[ल] भृगॊर महर्षेः पुत्रॊ ऽभूच चयवनॊ नाम भार्गवः समीपे सरसः सॊ ऽसय तपस तेपे महाद्युतिः ॥ 1 ॥
सथाणुभूतॊ महातेजा वीर सथानेन पाण्डव अतिष्ठत सुबहून कालान एकदेशे विशां पते ॥ 2 ॥
स वल्मीकॊ ऽभवद ऋषिर लताभिर अभिसंवृतः कालेन महता राजन समाकीर्णः पिपीलिकैः ॥ 3 ॥
तथा स संवृतॊ धीमान मृत पिण्ड इव सर्वशः तप्यति सम तपॊ राजन वल्मीकेन समावृतः ॥ 4 ॥
अथ दीर्घस्य कालस्य शर्यातिर नाम पार्थिवः आजगाम सरॊ रम्यं विहर्तुम इदम उत्तमम ॥ 5 ॥
तस्य सत्रीणां सहस्राणि चत्वार्य आसन परिग्रहः एकैव च सुता शुभ्रा सुकन्या नाम भारत ॥ 6 ॥
सा सखीभिः परिवृता सर्वाभरणभूषिता चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत ॥ 7 ॥
सा चैव सुदती तत्र पश्यमाना मनॊरमान वनस्पतीन विचिन्वन्ती विजहार सखी वृता ॥ 8 ॥
रूपेण वयसा चैव मदनेन मदेन च बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः ॥ 9 ॥
तां सखी रहिताम एकाम एकवस्त्राम अलं कृताम ददर्श भार्गवॊ धीमांश चरन्तीम इव विद्युतम ॥ 10 ॥
तां पश्यमानॊ विजने स रेमे परमद्युतिः कषाम कण्ठश च बरह्मर्षिस तपॊबलसमन्वितः ताम आबभाषे कल्याणीं सा चास्य न शृणॊति वै ॥ 11 ॥
ततः सुकन्या वल्मीके दृष्ट्वा भार्गव चक्षुषी कौतूहलात कण्टकेन बुद्धिमॊहबलात कृता ॥ 12 ॥
किं नु खल्व इदम इत्य उक्त्वा निर्बिभेदास्य लॊचने अक्रुध्यत स तया विद्धे नेत्रे परममन्युमान ततः शर्याति सैन्यस्य शकृन मूत्रं समावृणॊत ॥ 13 ॥
ततॊ रुद्धे शकृन मूत्रे सैन्यम आनाह दुःखितम तथागतम अभिप्रेक्ष्य पर्यपृच्छत स पार्थिवः ॥ 14 ॥
तपॊनित्यस्य वृद्धस्य रॊषणस्य विशेषतः केनापकृतम अद्येह भार्गवस्य महात्मनः जञातं वा यदि वाज्ञातं तद ऋतं बरूत माचिरम ॥ 15 ॥
तम ऊचुः सैनिकाः सर्वे न विद्मॊ ऽपकृतं वयम सर्वॊपायैर यथाकामं भवांस तद अधिगच्छतु ॥ 16 ॥
ततः स पृथिवीपालः साम्ना चॊग्रेण च सवयम पर्यपृच्छत सुहृद्वर्गं परत्यजानन न चैव ते ॥ 17 ॥
आनाहार्तं ततॊ दृष्ट्वा तत सैन्यम असुखार्दितम पितरं दुःखितं चापि सुकन्येदम अथाब्रवीत ॥ 18 ॥
मयाटन्त्येह वल्मीके दृष्टं सत्त्वम अभिज्वलत खद्यॊतवद अभिज्ञातं तन मया विद्धम अन्तिकात ॥ 19 ॥
एतच छरुत्वा तु शर्यातिर वल्मीकं तूर्णम आद्रवत तत्रापश्यत तपॊवृद्धं वयॊवृद्धं च भार्गवम ॥ 20 ॥
अयाचद अथ सैन्यार्थं पराञ्जलिः पृथिवीपतिः अज्ञानाद बालया यत ते कृतं तत कषन्तुम अर्हसि ॥ 21 ॥
ततॊ ऽबरवीन महीपालं चयवनॊ भार्गवस तदा रूपौदार्यसमायुक्तां लॊभमॊहबलात कृताम ॥ 22 ॥
ताम एव परतिगृह्याहं राजन दुहितरं तव कषमिष्यामि महीपाल सत्यम एतद बरवीमि ते ॥ 23 ॥
ऋषेर वचनम आज्ञाय शर्यातिर अविचारयन ददौ दुहितरं तस्मै चयवनाय महात्मने ॥ 24 ॥
परतिगृह्य च तां कन्यां चयवनः परससाद ह पराप्तप्रसादॊ राजा स ससैन्यः पुनर आव्रजत ॥ 25 ॥
सुकन्यापि पतिं लब्ध्वा तपस्विनम अनिन्दिता नित्यं पर्यचरत परीत्या तपसा नियमेन च ॥ 26 ॥
अग्नीनाम अतिथीनां च शुश्रूषुर अनसूयिका समाराधयत कषिप्रं चयवनं सा शुभानना ॥ 27 ॥
वनपर्व · Vana Parva
अध्याय 122
Reach this point to mark the section finished.
Continue to अध्याय 123