धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 131

  1. [षयेन] धर्मात्मानं तव आहुर एकं सर्वे राजन महीक्षितः स वै धर्मविरुद्धं तवं कस्मात कर्म चिकीर्षसि ॥ 1 ॥

  2. विहितं भक्षणं राजन पीड्यमानस्य मे कषुधा मा भाङ्क्षीर धर्मलॊभेन धर्मम उत्सृष्टवान असि ॥ 2 ॥

  3. [राजन] संत्रस्तरूपस तराणार्थी तवत्तॊ भीतॊ महाद्विज मत्सकाशम अनुप्राप्तः पराणगृध्नुर अयं दविजः ॥ 3 ॥

  4. एवम अभ्यागतस्येह कपॊतस्याभयार्थिनः अप्रदाने परॊ ऽधर्मः किं तवं शयेनप्रपश्यसि ॥ 4 ॥

  5. परस्पन्दमानः संभ्रान्तः कपॊतः शयेनलक्ष्यते मत्सकाशं जीवितार्थी तस्य तयागॊ विगर्हितः ॥ 5 ॥

  6. [ष] आहारात सर्वभूतानि संभवन्ति महीपते आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥ 6 ॥

  7. शक्यते दुस तयजे ऽपय अर्थे चिररात्राय जीवितुम न तु भॊजनम उत्सृज्य शक्यं वर्तयितुं चिरम ॥ 7 ॥

  8. भक्ष्याद विलॊपितस्याद्य मम पराणा विशां पते विसृज्य कायम एष्यन्ति पन्थानम अपुनर्भवम ॥ 8 ॥

  9. परमृते मयि धर्मात्मन पुत्रदारं नशिष्यति रक्षमाणः कपॊतं तवं बहून पराणान नशिष्यसि ॥ 9 ॥

  10. धर्मं यॊ बाधते धर्मॊ न स धर्मः कुधर्म तत अविरॊधी तु यॊ धर्मः स धर्मः सत्यविक्रम ॥ 10 ॥

  11. विरॊधिषु महीपाल निश्चित्य गुरुलाघवम न बाधा विद्यते यत्र तं धर्मं समुदाचरेत ॥ 11 ॥

  12. गुरुलाघवम आज्ञाय धर्माधर्मविनिश्चये यतॊ भूयांस ततॊ राजन कुरु धर्मविनिश्चयम ॥ 12 ॥

  13. [र] बहुकल्याण संयुक्तं भाषसे विहगॊत्तम सुपर्णः पक्षिराट किं तवं धर्मज्ञश चास्य असंशयम तथा हि धर्मसंयुक्तं बहु चित्रं परभाषसे ॥ 13 ॥

  14. न ते ऽसत्य अविदितं किं चिद इति तवा लक्षयाम्य अहम शरणैषिणः परित्यागं कथं साध्व इति मन्यसे ॥ 14 ॥

  15. आहारार्थं समारम्भस तव चायं विहंगम शक्यश चाप्य अन्यथा कर्तुम आहारॊ ऽपय अधिकस तवया ॥ 15 ॥

  16. गॊवृषॊ वा वराहॊ वा मृगॊ वा महिषॊ ऽपि वा तवदर्थम अद्य करियतां यद वान्यद अभिकाङ्क्षसे ॥ 16 ॥

  17. [ष] न वराहं न चॊक्षाणं न मृगान विविधांस तथा भक्षयामि महाराज किम अन्नाद्येन तेन मे ॥ 17 ॥

  18. यस तु मे दैवविहितॊ भक्षः कषत्रिय पुंगव तम उत्सृज महीपाल कपॊतम इमम एव मे ॥ 18 ॥

  19. शयेनाः कपॊतान खादन्ति सथितिर एषा सनातनी मा राजन मार्गम आज्ञाय कदली सकन्धम आरुह ॥ 19 ॥

  20. [र] राज्यं शिबीनाम ऋद्धं वै शाधि पक्षिगणार्चित यद वा कामयसे किं चिच छयेन सर्वं ददानि ते विनेमं पक्षिणं शयेनशरणार्थिनम आगतम ॥ 20 ॥

  21. येनेमं वर्जयेथास तवं कर्मणा पक्षिसत्तम तद आचक्ष्व करिष्यामि न हि दास्ये कपॊतकम ॥ 21 ॥

  22. [ष] उशीनर कपॊते ते यदि सनेहॊ नराधिप आत्मनॊ मांसम उत्कृत्य कपॊत तुलया धृतम ॥ 22 ॥

  23. यदा समं कपॊतेन तव मांसं भवेन नृप तदा परदेयं तन मह्यं सा मे तुष्टिर भविष्यति ॥ 23 ॥

  24. [र] अनुग्रहम इमं मन्ये शयेनयन माभियाचसे तस्मात ते ऽदय परदास्यामि सवमांसं तुलया धृतम ॥ 24 ॥

  25. [ल] अथॊत्कृत्य सवमांसं तु राजा परमधर्मवित तुलयाम आस कौन्तेय कपॊतेन सहाभिभॊ ॥ 25 ॥

  26. धरियमाणस तु तुलया कपॊतॊ वयतिरिच्यते पुनश चॊत्कृत्य मांसानि राजा परादाद उशीनरः ॥ 26 ॥

  27. न विद्यते यदा मांसं कपॊतेन समं धृतम तत उत्कृत्त मांसॊ ऽसाव आरुरॊह सवयं तुलाम ॥ 27 ॥

  28. [ष] इन्द्रॊ ऽहम अस्मि धर्मज्ञ कपॊतॊ हव्यवाड अयम जिज्ञासमानौ धर्मे तवां यज्ञवाटम उपागतौ ॥ 28 ॥

  29. यत ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते एषा ते भास्वरी कीर्तिर लॊकान अभिभविष्यति ॥ 29 ॥

  30. यावल लॊके मनुष्यास तवां कथयिष्यन्ति पार्थिव तावत कीर्तिश च लॊकाश च सथास्यन्ति तव शाश्वताः ॥ 30 ॥

  31. [ल] तत पाण्डवेय सदनं राज्ञस तस्य महात्मनः पश्यस्वैतन मया सार्धं पुण्यं पापप्रमॊचनम ॥ 31 ॥

  32. अत्र वै सततं देवा मुनयश च सनातनाः दृश्यन्ते बराह्मणै राजन पुण्यवद्भिर महात्मभिः ॥ 32 ॥

Reach this point to mark the section finished.

Continue to अध्याय 132

Previous: अध्याय 130