[ल] कस्य चित तव अथ कालस्य सुराणाम अश्विनौ नृप कृताभिषेकां विवृतां सुकन्यां ताम अपश्यताम ॥ 1 ॥
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुताम इव ऊचतुः समभिद्रुत्य नासत्याव अश्विनाव इदम ॥ 2 ॥
कस्य तवम असि वामॊरु किं वने वै करॊषि च इच्छाव भद्रे जञातुं तवां तत तवम आख्याहि शॊभने ॥ 3 ॥
ततः सुकन्या संवीता ताव उवाच सुरॊत्तमौ शर्याति तनयां वित्तं भार्यां च चयवनस्य माम ॥ 4 ॥
अथाश्विनौ परहस्यैताम अब्रूतां पुनर एव तु कथं तवम असि कल्याणि पित्रा दत्ता गताध्वने ॥ 5 ॥
भराजसे वनमध्ये तवं विद्युत सौदामिनी यथा न देवेष्व अपि तुल्यां हि तवया पश्याव भामिनि ॥ 6 ॥
सर्वाभरणसंपन्ना परमाम्बर धारिणी शॊभेथास तव अनवद्याङ्गि न तव एवं मलपङ्किनी ॥ 7 ॥
कस्माद एवंविधा भूत्वा जराजर्जरितं पतिम तवम उपास्से ह कल्याणि कामभॊग बहिष्कृतम ॥ 8 ॥
असमर्थं परित्राणे पॊषणे च शुचिस्मिते साधु चयवनम उत्सृज्य वरयस्वैकम आवयॊः पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥ 9 ॥
एवम उक्ता सुकन्या तु सुरौ ताव इदम अब्रवीत रताहं चयवने पत्यौ मैवं मा पर्यशङ्किथाः ॥ 10 ॥
ताव अब्रूतां पुनस तव एनाम आवां देव भिषग वरौ युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥ 11 ॥
ततस तस्यावयॊश चैव पतिम एकतमं वृणु एतेन समयेनैनम आमन्त्रय वरानने ॥ 12 ॥
सा तयॊर वचनाद राजन्न उपसंगम्य भार्गवम उवाच वाक्यं यत ताभ्याम उक्तं भृगुसुतं परति ॥ 13 ॥
तच छरुत्वा चयवनॊ भार्याम उवाच करियताम इति भर्त्रा सा समनुज्ञाता करियताम इत्य अथाब्रवीत ॥ 14 ॥
शरुत्वा तद अश्विनौ वाक्यं तत तस्याः करियताम इति ऊचतू राजपुत्रीं तां पतिस तव विशत्व अपः ॥ 15 ॥
ततॊ ऽमभश चयवनः शीघ्रं रूपार्थी परविवेश ह अश्विनाव अपि तद राजन सरः परविषतां परभॊ ॥ 16 ॥
ततॊ मुहूर्ताद उत्तीर्णाः सर्वे ते सरसस ततः दिव्यरूपधराः सर्वे युवानॊ मृष्टकुण्डलाः तुल्यरूपधराश चैव मनसः परीतिवर्धनाः ॥ 17 ॥
ते ऽबरुवन सहिता सर्वे वृणीष्वान्य तमं शुभे अस्माकम ईप्सितं भद्रे पतित्वे वरवर्णिनि यत्र वाप्य अभिकामासि तं वृणीष्व सुशॊभने ॥ 18 ॥
सा समीक्ष्य तु तान सर्वांस तुल्यरूपधरान सथितान निश्चित्य मनसा बुद्ध्या देवी वव्रे सवकं पतिम ॥ 19 ॥
लब्ध्वा तु चयवनॊ भार्यां वयॊ रूपं च वाञ्छितम हृष्टॊ ऽबरवीन महातेजास तौ नासत्याव इदं वचः ॥ 20 ॥
यथाहं रूपसंपन्नॊ वयसा च समन्वितः कृतॊ भवद्भ्यां वृद्धः सन भार्यां च पराप्तवान इमाम ॥ 21 ॥
तस्माद युवां करिष्यामि परीत्याहं सॊमपीथिनौ मिषतॊ देवराजस्य सत्यम एतद बरवीमि वाम ॥ 22 ॥
तच छरुत्वा हृष्टमनसौ दिवं तौ परतिजग्मतुः चयवनॊ ऽपि सुकन्या च सुराव इव विजह्रतुः ॥ 23 ॥
वनपर्व · Vana Parva
अध्याय 123
Reach this point to mark the section finished.
Continue to अध्याय 124