[धृ] किर्मीरस्य वधं कषत्तः शरॊतुम इच्छामि कथ्यताम रक्षसा भीमसेनस्य कथम आसीत समागमः ॥ 1 ॥
[वि] शृणु भीमस्य कर्मेदम अतिमानुष कर्मणः शरुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः ॥ 2 ॥
इतः परयाता राजेन्द्र पाण्डवा दयूतनिर्जिताः जग्मुस तरिभिर अहॊरात्रैः काम्यकं नाम तद वनम ॥ 3 ॥
रात्रौ निशीथे सवाभीले गते ऽरथसमये नृप परचारे पुरुषादानां रक्षसां भीमकर्मणाम ॥ 4 ॥
तद वनं तापसा नित्यं शेषाश च वनचारिणः दूरात परिहरन्ति सम पुरुषाद अभयात किल ॥ 5 ॥
तेषां परविशतां तत्र मार्गम आवृत्य भारत दीप्ताक्षं भीषणं रक्षः सॊल्मुकं परत्यदृश्यत ॥ 6 ॥
बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम सथितम आवृत्य पन्थानं येन यान्ति कुरूद्वहाः ॥ 7 ॥
दष्टौष्ठ दंष्ट्रं ताम्राक्षं परदीप्तॊर्ध्व शिरॊरुहम सार्करश्मितडिच चक्रं सबलाकम इवाम्बुदम ॥ 8 ॥
सृजन्तं राक्षसीं मायां महाराव विराविणम मुञ्चन्तं विपुलं नादं सतॊयम इव तॊयदम ॥ 9 ॥
तस्य नादेन संत्रस्ताः पक्षिणः सर्वतॊदिशम विमुक्तनादाः संपेतुः सथलजा जलजैः सह ॥ 10 ॥
संप्रद्रुत मृगद्वीपिमहिषर्क्ष समाकुलम तद वनं तस्य नादेन संप्रस्थितम इवाभवत ॥ 11 ॥
तस्यॊरुवाताभिहता ताम्रपल्लव बाहवः विदूर जाताश च लताः समाल्शिष्यन्त पादपान ॥ 12 ॥
तस्मिन कषणे ऽथ परववौ मारुतॊ भृशदारुणः रजसा संवृतं तेन नष्टर्ष्कम अभवन नभः ॥ 13 ॥
पञ्चानां पाण्डुपुत्राणाम अविज्ञातॊ महारिपुः पञ्चानाम इन्द्रियाणां तु शॊकवेग इवातुलः ॥ 14 ॥
स दृष्ट्वा पाण्डवान दूरात कृष्णाजिनसमावृतान आवृणॊत तद वनद्वारं मैनाक इव पर्वतः ॥ 15 ॥
तं समासाद्य वित्रस्ता कृष्णा कमललॊचना अदृष्टपूर्वं संत्रासान नयमीलयत लॊचने ॥ 16 ॥
दुःशासन करॊत्सृष्टविप्रकीर्णशिरॊरुहा पञ्च पर्वतमध्यस्था नदीवाकुलतां गता ॥ 17 ॥
मॊमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः इन्द्रियाणि परसक्तानि विषयेषु यथा रतिम ॥ 18 ॥
अथ तां राक्षसीं मायाम उत्थितां घॊरदर्शनाम रक्षॊघ्नैर विविधैर मन्त्रैर धौम्यः सम्यक परयॊजितैः पश्यतां पाण्डुपुत्राणां नाशयाम आस वीर्यवान ॥ 19 ॥
स नष्टमायॊ ऽतिबलः करॊधविस्फारितेक्षणः काममूर्ति धरः कषुद्रः कालकल्पॊ वयदृश्यत ॥ 20 ॥
तम उवाच ततॊ राजा दीर्घप्रज्ञॊ युधिष्ठिरः कॊ भवान कस्य वा किं ते करियतां कार्यम उच्यताम ॥ 21 ॥
परत्युवाचाथ तद रक्षॊ धर्मराजं युधिष्ठिरम अहं बकस्य वै भराता किर्मीर इति विश्रुतः ॥ 22 ॥
वने ऽसमिन काम्यके शून्ये निवसामि गतज्वरः युधि निर्जित्य पुरुषान आहारं नित्यम आचरन ॥ 23 ॥
के यूयम इह संप्राप्ता भक्ष्यभूता ममान्तिकम युधि निर्जित्य वः सर्वान भक्षयिष्ये गतज्वरः ॥ 24 ॥
युधिष्ठिरस तु तच छरुत्वा वचस तस्य दुरात्मनः आचचक्षे ततः सर्वं गॊत्र नामादि भारत ॥ 25 ॥
पाण्डवॊ धर्मराजॊ ऽहं यदि ते शरॊत्रम आगतः सहितॊ भरातृभिः सर्वैर भीमसेनार्जुनादिभिः ॥ 26 ॥
हृतराज्यॊ वनेवासं वस्तुं कृतम इतस ततः वनम अभ्यागतॊ घॊरम इदं तव परिग्रहम ॥ 27 ॥
किर्मीरस तव अब्रवीद एनं दिष्ट्या देवैर इदं मम उपपादितम अद्येह चिरकालान मनॊगतम ॥ 28 ॥
भीमसेनवधार्थं हि नित्यम अभ्युद्यतायुधः चरामि पृथिवीं कृत्स्नां नैनम आसादयाम्य अहम ॥ 29 ॥
सॊ ऽयम आसादितॊ दिष्ट्या भरातृहा काङ्क्षितश चिरम अनेन हि मम भराता बकॊ विनिहतः परियः ॥ 30 ॥
वेत्रकीय गृहे राजन बराह्मणच छद्म रूपिणा विद्या बलम उपाश्रित्य न हय अस्त्य अस्यौरसं बलम ॥ 31 ॥
हिडिम्बश च सखा मह्यं दयितॊ वनगॊचरः हतॊ दुरात्मनानेन सवसा चास्य हृता पुरा ॥ 32 ॥
सॊ ऽयम अभ्यागतॊ मूढ ममेदं गहनं वनम परचार समये ऽसमाकम अर्धरात्रे समास्थिते ॥ 33 ॥
अद्यास्य यातयिष्याम तद वैरं चिरसंभृतम तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा ॥ 34 ॥
अध्याहम अनृणॊ भूत्वा भरातुः सख्युस तथैव च शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम ॥ 35 ॥
यदि तेन पुरा मुक्तॊ भीमसेनॊ बकेन वै अद्यैनं भक्षयिष्यामि पश्यतस ते युधिष्ठिर ॥ 36 ॥
एनं हि विपुलप्राणम अद्य हत्वा वृकॊदरम संभक्ष्य जरयिष्यामि यथागस्त्यॊ महासुरम ॥ 37 ॥
एवम उक्तस तु धर्मात्मा सत्यसंधॊ युधिष्ठिरः नैतद अस्तीति सक्रॊधॊ भर्त्सयाम आस राक्षसम ॥ 38 ॥
ततॊ भीमॊ महाबाहुर आरुज्य तरसा दरुम दशव्यामम इवॊद्विद्धं निष्पत्रम अकरॊत तदा ॥ 39 ॥
चकार सज्यं गाण्डीवं वज्रनिष्पेष गौरवम निमेषान्तरमात्रेण तथैव विजयॊ ऽरजुनः ॥ 40 ॥
निवार्य भीमॊ जिष्णुं तु तद रक्षॊ घॊरदर्शनम अभिद्रुत्याब्रवीद वाक्यं तिष्ठ तिष्ठेति भारत ॥ 41 ॥
इत्य उक्त्वैनम अभिक्रुद्धः कक्ष्याम उत्पीड्य पाण्डवः निष्पिष्य पाणिना पाणिं संदष्टौष्ठ पुटॊ बली तम अभ्यधावद वेगेन भीमॊ वृक्षायुधस तदा ॥ 42 ॥
यमदण्डप्रतीकाशं ततस तं तस्य मूर्धनि पातयाम आस वेगेन कुलिशं मघवान इव ॥ 43 ॥
असंभ्रान्तं तु तद रक्षः समरे परत्यदृश्यत चिक्षेप चॊल्मिकं दीप्तम अशनिं जवलिताम इव ॥ 44 ॥
तद उदस्तम अलातं तु भीमः परहरतां वरः पदा सव्येन चिक्षेप तद रक्षः पुनर आव्रजत ॥ 45 ॥
किर्मीरश चापि सहसा वृक्षम उत्पाट्य पाण्डवम दण्डपाणिर इव करुद्धः समरे परत्ययुध्यत ॥ 46 ॥
तद वृक्षयुद्धम अभवन महीरुह विनाशनम वालिसुग्रीवयॊर भरात्रॊर यथा शरीकाङ्क्षिणॊः पुरा ॥ 47 ॥
शीर्षयॊः पतिता वृक्षा बिभिदुर नैकधा तयॊः यथैवॊत्पल पद्मानि मत्तयॊर दविपयॊस तथा ॥ 48 ॥
मुञ्जवज जार्जरी भूता बहवस तत्र पादपाः चीराणीव वयुदस्तानि रेजुस तत्र महावने ॥ 49 ॥
तद वृक्षयुद्धम अभवत सुमुहूर्तं विशां पते राक्षसानां च मुख्यस्य नराणाम उत्तमस्य च ॥ 50 ॥
ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः पराहिणॊद राक्षसः करुद्धॊ भीमसेनश चचाल ह ॥ 51 ॥
तं शिला ताडनजडं पर्यधावत स राक्षसः बाहुविक्षिप्त किरणः सवर्भानुर इव भास्करम ॥ 52 ॥
ताव अन्यॊन्यं समाश्लिष्य परकर्षन्तौ परस्परम उभाव अपि चकाशेते परयुद्धौ वृषभाव इव ॥ 53 ॥
तयॊर आसीत सुतुमुलः संप्रहारः सुदारुणः नखदंष्ट्रायुधवतॊर वयाघ्रयॊर इव दृट्तयॊः ॥ 54 ॥
दुर्यॊधन निकाराच च बाहुवीर्याच च दर्पितः कृष्णा नयनदृष्टश च वयवर्धत वृकॊदरः ॥ 55 ॥
अभिपत्याथ बाहुभ्यां परत्यगृह्णाद अमर्षितः मातङ्ग इव मातङ्गं परभिन्नकरटा मुखः ॥ 56 ॥
तं चाप्य आथ ततॊ रक्षः परतिजग्राह वीर्यवान तम आक्षिपद भीमसेनॊ बलेन बलिनां वरः ॥ 57 ॥
तयॊर भुजविनिष्पेषाद उभयॊर वलिनॊस तदा शब्दः समभवद घॊरॊ वेणुस्फॊट समॊ युधि ॥ 58 ॥
अथैनम आक्षिप्य बलाद गृह्य मध्ये वृकॊदरः धूनयाम आस वेगेन वायुश चण्ड इव दरुमम ॥ 59 ॥
स भीमेन परामृष्टॊ दुर्बलॊ बलिना रणे वयस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम ॥ 60 ॥
तत एनं परिश्रान्तम उपलभ्य वृकॊदरः यॊक्त्रयाम आस बाहुभ्यां पशुं रशनया यथा ॥ 61 ॥
विनदन्तं महानादं भिन्नभेरी समस्वनम भरामयाम आस सुचिरं विस्फुरन्तम अचेतसम ॥ 62 ॥
तं विषीदन्तम आज्ञाय राक्षसं पाण्डुनन्दनः परगृह्य तरसा दॊर्भ्यां पशुमारम अमारयन ॥ 63 ॥
आक्रम्य स कटी देशे जानुना राक्षसाधमम अपीडयत बाहुब्भ्यां कण्ठं तस्य वृकॊदरः ॥ 64 ॥
अथ तं जड सर्वाङ्गं वयावृत्तनयनॊल्बणम भूतले पातयाम आस वाक्यं चेदम उवाच ह ॥ 65 ॥
हिडिम्बबकयॊः पापन तवम अश्रुप्रमार्जनम करिष्यसि गतश चासि यमस्य सदनं परति ॥ 66 ॥
इत्य एवम उक्त्वा पुरुषप्रवीरस; तं राक्षसं करॊधविवृत्त नेत्रः परस्रस्तवस्त्राभरणं सफुरन्तम; उद्ब्भ्रान्त चित्तं वयसुम उत्ससर्ज ॥ 67 ॥
तस्मिन हते तॊयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः भीमं परशस्याथ गुणैर अनेकैर; हृष्टास ततॊ दवैतवनाय जग्मुः ॥ 68 ॥
एवं विनिहतः संख्ये किर्मीरॊ मनुजाधिप भीमेन वचनाद अस्य धर्मराजस्य कौरव ॥ 69 ॥
ततॊ निष्कण्टकं कृत्वा वनं तद अपराजितः दरौपद्या सहधर्मज्ञॊ वसतिं ताम उवास ह ॥ 70 ॥
समाश्वास्य च ते सर्वे दरौपदीं भरतर्षभाः परहृष्टमनसः परीत्या परशशंसुर वृकॊदरम ॥ 71 ॥
भीम बाहुबलॊत्पिष्टे विनष्टे राक्षसे ततः विविशुस तद वनं वीराः कषेमं निहतकण्टकम ॥ 72 ॥
स मया गच्छता मार्गे विनिकीर्णॊ भयावहः वने महति दुष्टात्मा दृष्टॊ भीमबलाद धतः ॥ 73 ॥
तत्राश्रौषम अहं चैतत कर्म भीमस्य भारत बराह्मणानां कथयतां ये तत्रासन समागताः ॥ 74 ॥
एवं विनिहतं संख्ये किर्मीरं राक्षसॊत्तमम शरुत्वा धयानपरॊ राजा निशश्वासार्तवत तदा ॥ 75 ॥
वनपर्व · Vana Parva
अध्याय 12
Reach this point to mark the section finished.
Continue to अध्याय 13