[स] बरह्मन यद यद यथा कार्यं तत तत कुरु तथा तथा पुत्र कामतया सर्वं करिष्यामि वचस तव ॥ 1 ॥
[ल] ततः स याजयाम आस सॊमकं तेन जन्तुना मातरस तु बलात पुत्रम अपाकर्षुः कृपान्विताः ॥ 2 ॥
हाहताः समेति वाशन्त्यस तीव्रशॊकसमन्विताः तं मातरः परत्यकर्षन गृहीत्वा दक्षिणे करे सव्ये पाणौ गृहीत्वा तु याजकॊ ऽपि सम कर्षति ॥ 3 ॥
कुररीणाम इवार्तानाम अपाकृष्य तु तं सुतम विशस्य चैनं विधिना वपाम अस्य जुहाव सः ॥ 4 ॥
वपायां हूयमानायां गन्धम आघ्राय मातरः आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन सर्वाश च गर्भान अलभंस ततस ताः पार्थिवाङ्गनाः ॥ 5 ॥
ततॊ दशसु मासेषु सॊमकस्य विशां पते जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत ॥ 6 ॥
जन्तुर जयेष्ठः समभवञ जनित्र्याम एव भारत स तासाम इष्ट एवासीन न तथान्ये निजाः सुताः ॥ 7 ॥
तच च लक्षणम अस्यासीत सौवर्णं पार्श्व उत्तरे तस्मिन पुत्रशते चाग्र्यः स बभूव गुणैर युतः ॥ 8 ॥
ततः स लॊकम अगमत सॊमकस्य गुरुः परम अथ काले वयतीते तु सॊमकॊ ऽपय अगमत परम ॥ 9 ॥
अथ तं नरके घॊरे पच्यमानं ददर्श सः तम अपृच्छत किमर्थं तवं नरके पच्यसे दविज ॥ 10 ॥
तम अब्रवीद गुरुः सॊ ऽथ पच्यमानॊ ऽगनिना भृशम तवं मया याजितॊ राजंस तस्येदं कर्मणः फलम ॥ 11 ॥
एतच छरुत्वा स राजर्षिर धर्मराजानम अब्रवीत अहम अत्र परवेक्ष्यामि मुच्यतां मम याजकः मत्कृते हि महाभागः पच्यते नरकाग्निना ॥ 12 ॥
नान्यः कर्तुः फलं राजन्न उपभुङ्क्ते कदा चन इमानि तव दृश्यन्ते फलानि ददतां वर ॥ 13 ॥
[सॊमक] पुण्यान न कामये लॊकान ऋते ऽहं बरह्मवादिनम इच्छाम्य अहम अनेनैव सह वस्तुं सुरालये ॥ 14 ॥
नरके वा धर्मराज कर्मणास्य समॊ हय अहम पुण्यापुण्य फलं देवसमम अस्त्व आवयॊर इदम ॥ 15 ॥
[धर्म] यद्य एवम ईप्सितं राजन भुङ्क्ष्वास्य सहितः फलम तुल्यकालं सहानेन पश्चात पराप्स्यसि सद गतिम ॥ 16 ॥
[ल] स चकार तथा सर्वं राजा राजीवलॊचनः पुनश च लेभे लॊकान सवान कर्मणा निर्जिताञ शुभान सह तेनैव विप्रेण गुरुणा स गुरुप्रियः ॥ 17 ॥
एष तस्याश्रमः पुण्यॊ य एषॊ ऽगरे विराजते कषान्त उष्यात्र सॊ रात्रं पराप्नॊति सुगतिं नरः ॥ 18 ॥
एतस्मिन्न अपि राजेन्द्र वत्स्यामॊ विगतज्वराः सॊ रात्रं नियतात्मानः सज्जीभव कुरूद्वह ॥ 19 ॥
वनपर्व · Vana Parva
अध्याय 128
Reach this point to mark the section finished.
Continue to अध्याय 129