[ल] अस्मिन किल सवयं राजन्न इष्टवान वै परजापतिः सत्रम इष्टी कृतं नाम पुरा वर्षसहस्रिकम ॥ 1 ॥
अम्बरीसश च नाभाग इष्टवान यमुनाम अनु यज्ञैश च तपसा चैव परां सिद्धिम अवाप सः ॥ 2 ॥
देशॊ नाहुष यज्ञानाम अयं पुण्यतमॊ नृप यत्रेष्ट्वा दशपद्मानि सदस्येभ्यॊ निसृष्टवान ॥ 3 ॥
सार्वभौमस्य कौन्तेय ययातेर अमितौजसः सपर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्व इह ॥ 4 ॥
पश्य नानाविधाकारैर अग्निभिर निचितां महीम मज्जन्तीम इव चाक्रान्तां ययातेर यज्ञकर्मभिः ॥ 5 ॥
एषा शम्य एकपत्रा सा शरकं चैतद उत्तमम पश्य रामह्रदान एतान पश्य नारायणाश्रयम ॥ 6 ॥
एतद आर्चीक पुत्रस्य यॊगैर विचरतॊ महीम अपसर्पणं महीपाल रौप्यायाम अमितौजसः ॥ 7 ॥
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन उलूखलैर आभरणैः पिशाची यद अभाषत ॥ 8 ॥
युगं धरे दधि पराश्य उषित्वा चाच्युतस्थले तद्वद भूतिलये सनात्वा सपुत्रा वस्तुम इच्छसि ॥ 9 ॥
एकरात्रम उषित्वेह दवितीयं यदि वत्स्यसि एतद वै ते दिवा वृत्तं रात्रौ वृत्तम अतॊ ऽनयथा ॥ 10 ॥
अत्राद्याहॊ निवत्स्यामः कषपां भरतसत्तम दवारम एतद धि कौन्तेय कुरुक्षेत्रस्य भारत ॥ 11 ॥
अत्रैव नाहुषॊ राजा राजन करतुभिर इष्टवान ययातिर बहुरत्नाढ्यैर यत्रेन्द्रॊ मुदम अभ्यगात ॥ 12 ॥
एतत पलक्षावतरणं यमुनातीर्थम उच्यते एतद वै नाकपृष्ठस्य दवारम आहुर मनीषिणः ॥ 13 ॥
अत्र सारस्वतैर यज्ञैर ईजानाः परमर्षयः यूपॊलुखलिनस तात गच्छन्त्य अवभृथा पलवम ॥ 14 ॥
अत्रैव भरतॊ राजा मेध्यम अश्वम अवासृजत असकृत कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम ॥ 15 ॥
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रम उत्तमम आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः ॥ 16 ॥
अत्रॊपस्पृश्य राजेन्द्र सर्वाँल लॊकान परपश्यति पूयते दुष्कृताच चैव समुपस्पृश्य भारत ॥ 17 ॥
[व] तत्र सभ्रातृकः सनात्वा सतूयमानॊ महर्षिभिः लॊमशं पाण्डवश्रेष्ठ इदं वचनम अब्रवीत ॥ 18 ॥
सर्वाँल लॊकान परपश्यामि तपसा सत्यविक्रम इह सथाः पाण्डवश्रेष्ठं पश्यामि शवेतवाहनम ॥ 19 ॥
[ल] एवम एतन महाबाहॊ पश्यन्ति परमर्षयः सरॊ वतीम इमां पुण्यां पश्यैक शरणावृताम ॥ 20 ॥
यत्र सनात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति इह सारस्वतैर यज्ञैर इष्टवन्तः सुरर्षयः ऋषयश चैव कौन्तेय तथा राजर्षयॊ ऽपि च ॥ 21 ॥
वेदी परजापतेर एषा समन्तात पञ्चयॊजना कुरॊर वै यज्ञशीलस्य कषेत्रम एतन महात्मनः ॥ 22 ॥
वनपर्व · Vana Parva
अध्याय 129
Reach this point to mark the section finished.
Continue to अध्याय 130