[ल] तं दृष्ट्वा घॊरवदनं मदं देवः शतक्रतुः आयान्तं भक्षयिष्यन्तं वयात्ताननम इवान्तकम ॥ 1 ॥
भयात संस्तम्भित भुजः सृक्किणी लेलिहन मुहुः ततॊ ऽबरवीद देवराजश चयवनं भयपीडितः ॥ 2 ॥
सॊमार्हाव अश्विनाव एताव अद्य परभृति भार्गव भविष्यतः सत्यम एतद वचॊ बरह्मन बरवीमि ते ॥ 3 ॥
न ते मिथ्या समारम्भॊ भवत्व एष परॊ विधिः जानामि चाहं विप्रर्षे न मिथ्या तवं करिष्यसि ॥ 4 ॥
सॊमार्हाव अश्विनाव एतौ यथैवाद्य कृतौ तवया भूय एव तु ते वीर्यं परकाशेद इति भार्गव ॥ 5 ॥
सुकन्यायाः पितुश चास्य लॊके कीर्तिः परथेद इति अतॊ मयैतद विहितं तव वीर्यप्रकाशनम तस्मात परसादं कुरु मे भवत्व एतद यथेच्छसि ॥ 6 ॥
एवम उक्तस्य शक्रेण चयवनस्य महात्मनः स मन्युर वयगमच छीघ्रं मुमॊच च पुरंदरम ॥ 7 ॥
मदं च वयभजद राजन पाने सत्रीषु च वीर्यवान अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥ 8 ॥
तथा मदं विनिष्क्षिप्य शक्रं संतर्प्य चेन्दुना अश्विभ्यां सहितान देवान याजयित्वा च तं नृपम ॥ 9 ॥
विख्याप्य वीर्यं सर्वेषु लॊकेषु वदतां वरः सुकन्यया सहारण्ये विजहारानुरक्तया ॥ 10 ॥
तस्यैतद दविजसंघुष्टं सरॊ राजन परकाशते अत्र तवं सह सॊदर्यैः पितॄन देवांश च तर्पय ॥ 11 ॥
एतद दृष्ट्वा महीपाल सिकताक्षं च भारत सैन्धवारण्यम आसाद्य कुल्यानां कुरु दर्शनम पुष्करेषु महाराज सर्वेषु च जलं सपृश ॥ 12 ॥
आर्चीक पर्वतश चैव निवासॊ वै मनीषिणाम सदा फलः सदा सरॊतॊ मरुतां सथानम उत्तमम चैत्याश चैते बहुशतास तरिदशानां युधिष्ठिर ॥ 13 ॥
एतच चन्द्रमसस तीर्थम ऋषयः पर्युपासते वैखानसाश च ऋषयॊ वालखिल्यास तथैव च ॥ 14 ॥
शृङ्गाणि तरीणि पुण्याणि तरीणि परस्रवणानि च सर्वाण्य अनुपरिक्रम्य यथाकामम उपस्पृश ॥ 15 ॥
शंतनुश चात्र कौन्तेय शुनकश च नराधिप नरनारायणौ चॊभौ सथानं पराप्ताः सनातनम ॥ 16 ॥
इह नित्यशया देवाः पितरश च महर्षिभिः आर्चीक पर्वते तेपुस तान यजस्व युधिष्ठिर ॥ 17 ॥
इह ते वै चरून पराश्नन्न ऋषयश च विशां पते यमुना चाक्षयस्रॊताः कृष्णश चेह तपॊ रतः ॥ 18 ॥
यमौ च भीमसेनश च कृष्णा चामित्रकर्शन सर्वे चात्र गमिष्यामः सुकृशाः सुतपॊ विनः ॥ 19 ॥
एतत परस्रवणं पुण्यम इन्द्रस्य मनुजाधिप यत्र धाता विधाता च वरुणश चॊर्ध्वम आगताः ॥ 20 ॥
इह ते नयवसन राजन कषान्ताः परमधर्मिणः मैत्राणाम ऋजु बुद्धीनाम अयं गिरिवरः शुभः ॥ 21 ॥
एषा सा यमुना राजन राजर्षिगणसेविता नाना यज्ञचिता राजन पुण्या पापभयापहा ॥ 22 ॥
अत्र राजा महेष्वासॊ मान्धातायजत सवयम सहदेवश च कौन्तेय सॊमकॊ ददतां वरः ॥ 23 ॥
वनपर्व · Vana Parva
अध्याय 125
Reach this point to mark the section finished.
Continue to अध्याय 126