धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 127

  1. [य] कथंवीर्यः स राजाभूत सॊमकॊ वदतां वर कर्माण्य अस्य परभावं च शरॊतुम इच्छामि तत्त्वतः ॥ 1 ॥

  2. [ल] युधिष्ठिरासीन नृपतिः सॊमकॊ नाम धार्मिकः तस्य भार्या शतं राजन सदृशीनाम अभूत तदा ॥ 2 ॥

  3. स वै यत्नेन महता तासु पुत्रं महीपतिः कं चिन नासादयाम आस कालेन महता अपि ॥ 3 ॥

  4. कदा चित तस्य वृद्धस्य यतमानस्य यत्नतः जन्तुर नाम सुतस तस्मिन सत्री शते समजायत ॥ 4 ॥

  5. तं जातं मातरः सर्वाः परिवार्य समासते सततं पृष्ठतः कृत्वा कामभॊगान विशां पते ॥ 5 ॥

  6. ततः पिपीलिका जन्तुं कदा चिद अदशत सफिजि स दष्टॊ वयनदद राजंस तेन दुःखेन बालकः ॥ 6 ॥

  7. ततस ता मातरः सर्वाः पराक्रॊशन भृशदुःखिताः परिवार्य जन्तुं सहिताः स शब्दस तुमुलॊ ऽभवत ॥ 7 ॥

  8. तम आर्तनादं सहसा शुश्राव स महीपतिः अमात्यपरिषन मध्ये उपविष्टः सहर्त्विजैः ॥ 8 ॥

  9. ततः परस्थापयाम आस किम एतद इति पार्थिवः तस्मै कषत्ता यथावृत्तम आचचक्षे सुतं परति ॥ 9 ॥

  10. तवरमाणः स चॊत्थाय सॊमकः सह मन्त्रिभिः परविश्यान्तःपुरं पुत्रम आश्वासयद अरिंदम ॥ 10 ॥

  11. सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान नृपः ऋत्विजैः सहितॊ राजन सहामात्य उपाविशत ॥ 11 ॥

  12. [सॊमक] धिग अस्त्व इहैकपुत्र तवम अपुत्र तवं वरं भवेत नित्यातुर तवाद भूतानां शॊक एवैक पुत्र ता ॥ 12 ॥

  13. इदं भार्या शतं बरह्मन परीक्ष्यॊप चितं परभॊ पुत्रार्थिना मया वॊढं न चासां विद्यते परजा ॥ 13 ॥

  14. एकः कथं चिद उत्पन्नः पुत्रॊ जन्तुर अयं मम यतमानस्य सर्वासु किं नु दुःखम अतः परम ॥ 14 ॥

  15. वयश च समतीतं मे सभार्यस्य दविजॊत्तम आसां पराणाः समायत्ता मम चात्रैक पुत्रके ॥ 15 ॥

  16. सयान नु कर्म तथायुक्तं येन पुत्रशतं भवेत महता लघुना वापि कर्मणा दुष करेण वा ॥ 16 ॥

  17. [रत्विज] अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत यदि शक्नॊषि तत कर्तुम अथ वक्ष्यामि सॊमक ॥ 17 ॥

  18. [स] कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत कृतम एव हि तद विद्धि भगवान परब्रवीतु मे ॥ 18 ॥

  19. [रत्विज] यजस्व जन्तुना राजंस तवं मया वितते करतौ ततः पुत्रशतं शरीमद भविष्यत्य अचिरेण ते ॥ 19 ॥

  20. वपायां हूयमानायां धूमम आघ्राय मातरः ततस ताः सुमहावीर्याञ जनयिष्यन्ति ते सुतान ॥ 20 ॥

  21. तस्याम एव तु ते जन्तुर भविता पुनर आत्मजः उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 128

Previous: अध्याय 126