अभितॊ नदीम उशीनरॊ वै यत्रेष्ट्वा वासवाद अत्यरिच्यत ॥ 17 ॥
तां देवसमितिं तस्य वासवश च विशां पते अभ्यगच्छत राजानं जञातुम अग्निश च भारत ॥ 18 ॥
जिज्ञासमानौ वरदौ महात्मानम उशीनरम इन्द्रः शयेनः कपॊतॊ ऽगनिर भूत्वा यज्ञे ऽभिजग्मतुः ॥ 19 ॥
ऊरुं राज्ञः समासाद्य कपॊतः शयेनजाद भयात शरणार्थी तदा राजन निलिल्ये भयपीडितः ॥ 20 ॥
वनपर्व · Vana Parva
अध्याय 130
Reach this point to mark the section finished.
Continue to अध्याय 131