धर्मDharmic Data

वनपर्व · Vana Parva

अध्याय 124

  1. [ल] ततः शरुत्वा तु शर्यातिर वयः सथं चयवनं कृतम संहृष्टः सेनया सार्धम उपायाद भार्गवाश्रमम ॥ 1 ॥

  2. चयवनं च सुकन्यां च दृष्ट्वा देव सुताव इव रेमे मही पः शर्यातिः कृत्स्नां पराप्य महीम इव ॥ 2 ॥

  3. ऋषिणा सत्कृतस तेन सभार्यः पृथिवीपतिः उपॊपविष्टः कल्याणीः कथाश चक्रे महामनाः ॥ 3 ॥

  4. अथैनं भार्गवॊ राजन्न उवाच परिसान्त्वयन याजयिष्यामि राजंस तवां संभारान उपकल्पय ॥ 4 ॥

  5. ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः चयवनस्य महाराज तद वाक्यं परत्यपूजयत ॥ 5 ॥

  6. परशस्ते ऽहनि यज्ञीये सर्वकामसमृद्धि मत कारयाम आस शर्यातिर यज्ञायतनम उत्तमम ॥ 6 ॥

  7. तत्रैनं चयवनॊ राजन याजयाम आस भार्गवः अद्भुतानि च तत्रासन यानि तानि निबॊध मे ॥ 7 ॥

  8. अगृह्णाच चयवनः सॊमम अश्विनॊर देवयॊस तदा तम इन्द्रॊ वारयाम आस गृह्यमाणं तयॊर गरहम ॥ 8 ॥

  9. [इन्द्र] उभाव एतौ न सॊमार्हौ नासत्याव इति मे मतिः भिषजौ देवपुत्राणां कर्मणा नैवम अर्हतः ॥ 9 ॥

  10. [च] मावमन्स्था महात्मानौ रूपद्रविणवत तरौ यौ चक्रतुर मां मघवन वृन्दारकम इवाजरम ॥ 10 ॥

  11. ऋते तवां विबुधांश चान्यान कथं वै नार्हतः सवम अश्विनाव अपि देवेन्द्र देवौ विद्धि पुरंदर ॥ 11 ॥

  12. चिकित्सकौ कर्म करौ कामरूपसमन्वितौ लॊके चरन्तौ मर्त्यानां कथं सॊमम इहार्हतः ॥ 12 ॥

  13. [ल] एतद एव यदा वाक्यम आम्रेडयति वासवः अनादृत्य ततः शक्रं गरहं जग्राह भार्गवः ॥ 13 ॥

  14. गरहीष्यन्तं तु तं सॊमम अश्विनॊर उत्तमं तदा समीक्ष्य बलभिद देव इदं वचनम अब्रवीत ॥ 14 ॥

  15. आभ्याम अर्थाय सॊमं तवं गरहीष्यसि यदि सवयम वज्रं तु परहरिष्यामि घॊररूपम अनुत्तमम ॥ 15 ॥

  16. एवम उक्तः समयन्न इन्द्रम अभिवीक्ष्य स भार्गवः जग्राह विधिवत सॊमम अश्विभ्याम उत्तमं गरहम ॥ 16 ॥

  17. ततॊ ऽसमै पराहरद वज्रं घॊररूपं शचीपतिः तस्य परहरतॊ बाहुं सतम्भयाम आस भार्गवः ॥ 17 ॥

  18. संस्तम्भयित्वा चयवनॊ जुहुवे मन्त्रतॊ ऽनलम कृत्यार्थी सुमहातेजा देवं हिंसितुम उद्यतः ॥ 18 ॥

  19. ततः कृत्या समभवद ऋषेस तस्य तपॊबलात मदॊ नाम महावीर्यॊ बृहत कायॊ महासुरः शरीरं यस्य निर्देष्टुम अशक्यं तु सुरासुरैः ॥ 19 ॥

  20. तस्यास्यम अभवद घॊरं तीक्ष्णाग्रदशनं महत हनुर एका सथिता तस्य भूमाव एका दिवं गता ॥ 20 ॥

  21. चतस्र आयता दंष्ट्रा यॊजनानां शतं शतम इतरे तव अस्य दशना बभूवुर दशयॊजनाः पराकारसदृशाकाराः शूलाग्र समदर्शनाः ॥ 21 ॥

  22. बाहू पर्वतसंकाशाव आयताव अयुतं समौ नेत्रे रविशशिप्रख्ये वक्त्रम अन्तकसंनिभम ॥ 22 ॥

  23. लेलिहञ जिह्वया वक्त्रं विद्युच चपल लॊलया वयात्ताननॊ घॊरदृष्टिर गरसन्न इव जगद बलात ॥ 23 ॥

  24. स भक्षयिष्यन संक्रुद्धः शतक्रतुम उपाद्रवत महता घॊररूपेण लॊकाञ शब्देन नादयन ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 125

Previous: अध्याय 123