धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 126

  1. [य] मान्धाता राजशार्दूलस तरिषु लॊकेषु विश्रुतः कथं जातॊ महाब्रह्मन यौवनाश्वॊ नृपॊत्तमः कथं चैतां परां काष्ठां पराप्तवान अमितद्युतिः ॥ 1 ॥

  2. यस्य लॊकास तरयॊ वश्या विष्णॊर इव महात्मनः एतद इच्छाम्य अहं शरॊतुं चरितं तस्य धीमतः ॥ 2 ॥

  3. यथा मान्धातृशब्दश च तस्य शक्रसमद्युतेः जन्म चाप्रति वीर्यस्य कुशलॊ हय असि भाषितुम ॥ 3 ॥

  4. [ल] शृणुष्वावहितॊ राजन राज्ञस तस्य महात्मनः यथा मान्धातृशब्दॊ वै लॊकेषु परिगीयते ॥ 4 ॥

  5. इक्ष्वाकुवंशप्रभवॊ युवनाश्वॊ महीपतिः सॊ ऽयजत पृथिवीपाल ऋतुभिर भूरिदक्षिणैः ॥ 5 ॥

  6. अश्वमेध सहस्रं च पराप्य धर्मभृतां वरः अन्यैश च करतुभिर मुख्यैर विविधैर आप्तदक्षिणैः ॥ 6 ॥

  7. अनपत्यस तु राजर्षिः स महात्मा दृढव्रतः मन्त्रिष्व आधाय तद राज्यं वननित्यॊ बभूव ह ॥ 7 ॥

  8. शास्त्रदृष्टेन विधिना संयॊज्यात्मानम आत्मना पिपासा शुष्कहृदयः परविवेशाश्रमं भृगॊर ॥ 8 ॥

  9. ताम एव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः इष्टिं चकार सौद्युम्नेर महर्षिः पुत्रकारणात ॥ 9 ॥

  10. संभृतॊ मन्त्रपूतेन वारिणा कलशॊ महान तत्रातिष्ठत राजेन्द्र पूर्वम एव समाहितः यत पराश्य परसवेत तस्य पत्नी शक्रसमं सुतम ॥ 10 ॥

  11. तं नयस्य वेद्यां कलशं सुषुपुस ते महर्षयः रात्रिजागरण शरान्ताः सौद्युम्निः समतीत्य तान ॥ 11 ॥

  12. शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः तं परविश्याश्रणं शरान्तः पाणीयं सॊ ऽभययाचत ॥ 12 ॥

  13. तस्य शरान्तस्य शुष्केण कण्ठेन करॊशतस तदा नाश्रौषीत कश चन तदा शकुनेर इव वाशितम ॥ 13 ॥

  14. ततस तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः अभ्यद्रवत वेगेन पीत्वा चाम्भॊ वयवासृजत ॥ 14 ॥

  15. स पीत्वा शीतलं तॊयं पिपासार्थॊ महापतिः निर्वाणम अगमद धीमान सुसुखी चाभवत तदा ॥ 15 ॥

  16. ततस ते परत्यबुध्यन्त ऋषयः स नराधिपाः निष टॊयं तं च कलशं ददृशुः सर्व एव ते ॥ 16 ॥

  17. कस्य कर्मेदम इति च पर्यपृच्छन समागताः युवनाश्वॊ मयेत्य एव सत्यं समभिपद्यत ॥ 17 ॥

  18. न युक्तम इति तं पराह भगवान भार्गवस तदा सुतार्थं सथापिता हय आपस तपसा चैव संभृताः ॥ 18 ॥

  19. मया हय अत्राहितं बरह्म तप आस्थाय दारुणम पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥ 19 ॥

  20. महाबलॊ महावीर्यस तपॊबलसमन्वितः यः शक्रम अपि वीर्येण गमयेद यमसादनम ॥ 20 ॥

  21. अनेन विधिना राजन मयैतद उपपादितम अब्भक्षणं तवया राजन्न अयुक्तं कृतम अद्य वै ॥ 21 ॥

  22. न तव अद्य शक्यम अस्माभिर एतत कर्तुम अतॊ ऽनयथा नूनं दैवकृतं हय एतद यद एवं कृतवान असि ॥ 22 ॥

  23. पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः आपस तवया महाराज मत तपॊ वीर्यसंभृताः ताभ्यस तवम आत्मना पुत्रम एवं वीर्यं जनिष्यसि ॥ 23 ॥

  24. विधास्यामॊ वयं तत्र तवेष्टिं परमाद्भुताम यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान ॥ 24 ॥

  25. ततॊ वर्षशते पूर्णे तस्य राज्ञॊ महात्मनः वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः ॥ 25 ॥

  26. निश्चक्राम महातेजा न च तं मृत्युर आविशत युवनाश्वं नरपतिं तद अद्भुतम इवाभवत ॥ 26 ॥

  27. ततः शक्रॊ महातेजास तं दिदृक्षुर उपागमत परदेशिनीं ततॊ ऽसयास्ये शक्रः समभिसंदधे ॥ 27 ॥

  28. माम अयं धास्यतीत्य एवं परिभास्तः सवज्रिणा मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥ 28 ॥

  29. परदेशिनीं शक्रदत्ताम आस्वाद्य स शिशुस तदा अवर्धत महीपाल किष्कूणां च तरयॊदश ॥ 29 ॥

  30. वेदास तं सधनुर्वेदा दिव्यान्य अस्त्राणि चेश्वरम उपतस्थुर महाराज धयात मात्राणि सर्वशः ॥ 30 ॥

  31. धनुर आजगवं नाम शराः शृङ्गॊद्भवाश च ये अभेद्यं कवचं चैव सद्यस तम उपसंश्रयन ॥ 31 ॥

  32. सॊ ऽभिषिक्तॊ मघवता सवयं शक्रेण भारत धर्मेण वयजयल लॊकांस तरीन विष्णुर इव विक्रमैः ॥ 32 ॥

  33. तस्याप्रतिहतं चक्रं परावर्तत महात्मनः रत्नानि चैव राजर्षिं सवयम एवॊपतस्थिरे ॥ 33 ॥

  34. तस्येयं वसुसंपूर्णा वसु धा वसु धाधिप तेनेष्टं विविधैर यज्ञैर बहुभिः सवाप्तदक्षिणैः ॥ 34 ॥

  35. चित्तचैत्यॊ महातेजा धर्मं पराप्य च पुष्कलम शक्रस्यार्धासनं राजँल लब्धवान अमितद्युतिः ॥ 35 ॥

  36. एकाह्ना पृथिवी तेन धर्मनित्येन धीमता निर्जिता शासनाद एव स रत्नाकर पत्तना ॥ 36 ॥

  37. तस्य चित्यैर महाराज करतूनां दक्षिणा वताम चतुरन्ता मही वयाप्ता नासीत किं चिद अनावृतम ॥ 37 ॥

  38. तेन पद्मसहस्राणि गवां दश महात्मना बराह्मणेभ्यॊ महाराज दत्तानीति परचक्षते ॥ 38 ॥

  39. तेन दवादश वार्षिक्याम अनावृष्ट्यां महात्मना वृष्टं सस्यविवृद्ध्य अर्थं मिषतॊ वज्रपाणिनः ॥ 39 ॥

  40. तेन सॊमकुलॊत्पन्नॊ गान्धाराधिपतिर महा गर्जन्न इव महामेघः परमथ्य निहतः शरैः ॥ 40 ॥

  41. परजाश चतुर्विधास तेन जिता राजन महात्मना तेनात्म तपसा लॊकाः सथापिताश चापि तेजसा ॥ 41 ॥

  42. तस्यैतद देवयजनं सथानम आदित्यवर्चसः पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः ॥ 42 ॥

  43. एतत ते सर्वम आख्यातं मान्धातुश चरितं महत जन्म चाग्र्यं महीपाल यन मां तवं परिपृच्छसि ॥ 43 ॥

Reach this point to mark the section finished.

Continue to अध्याय 127

Previous: अध्याय 125